अर्थशास्त्रम् (इन्द्रियजयः, अमात्योत्पत्तिः)
अर्थशास्त्र म् ( इन्द्रियजयः, अमात्योत्पत्तिः) ३. इन्द्रियजयः (कस्तावद् इन्द्रियजयः? कौटिल्यमनुसृत्य इन्द्रियजय-विषये सविशदमालोच्यताम्।) उत्तरम्— कौटिल्यस्य मतानुसारेण इन्द्रियाणि पञ्च—कर्णः, त्वक्, अक्षि, जिह्वा, घ्राणेन्द्रियम् चेति। विद्याविनय-शिक्षार्थम् इन्द्रियजयेन प्रयोजनम्-- ʻविद्याविनयहेतुर्न्द्रियजयः।ʼ कामः, क्रोधः, लोभः, मानः, मदः, हर्षः चेति षण्णाम् अन्तःशत्रूणां त्यागेन एव इन्द्रियजयः कर्तव्यः-- ʻकाम-क्रोध-लोभ-मान-मद-हर्षत्यागात् कार्यः।ʼ इन्द्रियजयस्य स्वरूपविषये कौटिल्येन उक्तम्-- ʻकर्ण-त्वगक्षि-घ्राणेन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेषु अविप्रतिपत्तिः इन्द्रियजयः।ʼ कर्णः, त्वक्, अक्षि, जिह्वा, नासिका चेति इन्द्रियाणाम् आसक्तेः विषयास्तु शब्दः, स्पर्शः, रूपम्, रसः गन्धश्चेति। एषाम् इन्द्रियाणां स्व-स्व-विषयं प्रति अत्यधिकायाः आसक्तिप्रवणतायाः संयमनमेव इन्द्रियजयः। अयं तु निवृत्तिमार्गः। केवलं शुष्कनिवृत्तिमार्गे अवलम्बिते सति आकाङ्क्षा न निवर्तते, परन्तु विपत्तिः भूयः बर्धते। तस्मात् शास्त्रनिर्देशितेन मार्गेण इन्द्रियजयः कर्तव्यः इति कौटिल्यस्य मतम्।...