3rd Sem, C-7, Unit-I,
लघुसिद्धान्तकौमुदी
(पदसाधनम्—रमा—चतुर्थी--सप्तमी)
१०. रमायै-- रमा-शब्दस्य चतुर्थ्येकवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः
टकारः
इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः,
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा ङे (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः
सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं
सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे चतुर्थ्येकवचने ङे-विभक्तिः),
> रमा ए (ʻलशक्वतद्धितेʼ इत्यनेन
सूत्रेण ʻङेʼ इत्यस्य आदिः ङकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः
लोपः),
> रमा याट् ए (ʻयाडापःʼ इत्यनेन सूत्रेण आबन्ताद् अङ्गात् ʻरमाʼ
इत्यस्मात् ङितः ङे-प्रत्ययस्य (एकारस्य) याट्-आगमः, याट् इत्यस्य टकारः इत्, अतः
टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया
परिभाषया एकारस्य आद्यवयवः),
> रमा या ए (याट् इत्यस्य अन्त्यः टकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण
इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमायै (ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण पूर्वपरयोः ऐकार-वृद्धिरेकादेशे ʻरमायैʼ इति
पदं सिद्धम्)।
११. रमाभ्यः-- रमा-शब्दस्य
चतुर्थी-बहुवचनस्य/पञ्चमी-बहुवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्- प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा भ्यस् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां
सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे
चतुर्थी-बहुवचने/पञ्चमी बहुवचने भ्यस्-विभक्तिः),
> रमाभ्यरु (ʻहलन्त्यम्ʼ इत्यनेन ʻभ्यस्ʼ इत्यस्य अन्त्य-सकारस्य
इत्संज्ञाप्राप्तौ ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः, ततः ʼससजुषो रुःʼ
इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),
> रमाभ्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ
इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमाभ्यः (ʻविरामोऽवसानम्ʼ इत्यनेन
सूत्रेण ʻरमाभ्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरमाभ्यःʼ
इति रूपं सिद्धम्)।
१२. रमायाः-- रमा-शब्दस्य पञ्चम्येकवचनस्य
/ षष्ठ्येकवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्- प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण लोपः
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा ङसि / ङस् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां
सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे पञ्चम्येकवचने
ङसि-विभक्तिः / षष्ठ्येकवचने ङस्- विभक्तिः),
> रमा अस् (ʻङसिʼ इत्यस्य इकारः
उच्चारणार्थः, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ङसि-ङसोः आदिः ङकारः इत्, तथा ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमा याट् अस् (ʻयाडापःʼ इत्यनेन सूत्रेण आबन्ताद् अङ्गात् ʻरमाʼ
इत्यस्मात् ङितोः ङसि-ङसोः याट्-आगमः,
याट् इत्यस्य टकारः इत्, अतः टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया एकारस्य आद्यवयवः),
> रमा या अस् (ʻहलन्त्यम्ʼ इत्यनेन ʻअस्ʼ इत्यस्य अन्त्य-सकारस्य
इत्संज्ञाप्राप्तौ ʻन विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधः। याट् इत्यस्य टकारः ʻहलन्त्यम्ʼ
इत्यनेन सूत्रेण अन्त्यः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),
> रमायास् (ʻअकः
सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमायारु (ʼससजुषो
रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),
> रमायार् (ʻउपदेशेऽजनुनासिक इत्ʼ
इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमायाः (ʻविरामोऽवसानम्ʼ इत्यनेन
सूत्रेण ʻरमायार्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरमायाःʼ
इति रूपं सिद्धम्)।
१३. रमयोः-- रमा-शब्दस्य षष्ठी-द्विवचनस्य / सप्तमी-द्विवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्- प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा ओस् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां
सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे षष्ठी-द्विवचने /
