Posts

C-10, Unit-I, हिरण्यगर्भसूक्तम्, संज्ञानसूक्तम्, 4th Sem, CBPBU

C-10, Unit-I , हिरण्यगर्भसूक्तम्, संज्ञानसूक्तम्,   4 th Sem, CBPBU ३. ऋग्वेदस्य हिरण्यगर्भसूक्ते यद् दार्शनिक-तत्त्वं प्रतिफलितं तत् सविमर्णमालोच्यताम्। उत्तरम्--   आर्यसंस्कृतेः प्राचीनतमं निदर्शनम् ऋग्वेदः। तत्र संवादसूक्तम्, धर्मनिरपेक्षसूक्तम्, गीतिकविता-समृद्धं सूक्तं यथा सन्ति, तथा गभीर-दार्शनिकतत्त्व-विषयकानि कानिचित् सूक्तानि अपि सन्ति। एषु सूक्तेषु ऋग्वेदस्य दशममण्डलान्तर्गतं हिरण्यगर्भसूक्तम् अन्यतमम्। हिरण्यगर्भसूक्ते सर्वव्यापिन्याः एकस्याः अद्वितीयायाः सत्तायाः वर्णनापूर्वकम् ऋषिः आह--   सर्वप्रथमं केवलं हिरण्यगर्भ एव वर्तमानः आसीत्। स जातमात्रः एव सर्भूतानाम् अधीश्वरः अभवत्। स पृथिवीलोकं द्युलोकं च धारयति। ततः प्रश्नः कृतः--   ʻकस्मै देवाय हविषा विधेम?ʼ   अस्य उत्तररूपेण उक्तम्--   य आत्मनां दाता,   आत्मनां शोधयिता वा, बलस्य च दाता शोधयिता वा, देवा अपि यस्य प्रशासनमुपासते, अमृतं यस्य छाया इव भवति, मृत्युरपि यस्य छाया इव भवति, यः स्वमाहात्म्येन दर्शनेन्द्रियसम्पन्नानां गतिशक्तियुक्तानां जीवानाम् अद्वितीयः राजा भवति। यः द्विप...

C-10, Unit-I, 4th Sem, CBPBU

C-10, Unit-I , 4 th Sem, CBPBU १. अग्निसूक्तमवलम्ब्य अग्निदेवस्य चारित्रिक-वैशिष्ट्यम् आलोच्यताम्। उत्तरम्— उपक्रमः--   वैदिक-देवतागणः एकैकस्याः प्राकृतिकशक्तेः प्रकाशः। अग्निरपि न व्यतिक्रमः। वैदिकयुगे प्रात्यहिक-कार्यनिर्वाहे अग्नेरेव मुख्या भूमिका आसीत्। अग्निः सर्वापेक्षया निकटतमः देवः। अतः उक्तम्—अग्निर्वै देवानामवमः। अग्निः पृथिवीस्थानस्य देवता अपि द्युलोके अन्तरीक्षलोके चापि विराजते। स द्युलोके जातोऽपि मातरिश्वा तं मर्त्यलोकम् आनयति स्म। वेदे वर्णितस्य अग्नेः प्रमन्थ इति नाम्ना सह ग्रीकभाषायाः ʻप्रमिथिउस्ʼ इत्यस्य सादृश्यमस्ति। ल्याटिनभाषायाः ʻ ignis ʼ ( इग्निस् ) इत्यनेन तथा श्लाभनिक-भाषायाः   ʻ ogni ʼ ( ओग्नि ) इत्यनेन सह वैदिकयुगस्य अग्नेः सादृश्यमस्ति। अग्नेः चारित्रिक-वैशिष्ट्यम्— अग्नेः उत्पत्तिः--   ऋग्वेदस्य विविधेषु मन्त्रेषु अग्नेः उत्पत्तेः विवरणं प्रदत्तम्। द्यौः अग्नेः पिता, पृथिवी तस्य माता।। क्वचित् स आपजः (जलात् उत्पन्नः) । त्वष्टा तस्य पिता इत्युक्तम्-- ʻयं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान।ʼ (ऋग्वेदः--...

C-4, Unit-I, Kiratarjunaiyam, Short Questions (2nd Sem, CBPBU)

C-4, Unit-I, Kiratarjunaiyam, Short Questions (2 nd Sem, CBPBU) संक्षिप्तं प्रश्नोत्तरम्— १. किरातार्जुनीयम् किंजातीयकं काव्यम्? अस्य रचयिता कः? उत्तरम्--   किरातार्जुनीयम् महाकाव्यश्रेण्याः रचना। अस्य रचयिता महाकविः भारविः। २. किरातार्जुनीयम् इति काव्ये कति सर्गाः सन्ति? उत्तरम्-- किरातार्जुनीयम् इति काव्ये अष्टादश   सर्गाः सन्ति। ३.   किरातार्जुनीयम् इति काव्यस्य आख्यानं कस्माद् गृहीतम्? उत्तरम्-- किरातार्जुनीयम् इति काव्यस्य आख्यानं व्यासदेव-रचितस्य महाभारतस्य वनपर्वणः तथा शिवपुराणात् गृहीतम्। ४. किरातार्जुनीयम् इति काव्यस्य प्रथससर्गस्य नाम किम्? उत्तरम्-- किरातार्जुनीयम् इति काव्यस्य प्रथससर्गस्य नाम ʻवनेचरागमनम्ʼ ʻदूतसन्देशःʼ वा। ५. किरातार्जुनीयम् इति काव्यं केन शब्देन आरब्धम्? किरातार्जुनीये मङ्गलवाचकः शब्दः कोऽस्ति? उत्तरम्-- किरातार्जुनीयम् इति काव्यं ʻश्रीःʼ इत्यनेन शब्देन आरब्धम्। किरातार्जुनीये ʻश्रीःʼ इति मङ्गलवाचकः शब्दः अस्ति। ६. किरातार्जुनीयम् इति काव्यस्य प्रथमसर्गः केन छन्दसा विरचितः? उत्तरम्-- किरातार्...