C-9, Unit-I, Kautiliyam Arthasatram, Short questions
C-9, Unit-I, Kautiliyam
Arthasatram, Short questions
१. का नाम विद्या?
उत्तरम्-- ʻविद्याʼ
शब्दस्य साधारणः अर्थः ʻज्ञानम्ʼ, अर्थात् शिक्षणीयाः विषयाः।
२. विद्या कतिविधा?
उत्तरम्—विद्या चतुर्विधा। यथा-- आन्वीक्षिकी त्रयी वार्ता
दण्डनीतिश्चेति।
३. का उच्यते
आन्वीक्षिकी?
उत्तरम्-- सांख्यं
योगो लोकायतं च इति आन्वीक्षिकी।
४. का उच्यते त्रयी?
उत्तरम्-- ʻसामर्ग्यजुर्वेदास्त्रयस्त्रयी।ʼ
ऋक्, साम, यजुश्चेति त्रयः वेदाः त्रयी
इत्युच्यते।
५. का उच्यते वार्ता?
उत्तरम्-- ʻकृषिपाशुपाल्ये वणिज्या च वार्ताʼ इति कौटिल्यः।
६. का खलु दण्डनीतिः?
उत्तरम्-- कौटिल्येन उक्तम्-- ʻआन्विक्षिकी-त्रयी-वार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्दण्डनीतिः।ʼ
७. कानि तावत् मन्त्रणाकार्यस्य अङ्गानि?
उत्तरम्-- मन्त्रणाकार्यस्य
पञ्च अङ्गानि सन्ति। यथा-- कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पद्, देशकालविभागः,
विनिपातप्रतीकारः कार्यसिद्धिरिति ।
८. क उच्यते अरिषड्वर्गः?
उत्तरम्-- ʻअरिःʼ इत्यस्य अर्थः शत्रुः। षण्णाम् अरीणां समाहारः इति अरिषड्वर्गः।
आचार्यस्य कौटिल्यस्य मतानुसारेण कामः, क्रोधः, लोभः, मानम्, मदः हर्षश्चेति षट्
अरयः।
९. क उच्यते त्रिवर्गः?
उत्तरम्—धर्मः, अर्थः, कामश्चेति
एतत्त्रयं त्रिवर्गः उच्यते।
१०. धर्मार्थकामेषु कः प्रधानः?
उत्तरम्-- धर्मार्थकामेषु अर्थ एव प्रधानः इति कौटिल्यः।
अर्थमूलौ हि धर्मकामौ इति।
११. दूतः कतिविधः?
उत्तरम्—कौटिल्यस्य मतानुसारेण
दूतः त्रिविधः। यथा—निसृष्टार्थः, परिमितार्थः, शासनहरश्चेति।
१२. क उच्यते निसृष्टार्थः दूतः?
उत्तरम्-- ʻअमात्यसम्पदोपेतो
निसृष्टार्थःʼ। अर्थात् सर्वविधामात्यगुणयुक्तः दूतः निसृष्टार्थः इति।
१३. क उच्यते परिमितार्थः दूतः?
उत्तरम्-- ʻपादगुणहीनः परिमितार्थःʼ।
अर्थात् अमात्यगुणस्य पादोन-गुणयुक्तः
अमात्यः परिमितार्थः इति।
१४. क उच्यते सासनहरः?
उत्तरम्-- ʻअर्धगुणहीनः शासनहरःʼ।
अर्थात् अमात्यगुणस्य अर्धगुणयुक्तः दूतः शासनहरः इति।
१५. क उच्यते सत्री?
उत्तरम्-- प्राचीनभारते राज्ञा
नियुक्तः गुप्तचरविशेषः सत्री इति। यः गुप्तचरः
सामुद्रिकादि लक्षणशास्त्रम्, अङ्गविद्याम्, वशीकरणविद्याम्,
अन्तर्धानविद्याम्, इन्द्रजालविद्याम् आश्रमधर्मम्, निमित्तशास्त्रम्,
अन्तरचक्रविद्यां, संसर्गविद्यां च जानाति स सत्री इत्युच्यते।
१६. योगक्षेम-शब्दस्य कोऽर्थः?
उत्तरम्-- अलब्धस्य लाभः, लब्धस्य
रक्षणं च योगक्षेमम् इत्युच्यते।
१७. कौटिल्य-पूर्वर्तिनां
मुख्यानाम् आचार्याणां नामानि लिखत।
उत्तरम्-- कौटिल्य-पूर्वर्तिनः
मुख्याः आचार्याः यथा-- विशालाक्षः, पाराशराः, पिशुनः, कौणपदन्तः, वातव्याधिः,
बहुदन्तीपुत्रः प्रमुखाः।
१८. कौटिल्य-पूर्वर्तिनां
मुख्यानाम् ग्रन्थानां नामानि लिखत।
उत्तरम्-- कौटिल्य-पूर्वर्तिनः
मुख्याः ग्रन्थाः यथा—
विशालाक्ष-रचितं
वैशालाक्षतन्त्रम्, बाहुदन्तीपुत्र-रचितं बाहुदन्तकतन्त्रम्, ब्रह्मा-रचितं
पैतामहतन्त्रम्, वृहस्पति-रचितं वार्हस्पत्यतन्त्रम्, शुक्राचार्य-रचितम्
उशनस्तन्त्रम् इति।
१९. आत्ययिके कार्ये राज्ञा किं
कर्तव्यम्?
