लघुसिद्धान्तकौमुदी, सन्धि—पदसाधनम् –1 (for 1st sem, C-1)
लघुसिद्धान्तकौमुदी,
सन्धि—पदसाधनम् –1 (for 1st sem, C-1)
१. सुध्युपास्यः—सुधी + उपास्यः –सुध्युपास्यः।
सुधी उपास्यः
> सुध् य् उपास्यः (ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे पूर्वस्यʼ इति परिभाषसहायेन ʻउपास्यःʼ इत्यस्य अचि उकारे परे ʻसुधीʼ इत्यस्य धकारोत्तरवर्तिनः ईकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया यकारः यणादेशः),
> सुध्युपास्यः (ʻअनचि चʼ इति सूत्रेण विकल्पविधानात् तस्य प्रवृत्तेरभावे ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻसुध्युपास्यःʼ इति रूपं सिद्धम्)।

2nd Method—(Students may follow any one
method)
सुध्युपास्यः—सुधी + उपास्यः –सुध्युपास्यः।
ʻसुधी उपास्यःʼ
इति स्थिते, ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे पूर्वस्यʼ इति
परिभाषसहायेन ʻउपास्यःʼ इत्यस्य अचि उकारे परे ʻसुधीʼ इत्यस्य धकारोत्तरवर्तिनः
ईकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया यकारे यणादेशे ʻसुध् य् उपास्यःʼ
इति जाते, ʻअनचि चʼ इति सूत्रेण विकल्पविधानात् तस्य प्रवृत्तेरभावे ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻसुध्युपास्यःʼ इति रूपं सिद्धम्।
२. सुद्ध्युपास्यः—
सुधी उपास्यः
> सुध् य् उपास्यः (ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे पूर्वस्यʼ इति परिभाषसहायेन ʻउपास्यःʼ इत्यस्य अचि उकारे परे ʻसुधीʼ इत्यस्य धकारोत्तरवर्तिनः ईकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया यकारः यणादेशः),
> सुध् ध् य् उपास्यः (ʻअनचि चʼ इत्यनेन सूत्रेण विकल्पेन धकारस्य द्वित्वम्),
> सुद् ध् य् उपास्यः (ʻझलां जश् झशिʼ इत्यनेन सूत्रेण झशि धकारे परे झलः पूर्वधकारस्य स्थाने जश् दकारादेशः),
> सुद्ध्युपास्यः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻसुद्ध्युपास्यःʼ इति रूपं सिद्धम्)।

३. मध्वरिः— मधु + अरिः –मध्वरिः। मधु
अरिः > मघ्व् अरिः (ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे
पूर्वस्यʼ इति परिभाषसहायेन ʻअरिःʼ इत्यस्य अचि अकारे परे ʻमधुʼ इत्यस्य
धकारोत्तरवर्तिनः उकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया वकारः
यणादेशः),
> मध्वरिः (ʻअनचि चʼ इति सूत्रेण विकल्पविधानात् तस्य प्रवृत्तेरभावे ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻमघ्वरिःʼ इति रूपं सिद्धम्)।

४.
मद्ध्वरिः-- मधु + अरिः –मद्ध्वरिः। मधु अरिः > मघ्व् अरिः (ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे
पूर्वस्यʼ इति परिभाषसहायेन ʻअरिःʼ इत्यस्य अचि अकारे परे ʻमधुʼ इत्यस्य
धकारोत्तरवर्तिनः उकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया वकारः
यणादेशः),
> मध् ध् अरिः (ʻअनचि चʼ इत्यनेन सूत्रेण विकल्पेन धकारस्य द्वित्वम्), > मद् ध् व् अरिः (ʻझलां जश् झशिʼ इत्यनेन सूत्रेण झशि धकारे परे झलः पूर्वधकारस्य स्थाने जश् दकारादेशः),
> मद्ध्वरिः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻमद्घ्वरिःʼ इति रूपं सिद्धम्)।

५. धात्रंशः—धातृ +
अंशः –धात्रंशः।
धातृ अंशः > धात् र् अंशः (ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे पूर्वस्यʼ इति परिभाषसहायेन ʻअंशःʼ इत्यस्य अचि अकारे परे ʻधातृʼ इत्यस्य तकारोत्तरवर्तिनः ऋकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया रकारः यणादेशः), > धात्रंशः (ʻअनचि चʼ इति सूत्रेण विकल्पविधानात् तस्य प्रवृत्तेरभावे ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻधात्रंशःʼ इति रूपं सिद्धम्)।

