लघुसिद्धान्तकौमुदी, सन्धि—पदसाधनम् –3 (for 1st sem, C-1)
लघुसिद्धान्तकौमुदी,
सन्धि—पदसाधनम् –3 (for 1st sem, C-1)
५१. रामश्शेते—रामस् + शेते –रामश्शेते।
ʻरामस्
शेतेʼ इति स्थिते, ʻस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण ʻशेतेʼ इत्यस्य शकारेण सह
ʻरामस्ʼ इत्यस्य सकारस्य योगे सकार-स्थाने श् च् छ् ज् झ् ञ् इति
षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ
इत्यनया परिभाषया केवलं शकारादेशे ʻरामश्शेतेʼ इति पदं सिद्धम्।
५२. सच्चित्—सत्
+ चित् –सच्चित्।
ʻसत्
चित्ʼ इति स्थिते, ʻस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण ʻचित्ʼ इत्यस्य चकारेण सह
ʻसत्ʼ इत्यस्य तकारस्य योगे तकार-स्थाने श् च् छ् ज् झ् ञ् इति
षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ
इत्यनया परिभाषया केवलं चकारादेशे ʻसच्चित्ʼ इति पदं सिद्धम्।
५३.
रामश्चिनोति—रामस् + चिनोति –रामश्चिनोति।
ʻरामस् चिनोतिʼ इति स्थिते, ʻस्तोः श्चुना श्चुःʼ इत्यनेन
सूत्रेण ʻचिनोतिʼ इत्यस्य चकारेण सह ʻरामस्ʼ इत्यस्य सकारस्य योगे सकार-स्थाने श्
च् छ् ज् झ् ञ् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया केवलं चकारादेशे ʻरामश्चिनोतिʼ इति पदं सिद्धम्।
५४.
शार्ङ्गिञ्जयः—शार्ङ्गिन् + जयः -- शार्ङ्गिञ्जयः।
ʻशार्ङ्गिन्
जयःʼ इति स्थिते, ʻस्तोः श्चुना श्चुःʼ
इत्यनेन सूत्रेण ʻजयःʼ इत्यस्य जकारेण सह ʻशार्ङ्गिन्ʼ इत्यस्य नकारस्य योगे नकार-स्थाने
श् च् छ् ज् झ् ञ् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया
परिभाषया केवलं ञकारादेशे ʻशार्ङ्गिञ्जयःʼ इति पदं सिद्धम्।
५५.
विश्नः—विश् + नः –विश्नः।
ʻविश् नःʼ
इति स्थिते, ʻस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया ʻनःʼ इत्यस्य नकार-स्थाने ञकारादेशे प्राप्ते, ʻशात्ʼ
इत्यनेन सूत्रेण तस्य निषेधे, ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻविश्नःʼ
इति रूपं सिद्धम्।
५६. प्रश्नः—प्रश् नः –प्रश्नः।
ʻप्रश्
नःʼ इति स्थिते, ʻस्तोः श्चुना श्चुःʼ
इत्यनेन सूत्रेण, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया ʻनःʼ इत्यस्य
नकार-स्थाने ञकारादेशे प्राप्ते, ʻशात्ʼ इत्यनेन सूत्रेण तस्य निषेधे, ʻअज्झीनं
परेण संयोज्यम्ʼ इति न्यायेन परस्परसंयोगे ʻप्रश्नःʼ इति रूपं सिद्धम्।
५७.
रामष्षष्ठः—रामस् + षष्ठः—रामष्षष्ठः।
ʻरामस्
षष्ठःʼ इति स्थिते, ʻष्टुना ष्टुःʼ इत्यनेन सूत्रेण ʻषष्ठःʼ इत्यस्य षकारेण सह ʻरामस्ʼ
इत्यस्य सकारस्य योगे सकार-स्थाने ष् ट् ठ् ड् ढ् ण् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया
केवलं षकारादेशे ʻरामष्षष्ठःʼ इति पदं सिद्धम्।
५८.
रामष्टीकते—रामस् + टीकते – रामष्टीकते।
ʻरामस् टीकतेʼ
इति स्थिते, ʻष्टुना ष्टुःʼ इत्यनेन सूत्रेण ʻटीकतेʼ इत्यस्य टकारेण सह ʻरामस्ʼ
इत्यस्य सकारस्य योगे सकार-स्थाने ष् ट् ठ् ड् ढ् ण् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया
केवलं षकारादेशे ʻरामष्टीकतेʼ इति पदं सिद्धम्।
५९.
