मन्त्राधिकारः , कौटिलीयम् अर्थशास्त्रम्
५. मन्त्राधिकारः
(मन्त्रणाकार्यविषये मन्त्रगुप्तिविषये च
कौटिल्य-पूर्ववर्तिनाम् आचार्याणां तथा कौटिल्यस्य मतम् सविमर्शमालोच्यताम्।)
उत्तरम्— ʻसहायसाध्यं राजत्वं चक्रमेकं न वर्ततेʼ –राजतान्त्रिक-शासनव्यवस्थायां राजा सर्वमयः
कर्तापि तेन एकाकिना शासनकार्य-परिचालनं न सम्भाव्यते। सर्वेषु कार्येषु
सुनिर्दिष्टा परिकल्पनया तथा सविशदं
विचार-विमर्शेन प्रयोजनम्। अस्यार्थं राजा प्रयोजनीय-संख्यकान् मन्त्रिणः नियुज्य
कार्यारम्भात् पूर्वं मन्त्रणां कुर्यात्। अतः उक्तं कौटिल्येन—ʻमन्त्रपूर्वाः सर्वारम्भाः।ʼ
मन्त्रणास्थानम्—कौटिल्येन उक्तम्—ʻतदुद्देशः कथानामनिःस्रावी पक्षिभिरपि अनालोक्यः स्यात्।ʼ
मन्त्रणास्थानं सुष्ठु आवृतं सुरक्षितं च भवेत्। न कापि कथा
तस्मात् बहिर्गच्छेत्। पशुपक्षिभिरपि तत् दृष्टिगोचरं न भवेत्। एवं श्रूयते किल—शुक-सारिकादिभिः
गुप्तः मन्त्रः प्रकाशितः। अतः
मन्त्रणाकार्येण अयुक्तः कोऽपि जनः तत्र न गच्छेत्।
मन्त्रभेदः-- मन्त्रणाकार्ये मन्त्रगुप्तिः अतीव
गुरुत्वपूर्णः विषयः। कथं मन्त्रभेदः भवति इत्यस्मिन् विषये कौटिल्य आह—ʻमन्त्रभेदो हि
दूतामात्य-स्वामिनामिङ्गिताकाराभ्याम्।ʼ
एतद्व्यतिरिक्तं मन्त्रणाकार्ये युक्तानां जनानाम्
अनवधानता, मद्यपानजनितः विकारः, निद्रितावस्थायां प्रलापोक्तिः, विषयभोगस्य लालसा,
अहङ्कारेण च मन्त्रः भिद्यते। मन्त्रगृहे प्रच्छन्नेन जनेन तथा मन्त्रणाकार्ये
अपमानितेन जनेन अपि मन्त्रः भिद्यते। उक्तं च कौटिल्येन—ʻतेषां हि प्रमाद-मद-सुप्त-प्रलाप-कामादिरुत्सेकः
प्रच्छन्नोऽवमतो वा मन्त्रं भिनत्ति।ʼ अतः सर्वप्रकारेण मन्त्रः रक्षितव्यः।
मन्त्रणाकार्य-मन्त्रगुप्ति-विषये कौटिल्य-पूर्ववर्तिनाम्
आचार्याणां मतम्—
आचार्यः भारद्वाज आह—मन्त्रभेदः राज्ञः तस्य परामर्शदानकारिणां च योगक्षेमं
नाशयति। अतः राजा एकाकी मन्त्रणां कुर्यात्-- ʻगुह्यमेको मन्त्रयेत।ʼ अस्य कारणरूपेण तेन उक्तम्-- ʻमन्त्रिणामपि हि मन्त्रिणो भवन्ति। तेषामपि अन्ये। सैषा
मन्त्रिपरम्परा मन्त्रं भिनत्ति।ʼ तस्मात् विजिगीषोः राज्ञः चिकिर्षितं कार्यकलापम् अपरे न विद्युः। केवलं
कार्याणां सम्पादकाः कार्यारम्भात् परं जानीयुः।
आचार्यः विशालाक्षः भारद्वाजस्य मतं निराकृत्य आह-- ʻनैकस्य मन्त्रसिद्धिरस्ति।ʼ
यतः राजकार्यं प्रत्यक्ष-परोक्षानुमान-प्रमाणसापेक्षम्।
अनुपलब्ध-विषयाणां ज्ञानम्, ज्ञातविषयाणां निश्चयेन दृढीकरणम्, अर्थद्वैधस्य
संशय-निराकरणम्, एकांशस्य उपलब्धेः
अवशिष्टांशस्य ज्ञानम् इति सर्वं मन्त्रिसाध्यम्। राजा नवृद्धैः सह मन्त्रणां
कुर्यात्।
ʻन कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम्।
बालस्याप्यर्थवद्वाक्यमुपयुञ्जीत पण्डितः।।ʼ