६. धात्रंशः—धातृ + अंशः –धात्त्रंशः।
धातृ अंशः
> धात् र् अंशः (ʻइको यणचिʼ इत्यनेन सूत्रेण, तथा ʻतस्मिन्निति निर्दिष्टे पूर्वस्यʼ इति परिभाषसहायेन ʻअंशःʼ इत्यस्य अचि अकारे परे ʻधातृʼ इत्यस्य तकारोत्तरवर्तिनः ऋकारस्य स्थाने ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया रकारः यणादेशः), > धात् त् र् अंशः (ʻअनचि चʼ इत्यनेन सूत्रेण विकल्पेन तकारस्य द्वित्वम्),
> धात्त्रंशः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻधात्त्रंशःʼ इति रूपं सिद्धम्)।

७. हरये—हरे + ए –हरये।
हरे ए > हर् अय् ए (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि एकारे परे ʻहरेʼ इत्यस्य एचः एकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेशेषु प्राप्तेषु ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् अयादेशः),

> हरये (ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻहरयेʼ इति रूपं सिद्धम्)।
८. विष्णवे—
विष्णो + ए –विष्णवे।
विष्णो ए > विष्ण् अव् ए (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि एकारे परे ʻविष्णोʼ इत्यस्य एचः ओकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेशेषु प्राप्तेषु ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् अवादेशः),
> विष्णवे (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻविष्णवेʼ इति रूपं सिद्धम्)।

९. नायकः—नै
+ अकः –नायकः।
नै अकः
> न् आय् अकः (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण ʻअकःʼ इत्यस्य अचि अकारे परे ʻनैʼ इत्यस्य एचः ऐकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेशेषु प्राप्तेषु ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् आयादेशः),
> नायकः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻनायकःʼ इति रूपं सिद्धम्)।

१०. पावकः—पौ
+ अकः –पावकः।
पौ अकः
> प् आव् अकः (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण ʻअकःʼ इत्यस्य अचि अकारे परे ʻपौʼ इत्यस्य एचः औकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेशेषु प्राप्तेषु ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् आवादेशः),
> पावकः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻपावकःʼ इति रूपं सिद्धम्)।

११. गव्यम्—गो + यम् –गव्यम्।
गो यम्
> ग् अव् यम् (ʻवान्तो यि प्रत्ययेʼ इत्यनेन सूत्रेण यकारादौ यम्-प्रत्यये परे ʻगोʼ इत्यस्य ओकार-स्थाने वकारान्तस्य अव्-आव् इत्येतस्य आदेशद्वयस्य प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् अव्-आदेशः),
> गव्यम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻगव्यम्ʼ इति रूपं सिद्धम्)।

१२.
नाव्यम्—नौ + यम् –नाव्यम्।
नौ यम्
> न् आव् यम् (ʻवान्तो यि प्रत्ययेʼ इत्यनेन सूत्रेण यकारादौ यम्-प्रत्यये परे ʻनौʼ इत्यस्य औकार-स्थाने वकारान्तस्य अव्-आव् इत्येतस्य आदेशद्वयस्य प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् आव्-आदेशः),
> नाव्यम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻनाव्यम्ʼ इति रूपं सिद्धम्)।

१३. गव्यूतिः—गो +
यूतिः –गव्यूतिः। गो
यूतिः
>
ग् अव् यूतिः (ʻअध्वपरिमाणे चʼ इत्यनेन वार्तिकेण अध्वपरिमाणार्थे यूति-शब्दे परे ʻगोʼ
इत्यस्य ओकार-स्थाने वकारान्तः अव् आदेशः),
> गव्यूतिः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻगव्यूतिःʼ इति रूपं सिद्धम्)।

१४. उपेन्द्रः-- उप + इन्द्रः –उपेन्द्रः।
उप इन्द्रः
> उप् ए न्द्रः (ʻआद्गुणःʼ इत्यनेन सूत्रेण पकारोत्तरवर्तिनः अकारात् इकारे अचि परे पूरवपरयोः स्थाने एकः गुणादेशः, ʻअदेङ् गुणःʼ इत्यनेन अ, ए, ओ इति त्रयाणां गुणवर्णानां प्रवृत्तौ, ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया अकारस्य कण्ठस्थानात् इकारस्य च तालुस्थानात् उभयोः स्थानसाम्यात् कण्ठतालुस्थानीयः एकारादेशः), > उपेन्द्रः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻउपेन्द्रःʼ इति रूपं सिद्धम्)।