पेष्टा—पेष् + ता –पेष्टा।
ʻपेष्
ताʼ इति स्थिते, ʻष्टुना ष्टुःʼ इत्यनेन सूत्रेण ʻपेष्ʼ इत्यस्य षकारेण सह ʻताʼ
इत्यस्य तकारस्य योगे तकार-स्थाने ष् ट् ठ् ड् ढ् ण् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया
केवलं टकारादेशे ʻपेष्टाʼ इति पदं सिद्धम्।
६०.
तट्टीका—तत् + टीका—तट्टीका। ʻतत् टीकाʼ इति स्थिते, ʻष्टुना ष्टुःʼ इत्यनेन
सूत्रेण ʻटीकाʼ इत्यस्य टकारेण सह ʻतत्ʼ इत्यस्य तकारस्य योगे तकार-स्थाने ष् ट्
ठ् ड् ढ् ण् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया
केवलं टकारादेशे ʻतट्टीकाʼ इति पदं सिद्धम्।
६१.
चक्रिण्ढौकसे—चक्रिन् + ढौकसे—चक्रिण्ढौकसे। ʻचक्रिन्
ढौकसेʼ इति स्थिते, ʻष्टुना ष्टुःʼ इत्यनेन सूत्रेण ʻढौकसेʼ इत्यस्य ढकारेण सह ʻचक्रिन्ʼ
इत्यस्य नकारस्य योगे नकार-स्थाने ष् ट् ठ् ड् ढ् ण् इति षडादेश-प्राप्तौ ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया केवलं णकारादेशे ʻचक्रिण्ढौकसेʼ इति पदं सिद्धम्।
६२. वागीशः—वाक् + ईशः
–वागीशः। वाक् ईशः
>
वाग् ईशः (ʻझलां जशोऽन्तेʼ इत्यनेन सूत्रेण ʻवाक्ʼ इति पदस्यान्ते झलः ककारस्य
स्थाने जश् इत्यादेशः, ज् ब् ग् ड् द्
इति पञ्च जश्-वर्णाः, कस्य जशः आदेशः भवेत् इति सन्देहे ʻस्थानेऽन्तरतमःʼ इत्यनया
परिभाषया ककारेण सह कण्ठस्थानसाम्यात् गकारादेशः), > वागीशः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻवागीशःʼ
इति पदं सिद्धम्)।
६३. तन्मात्रम्—तत्
+ मात्रम् –तन्मात्रम्।
तद् मात्रम् > तन् मात्रम् (मात्रच् इति अनुनासिकादौ प्रत्यये परे ʻप्रत्यये भाषायां
नित्यम्ʼ इत्यनेन वार्तिकेन पदान्त-यरः ʻतद्ʼ इत्यस्य दकारस्य स्थाने नित्यम्
अनुनासिकादेशः, ङ् ञ् ण् न् म् इति पञ्चानाम् अनुनासिकवर्णां प्राप्तौ, ʻस्थानेऽन्तरतमःʼ
इत्यनया परिभाषया दकारेण सह दन्तस्थानसाम्यात् नकारादेशः), > तन्मात्रम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति
न्यायेन परस्पर-संयोगे ʻतन्मात्रम्ʼ इति पदं सिद्धम्)।
६४. चिन्मयम्—चित् + मयम् –चिन्मयम्।
चिद् मयम् > चिन् मयम् (ʻमयम्ʼ इति मकारादौ अनुनासिकादौ प्रत्यये परे ʻप्रत्यये भाषायां नित्यम्ʼ इत्यनेन वार्तिकेन पदान्त-यरः ʻचिद्ʼ इत्यस्य दकारस्य स्थाने नित्यम् अनुनासिकादेशः, ङ् ञ् ण् न् म् इति पञ्चानाम् अनुनासिकवर्णां प्राप्तौ, ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया दकारेण सह दन्तस्थानसाम्यात् नकारादेशः), > चिन्मयम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻचिन्मयम्ʼ इति पदं सिद्धम्)।

६५. तल्लयः—तद् + लयः –तल्लयः। तद् लयः > तल् लयः (ʻलयःʼ इत्यस्य
लकारे परे ʻतोर्लिʼ इत्यनेन सूत्रेण तवर्गस्य दकार-स्थाने लकारस्य परसवर्णः
लकारादेशः), > तल्लयः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻतल्लयःʼ
इति पदं सिद्धम्)।
