Posts

अर्थशास्त्रम् (इन्द्रियजयः, अमात्योत्पत्तिः)

अर्थशास्त्र म् ( इन्द्रियजयः, अमात्योत्पत्तिः) ३. इन्द्रियजयः (कस्तावद् इन्द्रियजयः? कौटिल्यमनुसृत्य इन्द्रियजय-विषये सविशदमालोच्यताम्।) उत्तरम्— कौटिल्यस्य मतानुसारेण इन्द्रियाणि पञ्च—कर्णः, त्वक्, अक्षि, जिह्वा, घ्राणेन्द्रियम् चेति। विद्याविनय-शिक्षार्थम् इन्द्रियजयेन प्रयोजनम्-- ʻविद्याविनयहेतुर्न्द्रियजयः।ʼ कामः, क्रोधः, लोभः, मानः, मदः, हर्षः चेति षण्णाम् अन्तःशत्रूणां त्यागेन एव इन्द्रियजयः कर्तव्यः-- ʻकाम-क्रोध-लोभ-मान-मद-हर्षत्यागात् कार्यः।ʼ इन्द्रियजयस्य स्वरूपविषये कौटिल्येन उक्तम्-- ʻकर्ण-त्वगक्षि-घ्राणेन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेषु अविप्रतिपत्तिः इन्द्रियजयः।ʼ कर्णः, त्वक्, अक्षि, जिह्वा, नासिका चेति इन्द्रियाणाम् आसक्तेः विषयास्तु शब्दः, स्पर्शः, रूपम्, रसः गन्धश्चेति। एषाम् इन्द्रियाणां स्व-स्व-विषयं प्रति अत्यधिकायाः आसक्तिप्रवणतायाः संयमनमेव इन्द्रियजयः। अयं तु निवृत्तिमार्गः। केवलं शुष्कनिवृत्तिमार्गे अवलम्बिते सति आकाङ्क्षा न निवर्तते, परन्तु विपत्तिः भूयः बर्धते। तस्मात् शास्त्रनिर्देशितेन मार्गेण इन्द्रियजयः कर्तव्यः इति कौटिल्यस्य मतम्।...

मन्त्राधिकारः , कौटिलीयम् अर्थशास्त्रम्

Image
५. मन्त्राधिकारः (मन्त्रणाकार्यविषये मन्त्रगुप्तिविषये च कौटिल्य-पूर्ववर्तिनाम् आचार्याणां तथा कौटिल्यस्य मतम् सविमर्शमालोच्यताम्।) उत्तरम्— ʻसहायसाध्यं राजत्वं चक्रमेकं न वर्ततेʼ –राजतान्त्रिक-शासनव्यवस्थायां राजा सर्वमयः कर्तापि तेन एकाकिना शासनकार्य-परिचालनं न सम्भाव्यते। सर्वेषु कार्येषु सुनिर्दिष्टा परिकल्पनया तथा   सविशदं विचार-विमर्शेन प्रयोजनम्। अस्यार्थं राजा प्रयोजनीय-संख्यकान् मन्त्रिणः नियुज्य कार्यारम्भात् पूर्वं मन्त्रणां कुर्यात्। अतः उक्तं कौटिल्येन— ʻमन्त्रपूर्वाः सर्वारम्भाः।ʼ मन्त्रणास्थानम् —कौटिल्येन उक्तम्— ʻतदुद्देशः कथानामनिःस्रावी पक्षिभिरपि अनालोक्यः स्यात्।ʼ मन्त्रणास्थानं सुष्ठु आवृतं सुरक्षितं च भवेत्। न कापि कथा तस्मात् बहिर्गच्छेत्। पशुपक्षिभिरपि तत् दृष्टिगोचरं न भवेत्। एवं श्रूयते किल—शुक-सारिकादिभिः गुप्तः   मन्त्रः प्रकाशितः। अतः मन्त्रणाकार्येण अयुक्तः कोऽपि जनः तत्र न गच्छेत्। मन्त्रभेदः --   मन्त्रणाकार्ये मन्त्रगुप्तिः अतीव गुरुत्वपूर्णः विषयः। कथं मन्त्रभेदः भवति इत्यस्मिन् विषये कौटिल्य आह— ʻमन्त्रभेदो हि द...

