C-10, Unit-II, Vedic Grammar (लुङ्, लेट्)
C-10, Unit-II, Vedic
Grammar (लुङ्,
लेट्)
१. वैदिक-लुङ्पर्याये क्रियारूपनिर्माणं प्रयोगश्च।
उत्तरम्— संस्कृतव्याकरणे दशसु लकारेषु लुङ्-लकारः
अन्यतमः। ʻलुङ्ʼ इति सूत्रानुसारेण अतीतकाले धातोरुत्तरं लुङ्-लकारः भवति। पाश्चात्त्य-पण्डितैः
लुङ्-लकारः ʻAorist ʼ इत्युक्तः। वैदिक-संस्कृते साधारणभावेन निकटवर्तिनः
अतीतकालस्य अर्थे क्रियायाः इदं रूपविशेषं प्रयुक्तम्। क्रियायाः अतीतकालद्योतकस्य
अस्य लुङ्-लकारस्य रूप-निर्माणार्थं प्रथमं कानिचिद् विकरणानि धातुना सह
संयुज्यन्ते। ततः लङ्-लकारस्य गौणविभक्तयः द्, ताम्, अन् इत्यादयः प्रयुज्यन्ते। ʻलुङ्लङ्लृङ्क्ष्वडुदात्तःʼ इत्यनेन सूत्रेण अडागमश्य भवति। परन्तु वैदिकसंस्कृते यथा
अट्-युक्तस्य तथा अट्-विहीनस्य लुङः प्रयोगः लभ्यते। लोकिकसंस्कृते अट्-युक्तस्य
लुङः प्रयोगः नित्यः।
निर्माणगत-वैशिष्ट्यानुसारेण
लुङ् (Aorist) द्विधा विभज्यते। यथा—
१.
स्-वर्णयुक्तः लुङ् (Sigmatic Aorist), तथा २. स्-वर्णविहीनः लुङ् (Non-sigmatic
Aorist)।
१.
स्-वर्णयुक्तः लुङ् (Sigmatic Aorist)—
प्रथमप्रकारे
स्-वर्णयुक्ते लुङ्-लकारे धातु-प्रत्यययोः मध्ये अकारयुक्तस्य सकारस्य (स), अथवा
अकार-विहीनस्य सकारस्य (स्) आगमः भवति। अस्य पुनः चत्वारः भेदाः दृश्यन्ते। यथा—
(क) स-युक्तः लुङ् (sa-Aorist),
(ख) स्-युक्तः लुङ् (s-Aorist),
(ग) इस्-युक्तः लुङ् (is-Aorist),
(घ) सिस्-युक्तः लुङ् (sis-Aorist)।
२. स्-वर्णविहीनः
लुङ् (Non-sigmatic Aorist)
स्-वर्णविहीनः
लुङ् पुनः त्रिधा विभक्तः। यथा—
(क) अ-युक्तः लुङ् (a-Aorist),
(ख) धातु-लुङ् (Root-Aorist),
(ग) अभ्यस्तः लुङ् (Reduplicated Aorist)।
स-युक्तः
लुङ्-- अस्मिन् लुङ्-प्रकारे धातुना सह सकारः (स)
संयुज्यते। केवलं दशानां धातूनां स-युक्तं रूपं लभ्यते। यथा-- मृज्, यज्, वृज्, क्रुश्, मृश्, स्पृश्,
द्विष्, ग्रह्, द्रुह्, रुह् च इति।
उदाहरणम्-- अक्रुक्षत्, अधुक्षत्, अस्पृक्षत् इत्यादीनि।
स्-युक्तः
लुङ्-- अस्मिन्
लुङ्-प्रकारे धातुना सह ʻस्ʼ इति संयुज्यते। यथा-- अभैष्म, अमंस्त इत्यादीनि।
इस्-युक्तः
लुङ्-- अस्मिन् लुङ्-प्रकारे धातुना सह ʻइस्ʼ इति
संयुज्यते। यथा-- अशयिष्ट, अकारिषम्
इत्यादीनि।
सिस्-युक्तः
लुङ्-- अस्मिन्
लुङ्-प्रकारे धातुना सह ʻसिस्ʼ इति संयुज्यते। केवलं सप्तसु धातुषु अस्य प्रयोगः
दृश्यते। एषां धातूनाम् अन्ते आकारः (आ), नकारः (न्), मकारः (म्) च सन्ति। इमे
धातवः—गा, ज्ञा, प्या, या, हा, वन्, रम् चेति।
उदाहरणम्-- अयासिष्टाम्, अज्ञासिष्टाम् इत्यादीनि।
२.