१५. गङ्गोदकम्—गङ्गा + उदकम्
–गङ्गोदकम्।
गङ्गा उदकम् > गङ्ग् ओदकम् (ʻआद्गुणःʼ
इत्यनेन सूत्रेण गकारोत्तरवर्तिनः आकारात् उकारे अचि परे पूरवपरयोः स्थाने
गुणादेशः, ʻअदेङ् गुणःʼ इत्यनेन अ, ए, ओ इति त्रयाणां गुणवर्णानां प्रवृत्तौ, ʻस्थानेऽन्तरतमःʼ
इत्यनया परिभाषया आकारस्य कण्ठस्थानात् उकारस्य च ओष्ठस्थानात् उभयोः
स्थानसाम्यात् कण्ठौष्ठस्थानीयः ओकारादेशः),
> गङ्गोदकम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻगङ्गोदकम्ʼ इति रूपं सिद्धम्)।

१६. हर इह-- हर + इह –हर इह।
हरे इह > हरय् इह (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि इकारे परे ʻहरेʼ इत्यस्य एचः एकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेशेषु प्राप्तेषु ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् अयादेशः),

> हर इह (ʻलोपः शाकल्यस्यʼ
इत्यनेन सूत्रेण अशि इकारे परे अवर्णपूर्वकस्य पदान्त-यकारस्य विकल्पेन लोपे ʻहर
इहʼ इति पदं सिद्धम्। ʻपूर्वत्रासिद्धम्ʼ इति य्-लोपस्य असिद्धत्वात् ʻआद्गुणःʼ
इति सूत्रमत्र न प्रवर्तते)।
य्-लोपाभावे ʻहरयिहʼ इति रूपं भवति।
१७. विष्ण इह—विष्णो इह –विष्ण इह।
विष्णो इह
> विष्णव् इह (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि इकारे परे ʻविष्णोʼ इत्यस्य एचः ओकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेशेषु प्राप्तेषु ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया केवलम् अवादेशः),
> विष्ण इह (ʻलोपः शाकल्यस्यʼ इत्यनेन सूत्रेण अशि इकारे परे अवर्णपूर्वकस्य पदान्त-वकारस्य विकल्पेन लोपे ʻविष्ण इहʼ इति पदं सिद्धम्। ʻपूर्वत्रासिद्धम्ʼ इति व्-लोपस्य असिद्धत्वात् ʻआद्गुणःʼ इति सूत्रमत्र न प्रवर्तते)।
व्-लोपाभावे ʻविष्णविहʼ इति रूपं भवति।

१८. कृष्णैकत्वम्—कृष्ण + एकत्वम् --. कृष्णैकत्वम्। कृष्ण एकत्वम् > कृष्ण् ऐ कत्वम् (ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण ʻकृष्णʼ इत्यस्य णकारोत्तरवर्तिनः अकारात् ʻएकत्वम्ʼ इत्यस्य एकारे
एचि परे पूर्वपरयोः स्थाने वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति
त्रयाणां प्रवृत्तौ, ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया अकारस्य कण्ठस्थानात्
एकारस्य च कण्ठतालुस्थानात् उभयोः स्थानसाम्यात् कण्ठतालुस्थानीयः ऐकारादेशः), > कृष्णैकत्वम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻकृष्णैकत्वम्ʼ
इति रूपं सिद्धम्)।
१९.
गङ्गौघः—गङ्गा + ओघः –गङ्गौघः।
गङ्गा ओघः
> गङ्ग् औ घः (ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण ʻ गङ्गाʼ इत्यस्य गकारोत्तरवर्तिनः आकारात् ʻओघःʼ इत्यस्य ओकारे एचि परे पूर्वपरयोः स्थाने वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ, ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया आकारस्य कण्ठस्थानात् ओकारस्य च कण्ठौष्ठस्थानात् उभयोः स्थानसाम्यात् कण्ठौष्ठस्थानीयः औकारादेशः),
> गङ्गौघः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻगङ्गौघःʼ इति रूपं सिद्धम्)।