अर्थशास्त्रम् प्रथमाधिकरणम् (4th Semester, C-9, Unit-I, CBPBU)

Image
अर्थशास्त्र म् प्रथमाधिकरणम् ( 4 th   Semester, C-9, Unit-I , CBPBU ) १. विद्या ( का नाम विद्या? सा कतिविधा? तासां स्वरूपम् उपयोगिता च सविशदमालोच्यताम्।) उत्तरम्-- ʻविद्याʼ शब्दस्य साधारणः अर्थः ʻज्ञानम्ʼ इति। प्राचीनभारतीय-राजतान्त्रिक-शासनव्यवस्थायां सर्वमयः कर्ता आसीत् राजा। स्मृतिशास्त्रेषु राज्ञः शिक्षणीय-विषये सविशदमालोचितम्। मनुसंहिता-याज्ञवल्क्यसंहिता-महाभारतादि-ग्रन्थेषु विद्याः चतस्र इत्युक्तम्। यथा— आन्वीक्षिकी, त्रयी, वार्ता, दण्डनीतिश्चेति। कौटिल्यः तस्य अर्थशास्त्रस्य ʻविनयाधिकारिकम्ʼ इति अधिकरणस्य विद्यासमुद्देशाध्याये आह— ʻ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः।ʼ कौटिल्य-पूर्ववर्तिनाम् आचार्याणां मतम्— मानवसम्प्रदायस्य मतानुसारेण तिस्र एव विद्याः—त्रयी, वार्ता, दण्डनीतिश्चेति। आन्वीक्षिकी त्रयीविशेषा इति। वार्हस्पत्यानां मतानुसारेण द्वे विद्ये—वार्ता दण्डनीतिश्चेति। ʻदण्डनीतिरेका विद्याʼ इति औशनसाः। यतः तस्यां सर्वासां विद्यानां प्रतिष्ठा निहिता। कौटिल्य आह-- ʻचतस्र एव विद्याः।ʼ ताभिः धर्मार्थौ यद् विद्यात् तद् विद्यानां विद्...

part-2

२. राजर्षिवृत्तम् (राज्ञः आचरणविधि-विषये कौटिल्येन यदुक्तं तत् सर्वं सविमर्शमालोच्यताम्।) भूमिका—  राजतन्त्रे देशस्य सर्वमयस्य कर्तुः राज्ञः कर्तव्यजातम् , के तावद् विषयाः तेन  परित्याज्याः, तथा तेन कथम् आचरितव्यम् इत्यस्मिन् विषये कौटिल्येन विस्तारितम् आलोचितम्। महति व्यापारे सर्वैः चित्तचाञ्चल्यं परिहृत्य इन्द्रियसंयमः कर्तव्यः। अतः कौटिल्येन राजर्षेः व्यवहार-निर्देशात् पूर्वम् इन्द्रियजयं कर्तुम् उपदिष्टः--  ʻतस्मादरिषड्वर्गत्यागेन इन्द्रियजयं कुर्वीत।ʼ राजर्षेः (साधुस्वभाव-विशिष्टस्य राज्ञः व्यवहारः— प्रथमः व्यवहारः— कौटिल्य आह--  ʻवृद्धसंयोगेन प्रज्ञाम्।ʼ राजा विविधविषये ज्ञानवृद्धानाम् आचार्यैः सह आत्मनः ज्ञानं विकाशयेत्। मनुना अपि उक्तम्--  ʻवृद्धांश्च नित्यं सेवेत।ʼ द्वितीयः व्यवहारः--   ʻचारेण चक्षुः।ʼ राजा चरैः स्वराष्ट्र-परराष्ट्राणां वृत्तान्तम् अवगच्छेत्। राजानः चरैरेव पश्यन्ति। अतः उक्तम्--  ʻचारचक्षुषः राजानः।ʼ तृतीयः व्यवहारः—  ʻउत्थानेन योगक्षेमसाधनम्।ʼ राजा नव-नवोद्योग-कर्मपरिकल्पना-ग्रहणेन प्रजानाम् अल...