६६. विद्वाल्लिँखति—विद्वान् + लिखति – विद्वाल्लिँखति।
विद्वान् लिखति > विद्वाल्ँ लिखति (ʻलिखतिʼ इत्यस्य लकारे परे ʻतोर्लिʼ इत्यनेन सूत्रेण
तवर्गस्य नकार-स्थाने नकारस्य परसवर्णः अनुनासिकः लँकारादेशः), > विद्वाल्लिँखति (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻविद्वाल्लिँखतिʼ
इति पदं सिद्धम्)।
६७. उत्थानम्—उद्
+ स्थानम् –उत्थानम्।
उद्
स्थानम् >
उद् थ्थानम् (ʻउद्ʼ इति उपसर्गात् स्था-धातौ परे ʻउदः स्थास्तम्भोः पूर्वस्यʼ
इत्यनेन सूत्रेण पूर्वसवर्णादेशः, ʻतस्मादित्युत्तरस्यʼ इत्यनया परिभाषया ʻस्थानम्ʼ
इत्यत्र तदादेश-प्राप्तौ, ʼअलोऽन्त्यस्यʼ इत्यनया परिभाषया अन्तवर्णस्थाने
तत्प्राप्तौ, ʻआदेः परस्यʼ इत्यनया परिभाषया तद्वाधित्वाद् आदिवर्णस्य सकारस्य
स्थाने तत्प्राप्तिः, ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया गुणकृत-सादृश्यवशात्
विवार-श्वास-अघोष-महाप्राण-प्रयत्नयुक्त-सकार-स्थाने
तद्रूप-प्रयत्नयुक्त-पूर्वसवर्ण-थकारादेशः), > उद् थानम् (हलः दकारात् सवर्णे झरि थकारे परे ʻझरो झरि सवर्णेʼ
इत्यनेन सूत्रेण पूर्वस्य झरः थकारस्य विकल्पेन लोपः), >
उत् थानम् (खरि थकारे परे ʻखरि चʼ इत्यनेन सूत्रेण ʻउद्ʼ इति झलः दकारस्य स्थाने चर्-तकारादेशः), >
उत्थानम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻउत्थानम्ʼ इति पदं
सिद्धम्)।
ʻझरो
झरि सवर्णेʼ इत्यस्य सूत्रस्य अप्रवृत्तौ ʻउद् थ्थानम्ʼ इति स्थिते ʻथ्थानम्ʼ
इत्यस्य थकारस्य लोपोभावः, ततः ʻखरि चʼ इत्यनेन सूत्रेण ʻउद्ʼ इत्यस्य दकार-स्थाने
तकारादेशे ʻउत्त्थानम्ʼ इति रूपं भवति।
६८. वाग्घरिः, वाग्हरिः—वाक् + हरिः -- वाग्घरिः,
वाग्हरिः। वाक् हरिः > वाग् हरिः (ʻझलां जशोऽन्तेʼ इत्यनेन सूत्रेण ʻवाक्ʼ इति पदस्यान्ते
झलः ककारस्य स्थाने जश् इत्यादेशः, ज् ब्
ग् ड् द् इति पञ्च जश्-वर्णाः, ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया ककारेण सह
कण्ठस्थानसाम्यात् गकारादेशः),
> वाग् घरिः (ʻझयो होऽन्यतरस्योम्ʼ इत्यनेन सूत्रेण झयः गकारात् हकार-स्थाने नाद-घोष-संवार-महाप्राण-सादृश्यात् घकारादेशः), > वाग्घरिः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻवाग्घरिःʼ इति पदं सिद्धम्)।

विकल्पाभावपक्षे--
ʻवाग्हरिःʼ इति रूपं भवति।
६९. शान्तः—शाम् + तः –शान्तः। शाम् तः > शां तः (झलि तकारे
परे ʻनश्चापदान्तस्य झलिʼ इत्यनेन सूत्रेण ʻशाम्ʼ इत्यस्य अपदान्त-मकार-स्थाने
अनुस्वारादेशः), > शान् तः (ʻअनुस्वारस्य ययि परसवर्णःʼ इत्यनेन सूत्रेण ययि तकारे परे
अनुस्वार-स्थाने नकारादेशः),
> शान्तः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻशान्तःʼ
इति पदं सिद्धम्)।
