3rd sem, C-7, Unit-II, कृदन्त-पदसाधनम्-1
3rd sem, C-7, Unit-II,
कृदन्त-पदसाधनम्-1
१.
एधितव्यम्-- एध् + तव्यत् –एधितव्यम्।
एध् तव्यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻएध्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻतव्यत्तव्यानीयरःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
एध्-धातोरुत्तरम् तव्यत्-प्रत्ययः),
एध् तव्य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण तव्यतः अन्त्यः तकारः इत्, ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> एध् इट् तव्य (ʻʻआर्धधातेकं शेषःʼ इत्यनेन सूत्रेण ʻतव्यत्ʼ इत्यस्य
आर्धधातुकसंज्ञा, वलादौ आर्धधातुके तव्यत्-प्रत्यये परे ʻआर्धधातुकस्येड् वलादेःʼ
इत्यनेन सूत्रेण इट्-आगमः, इटः टकारः (ट्) इत्, अतः टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया
तव्यतः आद्यवयवः),
> एध् इ
तव्य (ʻहलन्त्यम्ʼ
इत्यनेन सूत्रेण इटः अन्त्यः टकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य
लोपः),
> एधितव्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण
परस्परसंयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> एधितव्य
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻएधितव्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> एधितव्य
अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् एधितव्य-शब्दात्
सु-स्थाने अमादेशः),
> एधितव्यम् (ʻएधितव्यʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि
अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻएधितव्यम्ʼ इति रूपं
सिद्धम्)।
२. एधनीयम्—एध् + अनीयर् –एधनीयम्।
एध् अनीयर् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻएध्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻतव्यत्तव्यानीयरःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
एध्-धातोरुत्तरम् अनीयर्-प्रत्ययः),
> एध् अनीय (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अनीयरः अन्त्यः रकारः इत्, ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> एधनीय (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण
परस्परसंयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> एधनीय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻएधनीयʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि क्रमशः
एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन सूत्रेण
क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> एधनीय
अम् (ʻअतोऽम्ʼ
इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् एधनीय-शब्दात् सु-स्थाने अमादेशः),
> एधनीयम् (ʻएधनीयʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि
अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻएधनीयम्ʼ इति रूपं
सिद्धम्)।
३. स्नानीयम्-- स्नाति
अनेन इति—स्नानीयम् चूर्णम्।
स्ना + अनीयर्—स्नानीयम्।
स्ना अनीयर् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻस्नाʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻतव्यत्तव्यानीयरःʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
स्ना-धातोरुत्तरम् अनीयर्-प्रत्ययः),
> स्ना अनीय (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण अनीयरः अन्त्यः रकारः इत्, ʻतस्य
लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> स्नानीय (ʻअकः सवर्णे दीर्घःʼ इत्यनेन सूत्रेण पूर्वपरयोः
सवर्णदीर्घः आकारः एकादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण
प्रातिपदिकसंज्ञा),
> स्नानीय
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻस्नानीयʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> स्नानीय
अम् (ʻअतोऽम्ʼ
इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् ʻस्नानीयʼ इत्यस्मात् सु-स्थाने
अमादेशः),
> स्नानीयम् (ʻस्नानीयʼ इत्यस्य यकारोत्तरवर्तिनः अकः अकारात् अमि अचि
अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻस्नानीयम्ʼ इति रूपं
सिद्धम्)।
४. चेयम्-- चि
+ यत् –चेयम्।
चि यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻचिʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻअचो यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
चि-धातोरुत्तरम् यत्-प्रत्ययः),
> चि य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण ʻयत्ʼ इत्यस्य अन्त्यः तकारः
इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> चेय (आर्धधातुके यत्-प्रत्यये परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण
चि-धातोः इकार-स्थाने एकार-गुणादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण
प्रातिपदिकसंज्ञा),
> चेय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻचेयʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> चेय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात्
सु-स्थाने अमादेशः),
> चेयम् (ʻचेयʼ इत्यस्य
यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण
पूर्वरूपमेकादेशे ʻचेयम्ʼ इति रूपं सिद्धम्)।
५. देयम्-- दा
+ यत् –देयम्।
दा यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻदाʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻअचो यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
