पुराणलक्षणम्, पुराणस्य गुरुत्वं च। (for 3rd Sem (Hons, C-5)
३. पुराणलक्षणम्, पुराणस्य गुरुत्वं च। (for 3rd
Sem (Hons, C-5)
भारतीय-संस्कृतेः मूलाधारं हि पुराणसाहित्यम्। ʻपुराणम्ʼ
इत्यस्य अर्थः ʻपुरातनी कथाʼ। ब्राह्मणसाहित्ये उपनिषदि
च ʻइतिहासपुराणम्ʼ इति शब्दस्य उल्लेखः कृतः। वैदिकसाहित्ये आख्यानम्, उपाख्यानम्,
पुराणम्, इतिहासः, इत्येते शब्दाः प्रायः समार्थकरूपेण प्रयुक्ताः। अमरकोशे
उक्तम्-- ʻपुराणं
पञ्चलक्षणम्ʼ।
प्राचीनेषु पुराणेषु प्रदत्तं संज्ञानुसारं पुराणं खलु पुराकालस्य विवरणम्। यतः
पुराकाले अतीते वा एवं सङ्घटितम्, अतः इदं पुराणमिति-- ʻपुरातनस्य कल्पस्य पुराणानि
विदुर्वुधाःʼ
(मत्स्यपुराणम्)। इतिहासात् पुराणस्य प्रभेदोऽस्ति। निरुक्तकाराणां मतानुसारेण
पुराणस्य अर्थः-- ʻपुराणं कस्मात्? पुरा नवं भवति। निदानभूतम् इति ह
एवमासीत् इति यत्र उच्यते स इतिहासः।ʼ सुप्रिसद्धेन पुराणगवेषकेण पण्डितेन Pargiter-महोदयेन उक्तम्-- "Purāna means any
‘old tale' or ‘ancient lore' generally, and Itihāsa would seen properly to
denote a story of fact in accordance with its derivation ʻइति ह आसʼ, which rather
denotes actual transitional history.'
पुराणस्य लक्षणम्—साधारणभावेन पुराणस्य पञ्चलक्षणम्
स्वीकृतम्। अस्मिन् विषये वायुपुराणे, विष्णुपुराणे च उक्तम्—ʻसर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि
च। वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम्।।ʼ
सर्गः सृष्टिरिति। प्रतिसर्गः प्रलयात् परं पुनः सृष्टिः। वंशः—देवतानाम्
ऋषीणां च वंशावली। मन्वन्तरम् एकैकस्य मनोः शासनकालः। वंशानुचरितम् राजवंशानाम्
इतिहासः। मत्सपुराणे एतद्व्यतिरिक्तं भुवनविस्तारः, दानधर्मः, श्राद्धकल्पम्,
वर्णाश्रमविभागः, इष्टापूर्तम्, देवताप्रतिष्ठा चेति षट् लक्षणं स्वीकृतम्। मूलपुराणानाम् रचनायाः परम् अन्ये च वहवः विषयाः पुराणेषु
सन्निविष्टाः। यथा—ज्योतिषम्, श्राद्धतत्त्वम्, कृषिकर्म, पशुपालनम्, वाणिज्यकर्म,
आयुर्वेदः, व्याकरणम्, छन्दः, भूगोलम्, वास्तुविद्या, अस्त्रविद्या, शारीरविद्या
इत्यादयः।
पुराणानाम् ऐतिहासिकं मूल्यम्-- पुराणानाम् प्रभूतम् ऐतिहासिकं
मूल्यम् अस्ति। पुराणेषु स्वायम्भुवः, दक्षः प्राचेतः, वैवस्वतः, मान्धाता, सगरः,
रामः प्रमुखानाम् राज्ञां विवरणं यथा लभ्यते, तथा वृहद्रथवंशः, प्रद्योतवंशः,
शिशुनागवंशः, नन्दवंशः, मौर्यवंशः, शुङ्गवंशः, कण्ववंशः, आन्ध्रभृत्यवंशः, गुप्तवंशः
इत्यादीनाम् राजवंशानां विवरणमपि लभ्यते।
एतद्व्यतिरिक्तं उल्लिखितानाम् राजवंशानां समकालीनानाम् आभीर-शक-यवन-तुषार-हूण-शूद्र-म्लेच्छादीनाम्
राजवंशानां निर्भरयोग्यः इतिहासोऽपि लभ्यते। सत्यमेतत् यत्, राजवंशानाम्
इतिहासवर्णने केषुचित् क्षेत्रेषु अतिरञ्जनम्, भ्रम-प्रमादः, कल्पना-विलासोऽपि
दृश्यते।