स्-वर्णविहीनः लुङ्—
अ-युक्तः
लुङ्—अस्मिन्
लुङ्-प्रकारे धातुना सह ʻअʼ इति संयुज्यते। ततः प्रत्ययः संयुज्यते। अस्य प्रयोगः
लङ्-लकार इव।
यथा—अगमत्,
अविदत्, अमुचत् इत्यादीनि। अगमत्— अट्—गम् अ त्।
धातु-लुङ्--
अस्मिन्
लुङ्-प्रकारे धातुना सह केवलं प्रत्ययः संयुज्यते।
यथा—अभूत्,
अस्थात्, अगात् इत्यादीनि।
अभ्यस्तः
लुङ्-- अस्मिन्
लुङ्-प्रकारे धातोः द्वित्वं क्रियते, ततः द्वित्वकृतेन धातुना सह प्रत्ययः
संयुज्यते।
यथा-- अपक्तत् (अट्—पच् पच् त्), अपीपतत्, अचीकरम्,
अजीजनत् इत्यादीनि।
कर्मकर्तृवाच्ये
धातुलुङः प्रयोगः अपि दृश्यते। यथा--
अक्रि, अकृथाः, अकृत्, अयुजि इत्यादीनि।
सद्यः
अतीतकाल एव वैदिक-लुङः विषयः। अयं तु केवलम् एकम् अतीत-समयं निर्दिशति। यथा—ʻप्रति दिवो दुहिता अदर्शिʼ। ब्राह्मणसाहित्ये लुङ् क्वचित् क्वचित् वक्तुः
प्रत्यक्षं संघटिताम् काञ्चित् अतीत-क्रियां वोधयति। यथा-- ʻज्योग् वा इयम् उर्वशी मनुष्येषु अवात्सीत्।ʼ क्वचित् पुनः कस्यचित् धर्मीयानुष्ठानस्य
फलरूपेण घटितायाः घटमानायाः वा क्रियायाः वोधनार्थं लुङ् प्रयुज्यते। यथा-- ʻपुत्रस्य नाम गृह्णाति, प्रजाम् एवानु सम् अतानीत्।ʼ
वेदे
लुङ्मूलस्य आशीर्लिङः प्रयोगवैचित्र्यम् अपि दृश्यते। यथा— ʻसमुपुष्णा गमेमहि।ʼ लिट्-मूलस्य प्रयोगः अपि लभ्यते। यथा—साहसिष्टा।
लौकिक-संस्कृते
लुङ्-लकारेण सामान्यः अतीतः द्योत्यते। अस्मिन् विषये पाणिनीयं सूत्रम्-- ʻभूतसामान्ये लुङ्ʼ इति।
------
२. वैदिक-लेट्-लकारः
(Vedic Subjunctive)
उत्तरम्—
वैदिक-क्रियापर्याये
पञ्च भावाः (Moods) सन्ति। एषु अन्यतमः लेट् (Subjunctive)इति। क्रियायाः कञ्चित् विशेषभावं द्योतयितुं लेट्-लकारः
प्रयुज्यते। लौकिकसंस्कृते अस्य प्रयागः नास्ति। साधारणभावेन पणबन्धार्थे (अभिप्रायार्थे),
औचित्यार्थे, कारणात् कार्यस्य स्वाभाविक-निष्पत्तिः इत्याद्यर्थे लेटः प्रयोगः
दृश्यते। केचित् मन्यन्ते यत्, पूर्वम् प्रयोजनार्थे लेट् प्रयुक्तः, परवर्तिनि
काले सोऽर्थः विधिलिङ्-लकारे अन्तर्भुक्तः जातः। प्रकृततः लेट्-लिङोः स्वल्प एव
प्रभेदः अस्ति। लेटः प्रयोगे क्रियानुष्ठाने कर्तुः पूर्णः अधिकारः अस्ति, परन्तु
लिङ्-लकारे नास्ति। लेटः स्वतन्त्रा विभक्तिः नास्ति, लटः विभक्तयः एव
प्रयुज्यन्ते। यथा—ति, तस्, अन्ति इत्यादयः परस्मैपदिनः, तथा ते आते अन्ते
इत्यादयः आत्मनेपदिनः।
लेटः
प्रयोगक्षेत्रम्—
१ वैदिकभाषायां प्रधानवाक्ये लेटः द्विविधः प्रयोगः
दृश्यते—
(क) अधिकक्षेत्रे प्रश्नवोधक-वाक्ये लेट्
प्रयुज्यते। यथा—ʻकिमु नु वः कृणवाम?ʼ --तवार्थे वयं किं प्रार्थयामः?