दा-धातोरुत्तरम् यत्-प्रत्ययः),
> दा य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण ʻयत्ʼ इत्यस्य अन्त्यः तकारः
इत्, ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य लोपः),
> दी य (यत्-प्रत्यये परे ʻईद्यतिʼ इत्यनेन सूत्रेण दा-धातोः
आकार-स्थाने ईकारादेशः),
> देय (आर्धधातुके यत्-प्रत्यये परे ʻसार्वधातुकार्धधातुकयोःʼ इत्यनेन सूत्रेण ʻदीʼ
इत्यस्य ईकार-स्थाने एकार-गुणादेशः, तथा ʻकृत्तद्धितसमासाश्चʼ
इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> देय सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻदेयʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> देय अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात्
सु-स्थाने अमादेशः),
> देयम् (ʻदेयʼ इत्यस्य
यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण
पूर्वरूपमेकादेशे ʻदेयम्ʼ इति रूपं सिद्धम्)।
६. शप्यम्-- शप्
+ यत् --शप्यम्।
शप् यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशप्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻपोरदुपधात् ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
शप्-धातोरुत्तरम् यत्-प्रत्ययः),
> शप् य (ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण ʻयत्ʼ इत्यस्य अन्त्यः तकारः
इत्,तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य
लोपः),
> शप्य (ʻअज्झीनं
परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ इत्यनेन
सूत्रेण प्रातिपदिकसंज्ञा),
> शप्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻशप्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शप्य अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात्
सु-स्थाने अमादेशः),
> शप्यम् (ʻशप्यʼ इत्यस्य
यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण
पूर्वरूपमेकादेशे ʻशप्यम्ʼ इति रूपं सिद्धम्)।
एवम्—लभ् +
यत् > लभ् य > लभ्य > लभ्य सु > लभ्य अम् > लभ्यम्।
७. शिष्यः-- शास् + क्यप् –शिष्यः।
शास् क्यप् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻशास्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻएति-स्तु-शास्-वृ-दृ-जुषः क्यप्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ
इत्येतैः सूत्रैः शास्-धातोरुत्तरं यत्-प्रत्ययः),
> शास् य (क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन
सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तयोः लोपः),
> शिस् य (ʻशास इदङ्हलोःʼ इत्यनेन सूत्रेण हलादौ किति क्यपि
(क्यप्-प्रत्यये) परे शास्-धातोः आकार-स्थाने इकारादेशः),
> शिष् य (ʻशासि-वसि-घसीनाञ्चʼ इत्यनेन सूत्रेण ʻशिस्ʼ इत्यत्र
इण्-प्रत्याहारस्य इकारात् सकार-स्थाने षकारादेशः),
> शिष्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> शिष्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻशिष्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> शिष्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > शिष्यरु (ʻससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ
इत्यादेशः),
> शिष्यर्
(ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तस्य लोपः),
> शिष्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशिष्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशिष्यःʼ इति रूपं सिद्धम्)।
> शिष्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻशिष्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻशिष्यःʼ इति रूपं सिद्धम्)।
८. इत्यः-- इ
+ क्यप् –इत्यः।
इ क्यप् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻइʼ इत्यस्य धातुसंज्ञा,
ʻधातोःʼ, ʻएति-स्तु-शास्-वृ-दृ-जुषः क्यप्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
इ-धातोरुत्तरं क्यप्-प्रत्ययः),
> इ य (क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, ʻलशक्वतद्धितेʼ
इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः),
> इ तुक् य (ʻह्रस्वस्य पिति कृति तुक्ʼ इत्यनेन सूत्रेण तुक्-आगमः, तुकः
ककारः इत्, अतः कित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया परिभाषया तुक् ह्रस्वस्य
इ-धातोः अन्तावयवः),
> इत् य (ʻतुक्ʼ इत्यस्य उकारः ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन
सूत्रेण इत्, अन्त्यः ककारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तयोः लोपः),
> इत्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> इत्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻइत्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> इत्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > इत्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः), > इत्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
>
इत्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻ इत्यर्ʼ इत्यस्य रकारस्य
अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻइत्यःʼ इति रूपं सिद्धम्)।
९. मृज्यः—मृज्
+ क्यप् –मृज्यः।
मृज् क्यप् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻमृज्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻऋहलोर्ण्यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