उत्तरम्-- आत्ययिके कार्ये राजा
मन्त्रिणः मन्त्रपरिषदं च आहूय ब्रूयात्। तत्र यद् भूयिष्ठाः कार्यसिद्धिकरं वा ब्रूयुः
तत् कुर्यात्।
२०. के खलु चतुर्वर्णाः
चतुराश्रमाश्च?
उत्तरम्—ब्राह्मणः, क्षत्रियः,
वैश्यः शूद्रश्चेति चतुर्वर्णाः। ब्रह्मचर्यः, गार्हस्थ्यः, वानप्रस्थः
सन्न्यासश्चेति चतुराश्रमाः।
२१. कानि तावद् ब्राह्मणस्य
साधारण-कर्तव्यानि? / कस्तावद् ब्राह्मणस्य स्वधर्मः?
उत्तरम्-- ब्राह्मणस्य
साधारण-कर्तव्यविषये कौटिल्य आह-- ʻस्वधर्मो ब्राह्मणस्य अध्ययनम्, अध्यापनं यजनं
याजनं दानं प्रतिग्रहश्चेति।ʼ
२२. कानि तावद् क्षत्रियस्य
साधारण-कर्तव्यानि? / कस्तावद् क्षत्रियस्य स्वधर्मः?
उत्तरम्-- क्षत्रियस्य
साधारण-कर्तव्यविषये कौटिल्य आह-- ʻक्षत्रियस्य अध्ययनं यजनं दानं शस्त्राजीवो
भूतरक्षणं चʼ।
२३. कानि तावद् वैश्यस्य
साधारण-कर्तव्यानि? / कस्तावद् वैश्यस्य स्वधर्मः?
उत्तरम्—वैश्यस्य
साधारण-कर्तव्यविषये कौटिल्य आह-- ʻवैश्यस्य अध्ययनं यजनं दानं कृषिपाशुपाल्ये
वणिज्या चʼ।
२४. कानि तावद् शूद्रस्य
साधारण-कर्तव्यानि? / कस्तावद् शूद्रस्य स्वधर्मः?
उत्तरम्—शूद्रस्य
साधारण-कर्तव्यविषये कौटिल्य आह-- ʻशूद्रस्य द्विजातिशुष्रूषा कारुकुशीलवकर्म चʼ।
२५. क उच्यते लुब्धवर्गः?
उत्तरम्-- ʻपरिक्षीणोऽत्यासत्त्वः
कदर्यो व्यसनात्यहित-व्यवहारश्चेति लुब्धवर्गःʻ इति कौटिल्यस्य मतम्।
२५. क उच्यते अपसर्पः?
उत्तरम्-- ʻअपसर्पःʼ इत्यस्य अर्थः
गुप्तचरः इति। राज्ञः राज्यस्य च सुरक्षाविधानार्थं मन्त्रि-पुरोहितादीनां
कार्यकलापं रहसि पर्यवेक्षणार्थं राजा अपसर्पं नियोजयेत्। सत्री, तीक्ष्णः, रसदः
इत्यादयः अपसर्पस्य भेदाः।
२६. क उच्यते वैदेहकव्यञ्जनः?
उत्तरम्—पञ्चसु गुप्तचरसंस्थेषु
अन्यतमः खलु वैदेहकव्यञ्जनः। कौटिल्येन अस्य लक्षणं कृतम्—
ʻवाणिजको वृत्तिक्षीणः
प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनःʼ।
२७. क उच्यते मानिवर्गः?
उत्तरम्—कृत्यपक्षीयेषु जनेषु
मानिवर्गः अन्यतमः। कौटिल्येन मानिवर्गविषये आह--
ʻआत्मसम्भावितो मानकामः शत्रुपूजामर्षितो नीचैरुपहितः तीक्ष्णः साहसिको
भोगेनासन्तुष्टः इति मानिवर्गःʼ।
२८. कथं मन्त्रः भिद्यते?
उत्तरम्—दूतामात्य-स्वामिनाम्
इङ्गिताकाराभ्यां मन्त्रः भिद्यते। मन्त्रणाकार्ये युक्तानां जनानां
प्रमाद-मद-सुप्त-प्रलाप-कामादिरुत्सेकः प्रच्छन्नः अवमतः वा मन्त्रं भिनत्ति।
२९. क आसीत् वैवस्वतः मनुः?
उत्तरम्—पृथिव्याः राजकुलस्य आदिपुरुषः
हि वैवस्वतः मनुः। स विवस्वतः (सूर्यस्य) पुत्रः, अतः स वैवस्वतः मनुः इत्युच्यते।
चतुर्दशसु मनुषु स सप्तमः मनुः।
३०. का विद्या सर्वासां विद्यानां
प्रदीपस्वरूपम्?
उत्तरम्—आन्वीक्षिकीविद्या
सर्वासां विद्यानां प्रदीपस्वरूपम्।
३१. सर्वेषां वर्णानाम् आश्रमाणां
च कस्तावत् आचरणीयः साधारणः धर्मः?
उत्तरम्-- सर्वेषां वर्णानाम् आश्रमाणां
च आचरणीयः साधारणः धर्मः—अहिंसा, सत्यं, शौचम्, अनसूया, अनृशंस्यं क्षमा च इति।
३२. मन्त्रणाकार्यस्य आदर्शं
स्थानं किंविधं भवेत्?
उत्तरम्—मन्त्रणाकार्यस्य
आदर्श-स्थानविषये कौटिल्येन उक्तम्-- ʻतदुद्देशः कथानामनिःस्रावी पक्षिभिरपि
अनालोक्यः स्यात्ʼ।
------
Comments
Post a Comment