७०. तच्छिवः—तद् + शिवः –तच्छिवः, तच्शिवः। तद् शिवः > तज् शिवः (ʻस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण, तथा ʻस्थानेऽन्तरतमःʼ इत्यनया परिभाषया ʻतद्ʼ इत्यस्य दकार-स्थाने जकारादेशः), > तच् शिवः (ʻखरि चʼ इत्यनेन सूत्रेण खरि शकारे परे ʻतज्ʼ इत्यस्य जकार-स्थाने चर् चकारादेशः),
> तच् छिवः
(ʻशश्छोऽटिʼ इत्यनेन सूत्रेण अटि इकारे परे विकल्पेन शकार-स्थाने छकारादेशः), >
तच्छिवः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻतच्छिवःʼ इति पदं
सिद्धम्)। विकल्पाभावपक्षे ʻतच्शिवःʼ इति रूपं भवति।
७१. पुँस्कोकिलः, पुंस्कोकिलः—पुम् + कोकिलः –पुँस्कोकिलः, पुंस्कोकिलः। पुम् कोकिल > पुरु कोकिलः (ʻपुमः खय्यम्परेʼ इत्यनेन सूत्रेण पुमः मकार-स्थाने ʻरुʼ इत्यादेशः), > पुर् कोकिलः (रु इत्यस्य उकारः अनुबन्धलोपः), > पुँर् कोकिलः (ʻअत्रानुनासिकः पूर्वस्य तु वाʼ इत्यनेन सूत्रेण रकारात् पूर्ववर्णस्य पकारस्य विकल्पेन अनुनासिकत्वम्), > पुँः कोकिलः (ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशः),

> पुँस् कोकिलः (ʻसम्पुस्कानां
सो वक्तव्यःʼ इत्यनेन वार्तिकेन विसर्ग-स्थाने सकारादेशः),
> पुँस्कोकिलः (ʻअज्झीनं परेण संयोज्यम्ʼ इति
न्यायेन परस्पर-संयोगे ʻपुँस्कोकिलःʼ इति
पदं सिद्धम्)।
पुंस्कोकिलः--
पुम् कोकिल > पुरु कोकिलः (ʻपुमः खय्यम्परेʼ इत्यनेन सूत्रेण पुमः मकार-स्थाने ʻरुʼ इत्यादेशः), > पुर् कोकिलः (रु इत्यस्य उकारः अनुबन्धलोपः), > पुंर् कोकिलः (ʻअनुनासिकात् परोऽनुस्वारःʼ इत्यनेन सूत्रेण अनुनासिकपक्षं विहाय रु इत्यस्य पूर्ववर्णस्य पकारस्य अनुस्वारागमः), > पुः कोकिलः (ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशः),
> पुंस् कोकिलः (ʻसम्पुस्कानां सो वक्तव्यःʼ इत्यनेन वार्तिकेन विसर्ग-स्थाने सकारादेशः), > पुंस्कोकिलः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻपुंस्कोकिलःʼ इति पदं सिद्धम्)।

७२. शिवच्छाया—शिव
+ छाया –शिवच्छाया। शिव छाया > शिव तुक् छाया (ʻछे चʼ
इत्यनेन सूत्रेण छकारे परे तुक्-आगमः, तुकः कित्त्वात् ʻआद्यन्तौ टकितौʼ इत्यनया
परिभाषया शिवस्य अन्तावयवः, > शिवत् छाया (तुकः उकारः ʻउपदेशेऽजनुनासिक इत्ʼ, ककारः ʻहलन्त्यम्ʼ
इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः), > शिवद् छाया (झलां जशोऽन्तेʻ इत्यनेन सूत्रेण ʻशिवत्ʼ इत्यस्य
तकार-स्थाने दकारादेशः),
> शिवज् छाया (ʼस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण दकार-स्थाने जकारादेशः),
> शिवच् छाया (ʻखरि चʼ इत्यनेन सूत्रेण खरि छकारे परे पूर्व-जकार-स्थाने चकारादेशः),
> शिवज् छाया (ʼस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण दकार-स्थाने जकारादेशः),
> शिवच् छाया (ʻखरि चʼ इत्यनेन सूत्रेण खरि छकारे परे पूर्व-जकार-स्थाने चकारादेशः),
>
शिवच्छाया (ʻअज्झीनं
परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻशिवच्छायाʼ इति पदं सिद्धम्)।
७३.