मृज्-धातोरुत्तरं विकल्पेन क्यप्-प्रत्ययः),
> मृज् य (क्यप्-प्रत्ययस्य अन्त्यः पकारः ʻहलन्त्यम्ʼ इत्यनेन
सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण आदिः ककारः इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तयोः लोपः),
> मृज्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> मृज्य
सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः
सूत्रैः प्रातिपदिकभूताद् ʻमृज्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> मृज्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> मृज्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
> मृज्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
> मृज्यर्
(ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तस्य लोपः),
> मृज्यः (ʻविरामोऽवसानम्ʼ
इत्यनेन सूत्रेण ʻमृज्यर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻमृज्यःʼ
इति रूपं सिद्धम्)।
१०. कार्यम्--
कृ + ण्यत् –कार्यम्।
कृ ण्यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻकृʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻऋहलोर्ण्यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
कृ-धातोरुत्तरं ण्यत्-प्रत्ययः),
> कृ य (ʻण्यत्ʼ इत्यस्य अन्त्यः तकारः ʻहलन्त्यम्ʼ इत्यनेन
सूत्रेण इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन
सूत्रेण तयोः लोपः),
> क् आर् य (ʻण्यत्ʼ-प्रत्ययस्य णकारः इत्, अतः णित्, तस्मिन् परतः ʻअचो
ञ्णितिʼ इत्यनेन सूत्रेण कृ-धातोः ऋकारस्य वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
> कार्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> कार्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻकार्यʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> कार्य अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात्
सु-स्थाने अमादेशः),
> कार्यम् (ʻकार्यʼ इत्यस्य
यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण
पूर्वरूपमेकादेशे ʻ कार्यम्ʼ इति रूपं सिद्धम्)।
११. मार्ग्यः—मृज् + ण्यत् –मार्ग्यः।
मृज् ण्यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻमृज्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻऋहलोर्ण्यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः मृज्-धातोरुत्तरं
ण्यत्-प्रत्ययः),
> मृज् य (ʻण्यत्ʼ इत्यस्य अन्त्यः तकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण
इत्, ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तयोः लोपः),
> मृग् य (चजोः कुः घिण्ण्यतोःʼ इत्यनेन सूत्रेण ण्यत्-प्रत्यये परे
मृज्-धातोः जकार-स्थाने गकारादेशः),
> म् आर्
ग् य (आर्धधातुक-प्रत्यये
(ण्यत्-प्रत्यये) परतः ʻमृजेर्वृद्धिःʼ इत्यनेन सूत्रेण मृज्-धातोः इकः कारस्य
वृद्धिः, ʻउरण् रपरःʼ इत्यनेन रपरः ʻआर्ʼ),
> मार्ग्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा
ʻकृत्तद्धितसमासाश्चʼ इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> मार्ग्य
सु (ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻमार्ग्य
ʼ इत्यस्माद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः
विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण पुंलिङ्गे प्रथमैकवचने सु-विभक्तिः),
> मार्ग्यस् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻसुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः), > मार्ग्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकार-स्थाने ʻरुʼ इत्यादेशः),
> मार्ग्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> मार्ग्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
>
मार्ग्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻ मार्ग्यर्ʼ इत्यस्य
रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻमार्ग्यः ʼ इति रूपं
सिद्धम्)।
१२. भोज्यम्—भुज् + ण्यत् –भोज्यम्।
भुज् ण्यत् (ʻभूवादयो धातवःʼ इत्यनेन सूत्रेण ʻभुज्ʼ इत्यस्य
धातुसंज्ञा, ʻधातोःʼ, ʻऋहलोर्ण्यत्ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः
भुज्-धातोरुत्तरं ण्यत्-प्रत्ययः),
> भुज् य (ʻण्यत्ʼ इत्यस्य अन्त्यः तकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्,
ʻआदिः णकारः ʻचुटूʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तयोः
लोपः),
> भोज् य (ʻपुगन्तलघूपधस्य चʼ इत्यनेन सूत्रेण भुज्-धातोः लघूपधस्य
उकारस्य स्थाने एकारः गुणादेशः),
> भोज्य (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायेन परस्पर-संयोगः, तथा ʻकृत्तद्धितसमासाश्चʼ
इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा),
> भोज्य सु (ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ʻभोज्यʼ इत्यस्माद् उत्तरं
सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः),
> भोज्य अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात्
सु-स्थाने अमादेशः),
> भोज्यम् (ʻकार्यʼ इत्यस्य
यकारोत्तरवर्तिनः अकः अकारात् अमि अचि अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण
पूर्वरूपमेकादेशे ʻभोज्यम्ʼ इति रूपं सिद्धम्)।
Comments
Post a Comment