3rd sem, C-7, तद्धित-पदसाधनम्-1
3rd
sem, C-7, तद्धित-पदसाधनम्-1
१. गार्ग्यः—ʻगर्गस्य गोत्रापत्यम्ʼ इति विग्रहे—
गर्ग ङस् यञ् (ʻगर्गादिभ्यो यञ्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात्
प्रातिपदिकात् गर्गाद् उत्तरं यञ्-प्रत्ययः),
> गर्ग यञ् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻगर्ग ङस् यञ्ʼ
इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> गर्ग य (ʻहलन्त्यम्ʼ इत्यनेन यञ्-प्रत्ययस्य अन्त्यः ञकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> गार्ग य (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण गर्गस्य आदिभूतस्य
अकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया कण्ठस्थानसाम्यात् आकारः),
> गार्ग् य (ʻयचि भम्ʼ इत्यनेन सूत्रेण यकारादौ यञ्-प्रत्यये परे ʻगार्गʼ
इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
> गार्ग्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> गार्ग्य
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻगार्ग्य ʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> गार्ग्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > गार्ग्यरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः), > गार्ग्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ
इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
>
गार्ग्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻगार्ग्यर्ʼ इत्यस्य रकारस्य
अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻगार्ग्यःʼ इति रूपं
सिद्धम्)।
२. दाक्षिः
ʻदक्षस्य
अपत्यम्ʼ इति विग्रहे—
दक्ष ङस् इञ् (ʻअत इञ्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात्
दक्षात् उत्तरम् इञ्-प्रत्ययः),
> दक्ष इञ् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन
सूत्रेण ʻदक्ष ङस् यञ्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> दक्ष इ (ʻहलन्त्यम्ʼ इत्यनेन इञ्-प्रत्ययस्य अन्त्यः ञकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> दाक्ष इ (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण दक्षस्य आदिभूतस्य
अकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया कण्ठस्थानसाम्यात् आकारः),
> दाक्ष् इ (ʻयचि भम्ʼ इत्यनेन सूत्रेण इकारादौ इञ्-प्रत्यये परे ʻदाक्षʼ
इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
> दाक्षि (ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन
प्रातिपदिकसंज्ञा),
> दाक्षि
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻदाक्षिʼ
इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां
सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> दाक्षिस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> दाक्षिरु
(ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः
> दाक्षिर्
(ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तस्य लोपः),
> दाक्षिः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻदाक्षिर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻदाक्षिःʼ इति रूपं सिद्धम्)।
> दाक्षिः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻदाक्षिर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻदाक्षिःʼ इति रूपं सिद्धम्)।
३. पौत्रः
ʻपुत्रस्यय
अपत्यम्ʼ इति विग्रहे—
पुत्र ङस् अण् (ʻअनृष्यानन्तर्ये विदादिभ्योऽण्ʼ इत्यनेन सूत्रेण
षष्ठ्यन्तात् प्रातिपदिकात् पुत्रात् उत्तरम् अण्-प्रत्ययः),
> पुत्र
अण् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻपुत्र ङस् अण्ʼ इत्यस्य
प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ
इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> पुत्र अ (ʻहलन्त्यम्ʼ इत्यनेन अण्-प्रत्ययस्य अन्त्यः णकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> पौत्र अ (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण पुत्रस्य आदिभूतस्य
उकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया औष्ठस्थानसाम्यात् औकारः),
> पौत्र् अ (ʻयचि भम्ʼ इत्यनेन सूत्रेण अकारादौ अण्-प्रत्यये परे ʻपौत्रʼ
इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
> पौत्र (ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन
प्रातिपदिकसंज्ञा),
> पौत्र सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻपौत्रʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> पौत्रस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> पौत्ररु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ
इत्यादेशः ),
> पौत्रर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> पौत्रः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻपौत्रर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻपौत्रःʼ इति रूपं सिद्धम्)।
> पौत्रः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻपौत्रर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻपौत्रःʼ इति रूपं सिद्धम्)।
४. शैवः
ʻशिवस्य अपत्यम्ʼ इति विग्रहे—
शिव ङस् अण (ʻशिवादिभ्योऽण्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात्
प्रातिपदिकात् शिवात् उत्तरम् अण्-प्रत्ययः),
> शिव अण् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻशिव ङस् अण्ʼ
इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> शिव अ (ʻहलन्त्यम्ʼ इत्यनेन अण्-प्रत्ययस्य अन्त्यः णकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शैव अ (ʻतद्धितेष्वचामादेःʼ इत्यनेन सूत्रेण शिवस्य आदिभूतस्य
इकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ, ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया तालुस्थानसाम्यात् ऐकारः),
> शैव् अ (ʻयचि भम्ʼ इत्यनेन सूत्रेण अकारादौ अण्-प्रत्यये परे ʻशैवʼ
इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
> शैव (ʻअज्झीनं परेण संयोज्यम्ʼ इति
न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> शैव सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻशैवʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शैवस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शैवरु
(ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
> शैवर्
(ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः अनुबन्धलोपः, तथा ʻतस्य
लोपःʼ इत्यनेन तस्य लोपः),
> शैवः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशैवर्ʼ इत्यस्य रकारस्य
अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशैवःʼ इति रूपं सिद्धम्)।
५.