लक्ष्मीच्छाया—लक्ष्मी + छाया –लक्ष्मीच्छाया। लक्ष्मी छाया > लक्ष्मी तुक् छाया (ʻपदान्ताद्वाʼ
इत्यनेन सूत्रेण पदान्त-दीर्घात् ʻलक्ष्मीʼ इत्यस्मात् छकारे परे विकल्पेन तुक्-आगमः,
तुकः कित्त्वात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया ʻलक्ष्मीʼ इत्यस्य अन्तावयवः), > लक्ष्मीत् छाया (तुकः उकारः ʻउपदेशेऽजनुनासिक इत्ʼ, ककारः ʻहलन्त्यम्ʼ
इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > लक्ष्मीद् छाया (झलां जशोऽन्तेʻ इत्यनेन सूत्रेण ʻ लक्ष्मीत्ʼ इत्यस्य तकार-स्थाने दकारादेशः), > लक्ष्मीज् छाया (ʼस्तोः श्चुना श्चुःʼ इत्यनेन सूत्रेण दकार-स्थाने जकारादेशः),
> लक्ष्मीच् छाया (ʻखरि चʼ इत्यनेन सूत्रेण खरि छकारे परे पूर्व-जकार-स्थाने चर् चकारादेशः),
> लक्ष्मीच् छाया (ʻखरि चʼ इत्यनेन सूत्रेण खरि छकारे परे पूर्व-जकार-स्थाने चर् चकारादेशः),
> लक्ष्मीच्छाया (ʻअज्झीनं
परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे
ʻलक्ष्मीच्छायाʼ इति पदं सिद्धम्)।
७४. अहरहः—अहन् + अहन् –अहरहः। अहन् अहन् > अहर् अहर् (सुपि परे असति ʻरोऽसुपिʼ इत्यनेन सूत्रेण अहन्-शब्दस्य
नकार-स्थाने रकारादेशः), > अहर्
अहः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण द्वितीयस्य अहर्-शब्दस्य रकारस्य
अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशः),
> अहरहः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻअहरहःʼ इति पदं सिद्धम्)।
> अहरहः (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻअहरहःʼ इति पदं सिद्धम्)।
७५. अहर्गणः-- ʻअह्नां
गणःʼ इति विग्रहे ʻसुपो धातुप्रातिपदिकयोःʼ इति सुप्-अम्-लोपे ʻअहन् गणःʼ इति
जाते, ʻरोऽसुपिʼ इत्यनेन सूत्रेण अहन्-शब्दस्य नकार-स्थाने रकारादेशे ʻअहर् गणःʼ
इति जाते, ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻअहर्गणःʼ इति पदं सिद्धम् ।
७६. पुनारमते-- पुनर् + रमते > पुन गमते > पुनारमते। पुनर् रमते > पुन रमते (ʻरो रिःʼ इत्यनेन
सूत्रेण रकारे परे पूर्व-रकारस्य लोपः),
> पुनारमते (ʼढ्रलोपे पूर्वस्य दीर्घोऽणःʼ इत्यनेन सूत्रेण
रकार-लोपनिमित्ते रकारे परे पूर्वस्य अणः अकारस्य दीर्घादेशे ʻपुनारमतेʼ इति पदं
सिद्धम्)।
७७. हरीरम्यः—हरिस् + रम्यः > हरिरु रम्यः > हरिर् रस्यः > हरि
रन्यः > हरीरम्यः। हरिस् रम्यः > हरिरु रम्यः (ʻससजुषो रुःʼ
इत्यनेन सूत्रेण ʻहरिस्ʼ इत्यस्य सकार-स्थाने रु इत्यादेशः) >
हरिर् रम्यः (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण रु इत्यस्य उकार इत्, ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), >
हरि रम्यः (ʻरो रिःʼ इत्यनेन सूत्रेण रकारे परे पूर्व-रकारस्य लोपः),
> हरीरम्यः (ʼढ्रलोपे पूर्वस्य दीर्घोऽणःʼ इत्यनेन सूत्रेण
रकार-लोपनिमित्ते रकारे परे पूर्वस्य अणः इकारस्य दीर्घादेशे ʻहरीरम्यःʼ इति पदं
सिद्धम्)।
७८.
