3rd Sem, C-7, Unit-I, लघुसिद्धान्तकौमुदी (पदसाधनम्—राम—चतुर्थी---सप्तमी)
3rd Sem, C-7, Unit-I,
लघुसिद्धान्तकौमुदी
(पदसाधनम्—राम—चतुर्थी---सप्तमी)
१०. रामाय-- ʻरामʼ इति प्रातिपदिकस्य चतुर्थ्येकवचनस्य रूपम्।
राम ङे (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे चतुर्थ्येकवचने ङे-विभक्तिः), > राम य (ʻङेर्यःʼ इत्यनेन सूत्रेण अकारान्तात् अङ्गात् रामात् परस्य ङेः स्थाने ʻयʼ इत्यादेशः), > रामाय (ʻयञादौ सुपि ʻयʼ इति परतः ʻसुपि चʼ इत्यनेन सूत्रेण रामस्य मकारोत्तरवर्तिनः अकारस्य स्थाने आकार-दीर्घादेशे ʻरामायʼ इति रूपं सिद्धम्)।

११. रामेभ्यः-- ʻरामʼ इति प्रातिपदिकस्य चतुर्थी-बहुवचनस्य /
पञ्चमी-बहुवचनस्य रूपम्।
राम
भ्यस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण पुंलिङ्गे
चतुर्थी-बहुवचने / पञ्चमी-बहुवचने भ्यस्-विभक्तिः),
>
रामेभ्यस् (बहुवचने झलादौ सुपि ʻभ्यस्ʼ इत्यस्मिन् परे ʻबहुवचने झल्येत्ʼ
इत्यनेन सूत्रेण ʻरामʼ इत्यस्य अन्त्यस्य अकारस्य स्थाने एकारादेशः), > रामेभ्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः), > रामेभ्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ
इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रामेभ्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरामेभ्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरामेभ्यःʼ इति रूपं सिद्धम्)।

१२. रामात्-- ʻरामʼ इति प्रातिपदिकस्य पञ्चम्येकवचनस्य रूपम्।
राम ङसि (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे पञ्चम्येकवचने ङसि-विभक्तिः),

राम आत् (ʻटा-ङसि-ङसामिनात्स्याःʼ इत्यनेन सूत्रेण अकारान्तात् अङ्गात् रामात्
ङसि-स्थाने ʻआत्ʼ इत्यादेशः),
> रामात् (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण पूर्वपरयोः सवर्णदीर्घः आकारः एकादेशः),

> रामाद्
(ʻझलां जशोऽन्तेʼ इत्यनेन सूत्रेण
पदान्त-झलः तकारस्य स्थाने जश्-तकारादेशः), > रामात्
(ʻवाऽवसानेʼ इत्यनेन सूत्रेण अवसानसंज्ञक-दकार-स्थाने
विकल्पेन चर्-तकारादेशे ʻरामात्ʼ इति रूपं सिद्धम्)।
१३. रामस्य-- ʻरामʼ इति प्रातिपदिकस्य षष्ठ्येकवचनस्य रूपम्।
राम ङस् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे षष्ठ्येकवचने ङस्-विभक्तिः),

रामस्य (ʻटा-ङसि-ङसामिनात्स्याःʼ
इत्यनेन सूत्रेण अकारान्तात् अङ्गात् रामात् ङस्-स्थाने ʻस्यʼ इत्यादेशे ʻरामस्यʼ
इति रूपं सिद्धम्)।
१४. रामयोः-- ʻरामʼ इति प्रातिपदिकस्य षष्ठी-द्विवचनस्य /
सप्तमी-द्विवचनस्य रूपम्।
राम
ओस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे षष्ठी-द्विवचने / सप्तमी-द्विवचने ओस्-विभक्तिः),
> रामे ओस् (ओसि परतः ʻओसि चʼ इत्यनेन सूत्रेण
अकारान्ताङ्गस्य रामस्य मकारोत्तरवर्तिनः अकारस्य स्थाने एकारादेशः), > रामय् ओस् (ʻएचोऽयवायावःʼ
इत्यनेन सूत्रेण अचि ओकारे परे ʻरामेʼ इत्यस्य एचः एकारस्य स्थाने अय्, अव्, आय्,
आव् इति आदेश-चतुष्टये प्राप्ते, ʻयथासंख्यमनुदेशः समानाम्ʼ इत्यनया परिभाषया
केवलम् अयादेशः), >
रामयोस् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्परसंयोगः), > रामयोरु (ʼससजुषो रुःʼ
इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः), > रामयोर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः
इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> रामयोः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻरामयोर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻरामयोःʼ इति रूपं सिद्धम्)।

१५. रामाणाम्-- ʻरामʼ इति प्रातिपदिकस्य षष्ठी-बहुवचनस्य रूपम्। राम
आम् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण पुंलिङ्गे
षष्ठी-बहुवचने आम्- विभक्तिः),
> राम नुट् आम् (ʻह्रस्वनद्यापो नुट्ʼ इत्यनेन सूत्रेण ह्रस्वान्तात् अङ्गात् ʻरामʼ इत्यस्मात् आमः नुट्-आगमः, नुटः टकार इत्, अतः टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया आमः आद्यवयवः), > राम न् आम् (ʻनुट्ʼ इत्यस्य उकारः उच्चारणार्थः, अन्त्यः टकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > राम नाम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्परसंयोगः),
> रामा नाम् (ʻनाम्ʼ इति परे ʻनामिʼ इत्यनेन सूत्रेण अजन्तस्य अङ्गस्य ʻरामʼ इत्यस्य अन्त्यस्य अचः अकारस्य दीर्घादेशः), > रामाणाम् (रकारात् अट्-प्रत्याहारस्य आकार-मकार-आकार-व्यवधाने ʻअट्कुप्वाङ्नुम्व्यवायेऽपिʼ इत्यनेन सूत्रेण ʻनामʼ इत्यस्य नकार-स्थाने णकारादेशे ʻरामाणाम्ʼ इति रूपं सिद्धम्।

१६. रामे-- ʻरामʼ इति प्रातिपदिकस्य सप्तम्येकवचनस्य रूपम्। राम ङि (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण पुंलिङ्गे सप्तम्येकवचने ङि-विभक्तिः),
> राम इ (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻङिʼ इत्यस्य ङकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > रामे (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः अकार-इकारयोः एकार-गुणादेशे ʻरामेʼ रूपं सिद्धम्)।
१७. रामेषु-- ʻरामʼ इति प्रातिपदिकस्य सप्तमी-बहुवचनस्य रूपम्। राम सुप् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʼरामʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् रामाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण पुंलिङ्गे सप्तमी-बहुवचने सुप्-विभक्तिः),
> राम सु (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण सुपः अन्त्यस्य हलः पकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः), > रामे सु (बहुवचने झलादौ सुपि परे ʻबहुवचने झल्येत्ʼ इत्यनेन सूत्रेण ʻरामʼ इत्यस्य अन्त्यस्य अकारस्य स्थाने एकारादेशः), > रामेषु (ʻआदेशप्रत्यययोःʼ इत्यनेन सूत्रेण इण्-प्रत्याहारस्य एकारात् प्रत्ययस्य ʻसुʼ इत्यस्य सकार-स्थाने षकारादेशे ʻरामेषुʼ इति रूपं सिद्धम्)।
Comments
Post a Comment