SEC-2, Short Questions (Self-Management in Gita), 4th Semester, CBPBU
SEC-2, Short Questions (Self-Management in Gita), 4 th Semester, CBPBU १. इन्द्रियेभ्यः परं किम् अस्ति? उत्तरम्-- इन्द्रियेभ्यः परं मनः अस्ति। २. मनसः परं किम् अस्ति। उत्तरम्-- मनसः परम् बुद्धिः अस्ति। ३. बुद्धेः परतः किम् अस्ति? उत्तरम्-- बुद्धेः परतः आत्मा अस्ति। ४. कः खलु आत्मा? उत्तरम्-- -- बुद्धेः परतः यः अस्ति स एव आत्मा। ५. कामरूपः शत्रुः कथं विनाश्यते? उत्तरम्—आत्मना आत्मानं संस्तभ्य कामरूपः शत्रुः विनास्यते। ६. कस्य कः सनातनः अंशः? उत्तरम्—भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः। ७. जीवलोके कः कम् आकर्षति? उत्तरम्-- भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः मनःषष्ठानि इन्द्रियाणि जीवलोके आकर्षति। ८ . कानि तावत् मनःषष्ठानि इन्द्रियाणि? उत्तरम्—श्रोत्रं, चक्षुः, स्पर्शनं, रसनं, घ्राणं (चक्षुः, कर्णः, नासिका, जिह्वा, त्वक् ) चेति पञ्च इन्द्रियाणि, तथा मनः इति समवायेन मनःषष्ठानि इन्द्रियाणि। ९. कः कथं विषयान् उपसेवते? उत्तरम्—जीवात्मा हि चक्षुः, कर्णः, नासिका, जिह्वा, त्वक्, मनश्च अधिष्ठाय शब्दादीन् विषयान् उपसेवते। ...