3rd sem, C-5, संक्षिप्तम् प्रश्नोत्तरम्—लौकिकसंस्कृतसाहित्येतिहासः-2
नाट्यसाहित्यम् १. किं तावद् दृश्यकाव्म्? उत्तरम्— संस्कृते रूपकं दृश्यकाव्यम् इत्युच्यते। दृश्यम् अभिनययोग्यं काव्यम्। २. भारतीय-नाट्यशास्त्रस्य प्राचीनतमः ग्रन्थः कः? तस्य रचयिता कः? उत्तरम्-- भारतीय-नाट्यशास्त्रस्य प्राचीनतमः ग्रन्थः नाट्यशास्त्रम् इति। तस्य रचयिता भरतमुनिः इति। ३. प्राक्कालिदास-युगस्य प्रख्यातः नाट्यकारः कः? तेन कति रूपकाणि रचितानि? तेषां नामानि लिखत। उत्तरम्-- प्राक्कालिदास-युगस्य प्रख्यातः नाट्यकारः भासः। तेन त्रयोदश रूपकाणि रचितानि। यथा— रामायणाश्रितम्-- प्रतिमानाटकम्, अभिषेकनाटकम् च। महाभारताश्रितम्—मध्यमव्यायोगः, दूतवाक्यम्. उरुभङ्गम्, कर्णभारम्, दृतघटोत्कचः, पञ्चरात्रम् चेति। उदयनकथाश्रितम्—प्रतिज्ञायौगन्धरायणम्, स्वप्नवासवदत्तम् च। लोककथाश्रितम्—अविमारकम् चारुदत्तम् चेति। कृष्णचरिताश्रितम्—बालचरितम् इति। ५. अश्वघोषस्य नाट्यकृतेः नाम तिखत। उत्तरम्— अश्वघोषस्य एकमात्रं नाट्यकृतिः शारिपुत्रप्रकरणम् इति। इदं प्रकरणजातीयं रूपकम्। ६. संस्कृतनाट्यसाहित्यस्य एकमात्रं वियोगान्तं रूपकं किम्? उत्तरम्-- संस्कृतनाट्यसा...