पुराणानां धर्मीयं गुरुत्वम्—हिन्दुधर्मस्य प्रधानं धाराद्वयम्—वोदिकधर्मः,
पौराणिकधर्मश्चेति। पुराणेषु
ब्राह्म-पाञ्चरात्र-वैष्णव-भागवत-शैव-पाशुपत-गाणपत्य-शाक्तादीनां धर्मसम्प्रदायानां
सामाजिकः इतिदासः लभ्यते। पुराणेषु वेदानुसारिभिः
सांख्य-वेदान्तादि-दार्शनिक-मतवादैः सह वेदविरोधिनः केचित् मतवादा अपि वर्णिताः।
अत्र लौकिकधर्मस्यापि विशिष्टं रूपं दृश्यते। पौराणिकमते-- सत्यम्, अहिंसा च
श्रेष्ठः धर्मः। सत्यम् इति न केवलम् अध्यात्मचेतना, कायिक-वाचिक-मानसिकं
विशुद्धिकरणमपि। पुराणमते—अहिंसा, क्षमा, क्षान्तिः, शमः, दमः, इन्द्रियनिग्रहः,
दया, दानम्, शौचम्, तपः, विद्या, त्यागः, अक्रौधः, अस्तेयः, ध्यानम्, देवतापूजा
इत्यादयः महद्धर्माः। एवम् परिवर्तितायां युगधारायां धर्माचारे समाजभावनायां च
यानि वैशिष्ट्यानि युक्तानि, पुराणेषु तेषाम् अपूर्वं सामञ्जस्यविधानं कृतम्।
भारतीयसाहित्ये पुराणस्य प्रभावः—लौकिकसंस्कृतस्य विविधानां शाखानां ग्रन्थेषु,
तथा आधुनिक-भारतीय-भाषाभिः रचितेषु ग्रन्थेषु अपि पुराणजातीयानाम् आख्यानानां
प्रभावः दृश्यते। हरिवंशमपि पुराणम् इति केचित् मन्यन्ते।
हेमाद्रि-शूलपाणि-वाचस्पतिमिश्र-प्रमुखानां ग्रन्थेषु, हरविजयम्, श्रीकण्ठचरितम्,
हरचरितचिन्तामणि, दशावतारचरितम्, शिवलीलार्णवम् इत्यादिषु काव्येषु पुराणस्य बहवः
विषयाः गृहीताः। मध्ययुगस्य अधिकांशं काव्यं, नाटकं च पुराणे वर्णितेन उपाख्यानेन
पुष्टम्। वङ्गसाहित्येऽपि पुराणस्य प्रभावः प्रभूतं दृश्यते। वैष्णवपदावल्याः
वृत्तान्तानाम् उत्सः विष्णुपुराणम्, ब्रह्मवैवर्तपुराणम्, श्रीमद्भागवतम्,
पद्मपुराणं चेति।
पुराणानां
भौगोलिकं गुरुत्वम्—प्राचीनभारतस्य
सामग्रिकं भौगोलिकं चित्रं पुराणेषु लभ्यते। तत्र बहूनां
नद-नदी-पर्वत-तीर्थस्थान-जनपदानां विवरणं लभ्यते। केषाञ्चित् स्थानानाम्
अस्तित्वम् अद्यापि विद्यते। पुराणे सप्तद्वीपस्य, सप्तसागरस्य, सप्तकुलपर्वतस्य च
वर्णना अस्ति।
उपसंहारः—विविधायाम् असङ्गत्यां सत्यामपि
सामग्रिकभावेन पुराणम् अतीव गुरुत्वपूर्णम्। भारतवर्षस्य प्रकृतमितिहासं,
ब्राह्मण्यप्रभावमुक्तं जनगणस्य इतिहासं संरक्षितुं प्रवृत्तेः, प्रेरणायाश्च
प्रथमः प्रयासः लक्ष्यते पुराणसाहित्ये। भारतीय-धर्म-ज्ञान-संस्कृतीनां च
साधारणीकरणं कृतं पुराणसाहित्ये। भारतवर्षस्य सामग्रिक-जीवनधारायाः नवरूपेण प्रचारयितुं
पुराणस्य प्रभावः अपरिसीमः। अतः मत्स्यपुराणे उक्तम्-- ʻपुराणं सर्वशास्त्राणां
प्रथमं ब्रह्मणा कृतम्।ʼ पुराणानां गुरुत्वविषये R. C. Hazra-महोदयेन उक्तम्—"Like a living
organism it has undergone changes from time to time with the changes in the
social and religious life of the people and has thus been able to preserve to
an appreciable degree of materials for the study of popular life in ancient and
mediaeval India.'
------
Comments
Post a Comment