शम्भूराजते—शम्भुस् +
राजते > शम्भुरु राजते > शम्भुर् राजते > शम्भु राजते >
शम्भूराजते।
शम्भुस् राजते > शम्भुरु राजते (ʻससजुषो रुःʼ इत्यनेन सूत्रेण ʻशम्भुस्ʼ
इत्यस्य सकार-स्थाने रु इत्यादेशः), >
शम्भुर् राजते (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण रु इत्यस्य उकार इत्, ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > शम्भु राजते (ʻरो रिःʼ इत्यनेन सूत्रेण रकारे परे पूर्व-रकारस्य
लोपः),
>
शम्भूराजते (ʼढ्रलोपे पूर्वस्य दीर्घोऽणःʼ इत्यनेन सूत्रेण रकार-लोपनिमित्ते रकारे
परे पूर्वस्य अणः उकारस्य दीर्घादेशे ʻशम्भूराजतेʼ इति पदं सिद्धम्)।
७८.
विष्णुस्त्राता—विष्णुः + त्राता – विष्णुस्त्राता। विष्णुः
त्राता >
विष्णुस् त्राता (ʻविसर्जनीयस्य सःʼ इत्यनेन सूत्रेण ʻत्राताʼ इत्यस्य खरि तकारे
परे ʻविष्णुःʼ इत्यस्य विसर्ग-स्थाने सकारादेशः), >
विष्णुस्त्राता (ʻससजुषो रुःʼ इत्यनेन
सूत्रेण सकार-स्थाने रकारप्राप्तौ, ʻपूर्वत्रासिद्धम्ʼ इत्यनया परिभाषया तस्य
असिद्धत्वम्, तथा ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगे ʻविष्णुस्त्राताʼ
इति पदं सिद्धम् )।
७९.
शिवोऽर्च्यः—शिवस् + अर्च्यः > शिवर्
अर्च्यः > शिव उ अर्च्यः > शिवो अर्च्यः > शिवोऽर्च्यः।
शिवस् अर्च्यः > शिवरु अर्च्यः
(ʻससजुषो रुःʼ इत्यनेन सूत्रेण ʻशिवस्ʼ इत्यस्य सकार-स्थाने रु इत्यादेशः), >
शिवर् अर्च्यः (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण रु इत्यस्य उकार इत्, ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > शिव उ अर्च्यः (ʻअतो रोरप्लुतादप्लुतेʼ इत्यनेन सूत्रेण ʻशिवर्ʼ
इत्यस्य रकार-स्थाने उकारादेशः), > शिवो अर्च्यः (ʻआद्गुणःʼ
इत्यनेन सूत्रेण पूरवपरयोः ओकार-गुणादेशः),
> शिवोऽर्च्यः (ʻएङः पदान्तादतिʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻशिवोऽर्च्यःʼ
इति पदं सिद्धम्)।
८०. शिवो वन्द्यः—शिवस् वन्द्यः > शिवरु वन्द्यः > शिवर्
वन्द्यः > शिव उ वन्द्यः > शिवो वन्द्यः।
शिवस् वन्द्यः
> शिवरु वन्द्यः (ʻससजुषो रुःʼ इत्यनेन सूत्रेण ʻशिवस्ʼ इत्यस्य सकार-स्थाने रु इत्यादेशः), > शिवर् वन्द्यः (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण रु इत्यस्य उकार इत्, ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > शिव उ वन्द्यः (ʻहशि चʼ इत्यनेन सूत्रेण ʻशिवर्ʼ इत्यस्य रकार-स्थाने उकारादेशः),
> शिवो बन्द्यः (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूरवपरयोः ओकार-गुणादेशे ʻशिवो बन्द्यःʼ इति पदं सिद्धम्)।

८१. मनोरथः—मनस् + रथः > मनर् रथः > मन उ रथः
> मनोरथः। मनस् रथः > मनरु रथः (ʻससजुषो रुःʼ इत्यनेन सूत्रेण ʻमनस्ʼ इत्यस्य सकार-स्थाने रु इत्यादेशः),
> मनर् रथः (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण रु इत्यस्य उकार इत्, ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > मन उ रथः (ʻहशि चʼ, ʻरो रिःʼ इत्यनयोः सूत्रयोः प्राप्तौ, तुल्यबलविरोधे ʻविप्रतिषेधे परं कार्यम्ʼ इत्यनया परिभाषया परसूत्रेण ʻरो रिःʼ इत्यनेन ʻमनर्ʼ इत्यस्य रकारलोपप्राप्तौ ʻपूर्वत्रासिद्धम्ʼ इत्यनेन रकारलोपे असिद्धे, ʻहशि चʼ इत्यनेन ʻमनर्ʼ इत्यस्य रकार-स्थाने उकारादेशः), > मनोरथः (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूरवपरयोः ओकार-गुणादेशे ʻमनोरथःʼ इति पदं सिद्धम्)।

Comments
Post a Comment