२०. देवैश्वर्यम्—देव +
ऐश्वर्यम् –देवैश्वर्यम्।
देव ऐश्वर्यम्
> देव् ऐ श्वर्यम् (ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण ʻदेवʼ इत्यस्य वकारोत्तरवर्तिनः अकारात् ʻऐश्वर्यम्ʼ इत्यस्य ऐकारे एचि परे पूर्वपरयोः स्थाने वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया अकारस्य कण्ठस्थानात् ऐकारस्य च कण्ठतालुस्थानात् उभयोः स्थानसाम्यात् कण्ठतालुस्थानीयः ऐकारादेशः),
> देवैश्वर्यम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻदेवैश्वर्यम्ʼ इति रूपं सिद्धम्)।

२१.
कृष्णौत्कण्ठ्यम्-- कृष्ण + औत्कण्ठ्यम् –
कृष्णौत्कण्ठ्यम्। कृष्ण औत्कण्ठ्यम् > कृष्ण् औ त्कण्ठ्यम् (ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण ʻकृष्णʼ
इत्यस्य णकारोत्तरवर्तिनः अकारात् ʻऐश्वर्यम्ʼ इत्यस्य औकारे एचि परे पूर्वपरयोः
स्थाने वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ ʻस्थानेऽन्तरतमःʼ
इत्यनया परिभाषया अकारस्य कण्ठस्थानात् औकारस्य च कण्ठौष्ठस्थानात् उभयोः
स्थानसाम्यात् कण्ठौष्ठस्थानीयः औकारादेशः),
> कृष्णौत्कण्ठ्यम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻकृष्णौत्कण्ठ्यम्ʼ इति रूपं सिद्धम्)।

२२.
उपैति—उप + एति –उपैति।
उप एति
> उप् ऐ ति (ʻएत्येधत्यूठ्सुʼ इत्यनेन सूत्रेण ʻउपʼ इत्यस्य पकारोत्तरवर्तिनः अकारात् एजादौ इण्-धातौ परे पूर्वपरयोः वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया अकारस्य कण्ठस्थानात् एकारस्य च कण्ठतालुस्थानात् उभयोः स्थानसाम्यात् कण्ठतालुस्थानीयः ऐकारादेशः),
> उपैति (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻउपैति ʼ इति रूपं सिद्धम्)।

२३. उपैधते—उप + एधते –उपैधते।
उप एधते
> उप् ऐ धते (ʻएत्येधत्यूठ्सुʼ इत्यनेन सूत्रेण ʻउपʼ इत्यस्य पकारोत्तरवर्तिनः अकारात् एजादौ एध्-धातौ परे पूर्वपरयोः वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया अकारस्य कण्ठस्थानात् ऐकारस्य च कण्ठतालुस्थानात् उभयोः स्थानसाम्यात् कण्ठतालुस्थानीयः ऐकारादेशः),
> उपैधते (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻउपैधते ʼ इति रूपं सिद्धम्)।

२४. अक्षौहिणी—अक्ष ऊहिणी –अक्षौहिणी। अक्ष ऊहिनी
> अक्ष् औहिनी (ʻअक्षादूहिन्यामुपसंख्यानम्ʼ इत्यनेन वार्तिकेन ʻअक्षʼ-शब्दात् ʻऊहिनीʼ इति परे पूर्वपरयोः स्थाने वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया ʻअक्षʼ इत्यस्य अकारस्य कण्ठस्थानात्, तथा ʻऊहिनीʼ इत्यस्य ऊकारस्य ओष्ठस्थानात् उभयोः स्थानसाम्यात् कण्ठौष्ठस्थानीयः औकारादेशः),
> अक्षौहिनी (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगः), > अक्षौहिणी (ʻपूर्वपदात् संज्ञायामगःʼ इत्यनेन सूत्रेण दन्त्य-नकारस्थाने मूर्धन्य-णकारादेशे ʻअक्षौहिणीʼ इति रूपं सिद्धम्)।

२५. प्रौढः—प्र
+ ऊढः –प्रौढः।
प्र ऊढः
> प् र् औ ढः (प्राद् ऊहे परे ʻप्रादूहढोढ्येषैष्येषुʼ इत्यनेन वार्तिकेन पूर्वपरयोः वृद्धिरेकादेशः, ʻवृद्धिरादैच्ʼ इति आ, ऐ, औ इति त्रयाणां प्रवृत्तौ ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया ʻप्रʼ इत्यस्य अकारस्य कण्ठस्थानात्, तथा ʻऊहʼ इत्यस्य ऊकारस्य ओष्ठस्थानात् उभयोः स्थानसाम्यात् कण्ठौष्ठस्थानीयः औकारादेशः),
> प्रौढः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻप्रौढःʼ इति रूपं सिद्धम्)।

Comments
Post a Comment