Posts

Showing posts from March, 2019

C-10, Unit-II, Vedic Grammar (लुङ्, लेट्)

C-10, Unit-II, Vedic Grammar (लुङ्, लेट्) १ . वैदिक-लुङ्पर्याये क्रियारूपनिर्माणं प्रयोगश्च। उत्तरम्— संस्कृतव्याकरणे दशसु लकारेषु लुङ्-लकारः अन्यतमः। ʻलुङ्ʼ इति सूत्रानुसारेण अतीतकाले धातोरुत्तरं लुङ्-लकारः भवति। पाश्चात्त्य-पण्डितैः लुङ्-लकारः ʻ Aorist ʼ इत्युक्तः। वैदिक-संस्कृते साधारणभावेन निकटवर्तिनः अतीतकालस्य अर्थे क्रियायाः इदं रूपविशेषं प्रयुक्तम्। क्रियायाः अतीतकालद्योतकस्य अस्य लुङ्-लकारस्य रूप-निर्माणार्थं प्रथमं कानिचिद् विकरणानि धातुना सह संयुज्यन्ते। ततः लङ्-लकारस्य गौणविभक्तयः द्, ताम्, अन् इत्यादयः प्रयुज्यन्ते। ʻलुङ्लङ्लृङ्क्ष्वडुदात्तःʼ इत्यनेन सूत्रेण   अडागमश्य भवति। परन्तु वैदिकसंस्कृते यथा अट्-युक्तस्य तथा अट्-विहीनस्य लुङः प्रयोगः लभ्यते। लोकिकसंस्कृते अट्-युक्तस्य लुङः प्रयोगः नित्यः। निर्माणगत-वैशिष्ट्यानुसारेण लुङ् ( Aorist ) द्विधा विभज्यते। यथा— १. स्-वर्णयुक्तः लुङ् ( Sigmatic Aorist ), तथा २. स्-वर्णविहीनः लुङ् ( Non-sigmatic Aorist )। १. स्-वर्णयुक्तः लुङ् ( Sigmatic Aorist )— प्रथमप्रकारे स्-वर्णयुक्ते लुङ्-लकारे धातु-प्रत्यययोः...

C-10, Unit-I, मन्त्रव्याख्या (अग्निसूक्तम्, हिरण्यगर्भसूक्तम्, अक्षसूक्तम्)

C-10, Unit-I, मन्त्रव्याख्या   (अग्निसूक्तम्, हिरण्यगर्भसूक्तम्, अक्षसूक्तम्) अग्निसूक्तम्— अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्।। १           प्रस्तुतोऽयं मन्त्रः ऋग्वेदस्य प्रथममण्डलान्तर्गतात् अग्निसूक्तात् उद्धृतः। अस्य मन्त्रस्य द्रष्टा वैश्वामित्रो मधुच्छन्दा ऋषिः, देवता अग्निः, गायत्रीछन्दश्च। प्रातरनुवाके आग्नेये क्रतौ अस्य सूक्तस्य विनियुक्तत्वात् तत्र एव अयं मन्त्रः विनियुज्यते। अत्र ऋषिः अग्निदेवतायाः माहात्म्यं वर्णयति—अग्निमीले इति। अहम् अग्निम् अग्निनामकं देवम् ईले स्तौमि इत्यर्थः। मन्त्रस्य होत्रा प्रयोज्यत्वात् अहं होता स्तौमि इति लभ्यते। कीदृशम् अग्निम्? यज्ञस्य पुरोहितम्। यथा राज्ञः पुरोहितः तदभीष्टं सम्पादयति तथा अग्निरपि यज्ञस्य अपेक्षितं होमं सम्पादयति। यद्वा यज्ञस्य सम्बन्धिनि पूर्वभागे आहवनीयरूपेण अवस्थितम्। पुनः कीदृशम्? देवम् दानादिगुणयुक्तम्। पुनः कीदृशम्? होतारम् ऋत्विजम्। देवानां यज्ञे होतृनामक ऋत्विक् अग्निरेव। तथा च ऐतरेयब्राह्मणे-- ʻअग्निर्वै देवानां होता।ʼ पुनरपि कीदृशम्...