सप्तमी-द्विवचने ओस्-विभक्तिः),
> रमे
ओस् (ओसि परतः ʻओसि चʼ इत्यनेन
सूत्रेण आकारान्ताङ्गस्य ʻरमाʼ इत्यस्य मकारोत्तरवर्तिनः आकारस्य स्थाने एकारादेशः),
> रमय् ओस् (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि ओकारे परे ʻरमेʼ
इत्यस्य एचः एकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेश-चतुष्टये प्राप्ते, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया केवलम् अयादेशः),
> रमयोस् (ʻअज्झीनं परेण संयोज्यम्ʼ
इति न्यायानुसारेण परस्परसंयोगः),
> रमयोरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण
पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
> रमयोर् (ʻउपदेशेऽजनुनासिक इत्ʼ
इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रमयोः (ʻविरामोऽवसानम्ʼ इत्यनेन
सूत्रेण ʻरमयोर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरमयोःʼ
इति रूपं सिद्धम्)।
१४. रमाणाम्-- ʻरमाʼ-शब्दस्य
षष्ठी-बहुवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा
आम् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां
सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे
षष्ठी-बहुवचने आम्-विभक्तिः),
> रमा नुट् आम् (ʻह्रस्वनद्यापो नुट्ʼ इत्यनेन सूत्रेण आबन्तात्
अङ्गात् ʻरमाʼ इत्यस्मात् आमः नुट्-आगमः, नुटः टकार इत्, अतः टित्, तस्मात् ʻआद्यन्तौ
टकितौʼ इत्यनया परिभाषया आमः आद्यवयवः),
> रमा न् आम् (ʻनुट्ʼ इत्यस्य उकारः उच्चारणार्थः, अन्त्यः
टकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य
लोपः),
> रमा नाम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण
परस्परसंयोगः),
> रमाणाम् (रकारात् अट्-प्रत्याहारस्य अकार-मकार-आकार-व्यवधाने ʻअट्कुप्वाङ्नुम्व्यवायेऽपिʼ इत्यनेन सूत्रेण ʻनामʼ
इत्यस्य नकार-स्थाने णकारादेशे ʻरमाणाम्ʼ इति रूपं सिद्धम्।)
१५. रमायाम्-- रमा-शब्दस्य सप्तम्येकवचनस्य
रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा ङि (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः
सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं
सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे सप्तम्येकवचने ङि-विभक्तिः),
> रमा आम् (ʻङेराम्नद्याम्नीभ्यःʼ इत्यनेन
सूत्रेण आबन्ताद् ʻरमाʼ इत्यस्मात् ङि-स्थाने ʻआम्ʼ इत्यादेशः),
> रमा
याट् आम् (ʻयाडापःʼ इत्यनेन सूत्रेण आबन्ताद् अङ्गात् ʻरमाʼ इत्यस्मात् ङितः
ङेः याट्-आगमः, याट् इत्यस्य टकारः इत्, अतः टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया आमः आद्यवयवः),
> रमा या आम् (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण याट् इत्यस्य अन्त्यः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः लोपः),

> रमायाम् (ʻअकः
सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकार एकादेशे ʻरमायाम्ʼ इति पदं
सिद्धम्)।
१७. रमासु-- रमा-शब्दस्य सप्तमी-बहुवचनस्य रूपम्।
रम् अच् (रम्-धातोरुत्तरं ʻपचाद्यच्ʼ इत्यनेन सूत्रेण
अच्-प्रत्ययः),
> रम् अ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अचः चकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तस्य लोपः),
> रम (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्पर-संयोगः),
> रम टाप् (ʻअजाद्यतष्टाप्ʼ इत्यनेन
सूत्रेण ʻरमʼ-शब्दात् उत्तरं स्त्रीत्व-विवक्षायां टाप्-प्रत्ययः),
> रम आ (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण टाप्-प्रत्ययस्य अन्त्यः पकारः
इत्, ʻचुटूʼ इत्यनेन सूत्रेण आदिः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तयोः लोपः),
> रमा (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण सवर्णदीर्घः आकारः एकादेशः),
> रमा सुप् (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः आबन्ताद् ʻरमाʼ-शब्दात् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां
सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण स्त्रीलिङ्गे सप्तमी-बहुवचने
सुप् विभक्तिः),
> रमासु (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण सुपः
अन्त्यः पकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपे ʻरमासुʼ इति पदं
सिद्धं भवति)।
Comments
Post a Comment