३. वेदे उपसर्गाणां प्रयोगः, C-10, Unit-II, Vedic Grammar


३. वेदे उपसर्गाणां प्रयोगः

वैदिक-लौकिक-संस्कृतयोः अन्यतमं वैशिष्ट्यम् उपसर्गाणां प्रयोगः इति। निरुक्तकारः यास्कः उपसर्गस्य पदत्वं स्वीकृत्य आह--  ʻचत्वारि पदजातानि। नामाख्याते चोपसर्गनिपाताश्चेति।ʼ  लोकिक-संस्कृते उपसर्गः क्रियया सह संयुज्यते, तथा धातोः पूर्वं प्रयुज्यते। पाणिनिना सूत्रं कृतम्--  ʻउपसर्गाः क्रियायोगेʼ, तथा ʻते प्राग्धातोःʼ इति। वैदिकभाषायाम् उपसर्गः नियमितक्रमेण धातोः पूर्वं न प्रयुज्यते। उपसर्गयोगेन धातोः अर्थः परिवर्तते। अस्मिन् विषये कारिका यथा—
ʻधात्वर्थं बाधते क्वचित् क्वचित्तमर्थमनुवर्तते।
विशिनष्टि तमेवार्थमुपसर्ग-गतिस्त्रिधा।।ʼ
अर्थात् उपसर्गः क्वचित् धातोः मुख्यम् अर्थं बाधित्वा  अन्यम् अर्थं प्रकाशयति, क्वचित् धातोः अर्थमेव अनुसरति, क्वचिद् वा धातोः अर्थमेव विशिनष्टि।
विंशतिः उपसर्गाः। कारिकायामुक्तम्—
ʻप्र-पराप-समन्वव-निर्दुरभि-व्यधि-सूदति-नि-प्रतिपर्यनवः।
उप आङिति विंशतिरेष सखे उपसर्गविधिः कथितः कविना।।ʼ
वैदिकभाषायाम् उपसर्गाणां प्रयोगविधिः—
१. साधारण-नियमेन उपसर्गाः धातोः पूर्वं धातुना सह एव प्रयुज्यन्ते, परन्तु वैदिकभाषायाम् धातोः विच्छिन्ना अपि उपसर्गाः प्रयुज्यन्ते। अत्र पाणिनिना सूत्रं कृतम्-- ʻव्यवहिताश्चʼ।
यथा— ʻअन्ये जायां परि मृशन्त्यस्य।ʼ ʻवि भ्राजते दिव्यश्वजनीव।ʼ
क्वचित् धातूपसर्गयोः मध्ये अन्यस्य पदस्य व्यवधानमपि अस्ति। यथा--  उप त्वाग्ने दिवे दिवे—नमो भरन्त एमसि।ʼ
२. वेदे क्वचित् क्वचित् उपसर्गाः धातोः परमपि प्रयुज्यन्ते। अस्मिन् विषये पाणिनिना सूत्रं कृतम्--  ʻछन्दसि परेऽपिʼ इति।
यथा--  ʻयमस्य दूतौ चरतो जनाँ अनु।ʼ  ʻप्रति दीव्यो दधत आ कृतानि।ʼ
३. क्वचित् क्वचित् क्रियापद-विहीनस्य उपसर्गस्य प्रयोगः दृश्यते। तत्र क्रियापदं गम्यम्।
यथा--  ʻआ तु इन्द्र कौशिक मन्दसानः सुतं पिव।ʼ अत्र ʻआʼ इत्यस्य अर्थः ʻआगच्छʼ इति।
४. क्वचित् उपसर्ग-प्रयोगेन विभक्तिविशेषः वोध्यते। यथा-- ʻमर्यो न योषामभ्येति पश्चात्।ʼ  अत्र ʻअभिʼ इति उपसर्गयोगेन ʻयोषाम्ʼ इत्यत्र द्वितीया विभक्तिः जाता। ʻअसूर्या उप सूर्येʼ इत्यत्र ʻउपʼ इति उपसर्गयोगेन ʻसूर्येʼ इति पदे सप्तमी विभक्तिः जाता।
५. केचित् उपसर्गाः पादपूरणार्थे प्रयुज्यन्ते। तदा एषां द्विरुक्तिः भवति। अत्र पाणिनीयं सूत्रम्-- ʻप्रसमुपोदः पादपूरणेʼ इति। यथा-- ʻउपोप मे परामृशः।ʼ ʻसंसम् इद्युवसे।ʼ
६. लौकिकसंस्कृतवत् वेदे अपि धातोः अव्यवहितं पूर्वमपि उपसर्गः प्रयुज्यते। यथा-- ʻयं क्रन्दसी संयती विह्वयेते।ʼ ʻयो अञ्जसा अनुशासति।ʼ
७. वैदिकप्रयोगे क्वचित् धात्वर्थे उपसर्गात् उत्तरं ʻवतिʼ-प्रत्ययः भवति। अत्र पाणिनीयं सूत्रम्-- ʻउपसर्गाच्छन्दसि धात्वर्थेʼ इति। यथा--  ʻयदुद्वतो निवतःʼ--  उद्गतान् निवतान् इत्यर्थः। उद्वत्—उद्वत इत्यर्थे ʻउद्  वतिʼ। निवत—निगत इत्यर्थे ʻनि वतिʼ।
८. वेदे प्रयुक्तानाम् उपसर्गाणां द्विविधं स्वरवैशिष्ट्यं दृश्यते।
(क) प्रधानवाक्ये उपसर्गाः धातुना सह न समासवद्धाः, तेषां च आदिस्वरः उदात्तः भवति।
यथा— ʻरुद्भिरग्न आ गहि।ʼ
(ख) अप्रधानवाक्ये उपसर्गाः धातुना सह समासवद्धाः सन्ति। तत्र धातुस्वर एव भवति।
--------

Comments

Popular posts from this blog

মনুর বিধান ও কিছু কথা

সংস্কৃতসাহিত্যের ইতিহাস (বাংলায়) ১. ভারতীয় সমাজ, সংস্কৃতি ও সাহিত্যে রামায়ণের প্রভাব

সংস্কৃত নাটকের উৎপত্তি-বিষয়ক মতবাদ (Various theories on the origin of Sanskrit drama.)