वैश्वामित्रः
ʻविश्वामित्रस्य
अपत्यम्ʼ इति विग्रहे—
विश्वामित्र
ङस् अण् (ʻअनृष्यानन्तर्ये
विदादिभ्योऽण्ʼ इत्यनेन सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् विश्वामित्त्रात्
उत्तरम् अण्-प्रत्ययः),
>
विश्वामित्र अण् (ʻकृत्तद्धितसमासाश्चʼ
इत्यनेन सूत्रेण ʻविश्वामित्र ङस् अण्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो
धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण
सुप्-ङस्-लोपः),
> विश्वामित्र अ (ʻहलन्त्यम्ʼ इत्यनेन अण्-प्रत्ययस्य अन्त्यः णकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
>
वैश्वामित्र अ (ʻतद्धितेष्वचामादेःʼ
इत्यनेन सूत्रेण पुत्रस्य आदिभूतस्य इकारस्य वृद्धिः, ʻवृद्धिरादैच्ʼ इत्यनेन आ,
ऐ, औ इत्येतेषां वृद्धिसंज्ञा, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया
तालुस्थानसाम्यात् ऐकारः),
> वैश्वामित्र् अ (ʻयचि भम्ʼ इत्यनेन सूत्रेण अकारादौ अण्-प्रत्यये परे ʻवैश्वामित्रʼ
इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्योऽकार-लोपः),
> वैश्वामित्र (ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन
प्रातिपदिकसंज्ञा),
>
वैश्वामित्र सु (ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻवैश्वामित्रʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
>
वैश्वामित्रस् (ʻउपदेशेऽजनुनासिक
इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य
लोपः),
>
वैश्वामित्ररु (ʻससजुषो रुःʼ
इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
>
वैश्वामित्रर् (ʻउपदेशेऽजनुनासिक
इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य
लोपः), >
वैश्वामित्रः (ʻविरामोऽवसानम्ʼ
इत्यनेन सूत्रेण ʻवैश्वामित्रर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻवैश्वामित्रःʼ
इति रूपं सिद्धम्)।
६. शिक्षकः
ʻशिक्षाम्
अधीते वेत्ति वाʼ
इत्यर्थे—
शिक्षा अम्
वुन् (ʻक्रमादिभ्यो
वुन्ʼ इत्यनेन सूत्रेण द्वितीयान्तात् शिक्षा-शब्दात् उत्तरं वुन्-प्रत्ययः),
> शिक्षा
वुन् (ʻकृत्तद्धितसमासाश्चʼ
इत्यनेन सूत्रेण ʻशिक्षा अम् वुन्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो
धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण
सुप्-अम्-लोपः),
> शिक्षा वु (ʻहलन्त्यम्ʼ इत्यनेन वुन्-प्रत्ययस्य अन्त्यः नकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शिक्षा
अकः (ʻयुवोरनाकौʼ
इत्यनेन सूत्रेण वु-स्थाने ʻअकʼ इत्यादेशः),
> शिक्ष्
अक (ʻयचि भम्ʼ इत्यनेन
सूत्रेण अकारादौ अक-प्रत्यये परे ʻशिक्षाʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ
इत्यनेन सूत्रेण तस्य अन्त्यः आकार-लोपः),
> शिक्षक (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> शिक्षक
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻशिक्षकʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शिक्षकस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शिक्षकरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ
इत्यादेशः),
> शिक्षकर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> शिक्षकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशिक्षकर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशिक्षकःʼ इति रूपं सिद्धम्)।
> शिक्षकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशिक्षकर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशिक्षकःʼ इति रूपं सिद्धम्)।
७. पाणिनीयम्
ʻपाणिनिना
प्रोक्तम्ʼ इति विग्रहे—
पाणिनि टा छ (ʻतेन प्रोक्तम्ʼ इत्यनेन सूत्रेण तृतीयान्तात्
प्रातिपदिकात् ʻपाणिनिʼ इत्यस्मात् उत्तरम् छ-प्रत्ययः),
> पाणिनि छ (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻपाणिनि टा छʼ
इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप्-टा-लोपः),
> पाणिनि
ईय् अ (ʻआयनेयीनीयियः
फ ढ ख छ घां प्रत्ययादीनाम्ʼ इत्यनेन
सूत्रेण छ्-स्थाने ʻईय्ʼ इत्यादेशः),
> पाणिन् ईय् अ (ʻयचि भम्ʼ इत्यनेन सूत्रेण ईकारादौ ईय्-प्रत्यये परे ʻपाणिनिʼ
इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अन्त्य इकार-लोपः),
> पाणिनीय (ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन
प्रातिपदिकसंज्ञा),
> पाणिनीय
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूतात् ʻपाणिनीयʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> पाणिनीय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण
सु-स्थाने अमादेशः),
> पाणिनीयम् (ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻपाणिनीयम्ʼ
इति रूपं सिद्धम्)।
८. गव्यम्
ʻगोः अवयवः
विकारः वाʼ इत्यर्थे
गो ङस् यत् (ʻगोपयसोर्यत्ʼ इत्यनेन
सूत्रेण षष्ठ्यन्तात् प्रातिपदिकात् ʻगोःʼ इत्यस्मात् उत्तरम् यत्-प्रत्ययः),
> गो यत् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण ʻगो ङस् यत्ʼ इत्यस्य
प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण सुप्-ङस्-लोपः),
> गो य (ʻहलन्त्यम्ʼ इत्यनेन यत्-प्रत्ययस्य अन्त्यः तकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> गव् य (ʻवान्तो यि प्रत्ययेʼ इत्यनेन सूत्रेण यकारादौ
यत्-प्रत्यये परे ओकारान्तस्य गो-शब्दस्य ओकार-स्थाने अवादेशः),
> गव्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन प्रातिपदिकसंज्ञा),
> गव्य सु (ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻगव्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> गव्य अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण
सु-स्थाने अमादेशः),
> गव्यम् (ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻगव्यम्ʼ
इति रूपं सिद्धम्)।
९. सामाजिकः--
ʻसमाजम् रक्षतिʼ
इत्यर्थे
समाज अम् ठक् (ʻरक्षतिʼ इत्यनेन सूत्रेण द्वितीयान्तात् प्रातिपदिकात् ʻसमाजʼ
इत्यस्मात् उत्तरम् ठक्-प्रत्ययः),
> समाज ठक् (ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण इत्यस्य ʻसमाज अम्
ठक्ʼ इत्यस्य प्रातिपदिकसंज्ञा, तथा ʻसुपो धातुप्रातिपदिकयोःʼ इत्यनेन सूत्रेण
सुप्-अम्-लोपः),
> समाज ठ (ʻहलन्त्यम्ʼ इत्यनेन ठक्-प्रत्ययस्य अन्त्यः ककारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> समाज इक (ʻठस्येकःʼ इत्यनेन सूत्रेण ठ-स्थाने ʻइकʼ इत्यादेशः),
> सामाज इक (ʻस्थानिवदादेशोऽनल्विधौʼ इत्यनया परिभाषया ठक् इति
कित्-प्रत्ययस्य स्थाने आदेशप्राप्तः इकः अपि कित्, तस्मिन् किति परे ʻकिति चʼ
इत्यनेन सूत्रेण ʻसमाजʼ इत्यस्य आदिभूतस्य अकारस्य वृद्धिः आकारः),
> सामाज्
इक (ʻयचि भम्ʼ इत्यनेन
सूत्रेण इकारादौ इक-प्रत्यये परे ʻसामाजʼ इत्यस्य भसंज्ञा, तथा ʻयस्येति चʼ
इत्यनेन सूत्रेण तस्य अन्त्य अकार-लोपः),
> सामाजिक (ʻअज्झीनं परेण
संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻएकदेशविकृतमनन्यवत्ʼ इति न्यायेन
प्रातिपदिकसंज्ञा),
> सामाजिक
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻसामाजिकʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
>
सामाजिकस् (ʻउपदेशेऽजनुनासिक
इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य
लोपः),
>
सामाजिकरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण
पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
> सामाजिकर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > सामाजिकः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻसामाजिकर्ʼ इत्यस्य
रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻसामाजिकःʼ इति रूपं सिद्धम्)।
Comments
Post a Comment