(ख) नञर्थकवाक्ये लेटः प्रयोगः। यथा-- ʻ न ता नशन्ति न दभाति तस्करः।ʼ --ते कदापि
विनष्टाः न भवन्ति, तस्करः तेषां क्षतिं साधयितुं न शक्नुवन्ति।
आचार्येण
पाणिनिना लेटः प्रयोग-विषये कानिचित् सूत्राणि कृतानि। यथा--
२. लिङर्थे लेट् (३।४।७)--
वेदे विध्यादौ हेतु-हेतुमद्भावादौ धातोः लेट् स्यात्। पाणिनि-व्याकरणे
विधिलिङ्
आशीर्लिङ् इति लकारद्वयं ʻलिङ्ʼ इत्यनेन अभिहितम्। अतः वैदिक-प्रयोगार्थं लेट् इति स्वतन्त्रः लकारः स्वीकृतः।
यथा--
ʻस देवाঁ एह वक्षति।ʼ ʻकुम्भ्यां मा अग्रे विभरासि।ʼ
३ ३. लेटोऽडाटौ (३।४।९४)—लेटः अट् आट् च एतौ आगमौ स्तः, तौ च
पितौ। प्रथमं धातोः उत्तरं
शप्श्यनादि-विकरणात् परम् अट्, आट् चेति आगमद्वयं भवति।
यथा—करत्, गमत्, कराति, प्रताति, दभाति, बिभरासि इत्यादयः।
४. इतश्च लोपः परस्मैपदेषु (३।४।९७)--
लेटः तिङाम् इकारस्य लोपः वा स्यात् परस्मैपदेषु।
यथा--
अश्नवत्, आगमत्, चरत् इत्यादयः।
५.
सिब्बहुलं लेटि (३।१।३४)— धातोः सिप् प्रत्ययः भवति बहुलं लेटि परतः। सिपः स् इति अवशिष्यते।
सिबागमे धातोः स्वरस्य वृद्धिः भवति। यथा— तृ—तारिषत्। ऋ—अरिषत्।
६. स उत्तमस्य (३।४।९८)--
लेटः उत्तमपुरुषे वस्, मस् चेति विभक्तिद्वयस्य सकारस्य विकल्पेन लोपः स्यात्।
यथा—करवाव,
करवावः। पताम, पतामः।
७.
आत ऐ (३।४।९५)—लेटः
आकारस्य ʻऐःʼ स्यात्। अर्थात् आते-स्थाने ʻऐतेʼ, आथे-स्थाने ʻऐथेʼ च भवतः। यथा—मादयैते (मादयाते-स्थाने)। परन्तु आडागमे ऐत्वं न भवेत्। यथा—यज् आट् लेट्
ते –यजाते। यज् आट् लेट् ति –यजाति।
८.
वैताऽन्यत्र (३।४।९९)-- लेटः एकारस्य ऐः स्याद्
वा, ʻआत ऐʼ इत्यस्य विषयं विना।
यथा—पशूनाम्
ईशै। ग्रहा गृह्यान्तै।
९.
उपसंवादाशङ्कयोश्च (३।४।८)—पणबन्धे आशङ्कायां च लेट् स्यात्।
यथा--
ʻअहमेव पशूनामीशै।ʼ त्रिपुरविजये देवैः प्रार्थितस्य रुद्रस्य वचनमिदम्। यदि
अहं त्रिपुरं जेष्यामि तदा अहं पशूनां संसारिणाम् ईशिष्ये इति पणः।
ʻनेत्
जिह्मायन्त्यो नरकं पतामʼ --नारदेन प्रलोभ्यमानाम् असुरपत्नीनाम् उक्तिरियम्। अत्र
नेत् (न इत्) इति समुदितम् अव्ययम् आशङ्काद्योतकम्। भर्तृषु जिह्मायन्त्यः कुटिलम्
आचरन्त्यः वयं नरकं पतिष्यामः इति आशङ्का।
-------
Comments
Post a Comment