संस्कृतभाषया व्याख्या कार्या— किरातार्जुनीयम्, प्रथमः सर्गः,C-4, 2nd sem, cbpbu
संस्कृतभाषया व्याख्या कार्या— किरातार्जुनीयम्, प्रथमः सर्गः, C-4, 2 nd sem, cbpbu १. स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्रभुः। सदानुकलेषु हि कुर्वते रतिं नृपेष्वमत्येषु च सर्वसम्पदः।। (श्लोक—५) उत्सः-- श्लोकोऽयं महाकवि-भारवि-विरचितस्य किरातार्जुनीयम् इति महाकाव्यस्य प्रथमसर्गात् उद्धृतः। प्रसङ्गः —कपटद्यूतक्रीडायां हृतसर्वस्वः युधिष्ठिरः दुर्योधनस्य राज्यशासनवृत्तान्तं विज्ञातुम् एकं वनेचरं चररूपेण नियुक्तवान्। स वनेचरः कुरुराज्यं प्रविश्य सर्वं विज्ञाय द्वैतवने युधिष्ठिराय निवेदयामास। राज्यस्य समृद्धिसाधनार्थं राजमन्त्रिणोः सम्पर्कविषये यदुक्तं तदत्र श्लोके विवृतम्—स किं सखेति। अन्वयः —यः अधिपं साधु न शास्ति, स किंसखा।, यः हितात् न संशृणुते स किम्प्रभुः। हि नृपेषु अमात्येषु च अनुकूलेषु सर्वसम्पदः सदा रतिं कुर्वते। व्याख्या —राजकार्ये मन्क्रणाकार्यम् आवश्यकम्। राज्ञा एकाकिना मन्त्रणा न कार्या। तत्र मन्त्रिणां साहाय्येन प्रयोजनम्। उक्तं च कौटिल्येन— ‘ सहायसाध्यं राजत्वं चक...