3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-3
3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-3 गीतिकाव्यम् १. कीदृशं संस्कृतकाव्यं गीतिकाव्यमुच्ते? उत्तरम्— संस्कृतभाषया रचितं कोषकाव्यं खण्डकाव्यं वा गीतिकाव्यमपुच्यते। २. संस्कृत-गीतिकाव्यानां के तावद् उपजीब्याः विषयाः? उत्तरम्-- संस्कृत-गीतिकाव्यानाम् उपजीब्याः विषयाः खलु प्रेम, भक्तिः, नीतिश्चेति। ३. संस्कृतसाहित्यस्य कस्यचिद् एकस्य शृङ्गाररसात्मक-गीतिकाव्यस्य नाम लिखत। अस्य लेखकः कः? उत्तरम्-- संस्कृतसाहित्यस्य एकं शृङ्गाररसात्मकं गीतिकाव्यं चौरपञ्चाशिका इति। अस्य लेखकः विल्हणः इति। ४. संस्कृतसाहित्यस्य केषाञ्चित् शृङ्गाररसात्मक-गीतिकाव्यानां तथा तेषां लेखकानां नामानि लिखत। उत्तरम्-- संस्कृतसाहित्यस्य प्रसिद्धानि शृङ्गाररसात्मक-गीतिकाव्यानि यथा— कालिदास-विरचितं मेघदूतम्, धोयी-रचितं पवनदूतम्, घटकर्पर-रचितं घटकर्परकाव्यं, अमरु-रचितम् अमरुशतकम्, विल्हण-रचिता चौरपञ्चाशिका, गोवर्धन-रचिता आर्यासप्तशती, हाल(सातवाहन)-रचिता गाथासप्तशती (गाहासत्तसई), दामोदर-रचितं कुट्टनीसतकाव्यम्, भर्तृहरि-रचितं शृङ्गारशतकम् इति। ५. संस्कृत...