पाराशराः विशालाक्षस्य मतं निराकृत्य आह-- ʻएतन्मन्त्रज्ञानम्, न मन्त्ररक्षणम्।ʼ
तेषां मतं—राजा अभिप्रेतं कार्यं न पृष्ट्वा तस्य
प्रतिरूपकं मन्त्रिणः पृच्छेत्। ते यथा ब्रूयुः राजा तथा कुर्यात्। एवं
मन्त्रज्ञानं मन्त्ररक्षणं च द्वयमेव भवेत्।
आचार्यः पिशुनः एतत् न शोभनं न मन्यते। तस्य मतम्-- अनेन उपायेन मन्त्रे
साधिते मन्त्रिणः अनादरेण पर्यालोचयन्ति, मन्त्रं प्रकाशयन्ति वा। अतः-- ʻकर्मसु ये येषु अभिप्रेताः तैः सह
मन्त्रयेत।ʼ एवं
मन्त्रसिद्धिः मन्त्रगुप्तिश्च द्वयमेव भवेत्।
कौटिल्यस्य मतम्—आचार्यः कौटिल्यः पिशुनस्य मतम् अनवस्थादोषयुक्तम्
इत्याह-- ʻअनवस्था ह्येषा।ʼ
तस्य मतं तु-- ʻमन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत। मन्त्रयमाणो
हि एकेन अर्थकृच्छ्रेषु निश्चयं नाधिगच्छेत्। एकश्च मन्त्री यथेष्टम्
अनवग्रहश्चरति। द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्याम् अवगृह्यते।
विगृहीताभ्यां विनाश्यते। तत् त्रिषु चतुर्षु वा नैकान्तं कृच्छ्रेणोपपद्यते।ʼ
राजा देश-काल-कार्यानुरोधात् एकेन मन्त्रिणा, अथवा
द्वाभ्यां मन्त्रिभ्यां सह मन्त्रयेत। एतेन दोषः न उपपद्यते, परन्तु मन्त्रसिद्धिः
मन्त्रगुप्तिश्च द्वयमेव भवेत्।
पञ्चाङ्गमन्त्रः—अस्मिन् विषये कौटिल्य आह-- ʻकर्मणामारम्भोपायः, पुरुषद्रव्यसम्पद्, देशकालविभागः, विनिपातप्रतीकारः
कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः।ʼ
मन्त्रणा-प्रक्रिया—अस्मिन् विषये कौटिल्यस्य मतम्—राजा मन्त्रिणः एकैकशः
समस्तान् वा पृच्छेत्। युक्तिद्वारा तेषां मतपार्थक्यं विद्यात्। कार्यनिष्चयात्
परं दीर्घकालं न मन्त्रयेत। राजा येषाम् अपकुर्यात् तेषां पक्षीयैः सह मन्त्रणां न
कुर्यात्।
कौटिल्यः भूय आह-- ʻआसन्नैः सह कार्याणि पश्येत्। अनासन्नैः सह
पत्रसम्प्रेषणेन मन्त्रयेत।ʼ
कार्यस्य गुरुत्वानुसारेण, तथा राज्यस्य
अर्थनैतिक-सामर्थ्यानुसारेण मन्त्रिणां संख्या निर्णेया।
आत्ययिके कार्ये राज्ञः कर्तव्यम्--
कौटिल्य आह-- ʻआत्ययिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात्। तत्र यद् भूयिष्ठाः
कार्यसिद्धिकरं वा ब्रूयुस्तत् कुर्यात्।ʼ
राजा विपत्सङ्कुले शीघ्रकरणीये च कार्ये मन्त्रिणः
मन्त्रिपरिषदं च आहूय तैः सह मन्त्रयेत। तत्र अधिकांशाः मन्त्रिणः यद् ब्रूयुः,
अथवा कार्यसिद्धिकरं यद् ब्रूयुः तत्
कुर्यात्।
उपसंहारः—राजतन्त्रे राजा सर्वमयः कर्ता अपि स यथा स्वैराचारी न भवेत् तदर्थं
मन्त्रिपरिषदा सह मन्त्रणासापेक्षेण सिद्धान्तग्रहणं कुर्यात् इति कौटिल्यः।
विचक्षणः राजा स्वयमेव सिद्धान्तं ग्रहीतुमर्हति। परन्तु मन्त्रिपरिषदः
सिद्धान्त-रूपायणे एव कौटिल्येन गुरुत्वम् आरोपितम्। तस्य वक्तव्ये
गणतान्त्रिक-शासनव्यवस्थायाः वीजं परिलक्ष्यते।
------

Comments
Post a Comment