3rd sem, C-7, पदसाधनम्, अकारान्तः नपुंसकलिङ्गः शब्दः ʻज्ञानʼ)
3rd sem, C-7, unit 1,
पदसाधनम्,
अकारान्तः नपुंसकलिङ्गः शब्दः ʻज्ञानʼ)
१. ज्ञानम्—ज्ञान-शब्दस्य प्रथमैकवचनस्य / द्वितीयैकवचनस्य रूपम्।
ज्ञान सु / अम् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन
सूत्रेण ʻ ज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ,
ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमैकवचने सु-विभक्तिः / द्वितीयैकवचने अम्-विभक्तिः),
> ज्ञान अम् (ʻअतोऽम्ʼ इत्यनेन सूत्रेण अदन्ताद् अङ्गाद् क्लीबात् ज्ञान-शब्दात्
सु-स्थाने / अम्-स्थाने अमादेशः),
> ज्ञानम् (ʻज्ञानʼ इत्यस्य नकारोत्तरवर्तिनः अकः अकारात् अमि अचि
अकारे परे ʻअमि पूर्वःʼ इत्यनेन सूत्रेण पूर्वरूपमेकादेशे ʻज्ञानम्ʼ इति रूपं
सिद्धम्)।
२. ज्ञाने-- ज्ञान-शब्दस्य
प्रथमा-द्विवचनस्य / द्वितीया-द्विवचनस्य रूपम्।
ज्ञान औ / औट् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻ ज्ञानʼ
इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे प्रथमा-द्विवचने औ-विभक्तिः / द्वितीयैकवचने औट्-विभक्तिः),
> ज्ञान शी (ʻनपुंसकाच्चʼ इत्यनेन सूत्रेण क्लीबात् ज्ञानात् औङः
स्थाने (औ-औट्-स्थाने) ʻशीʼ इत्यादेशः),
> ज्ञान ई (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻशीʼ इत्यस्य आदिः शकारः
इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> ज्ञाने (ʻयचि भम्ʼ इत्यनेन सूत्रेण ईकारे परे ज्ञानस्य भसंज्ञा,
ततः ʻयस्येति चʼ इत्यनेन सूत्रेण तस्य अकारलोपे प्राप्ते, ʻऔङः श्यां प्रतिषेधो
वाच्यःʼ इत्यनेन वार्तिकेण तस्य प्रतिषेधे ʻआद्गुणःʼ इत्यनेन सूत्रेण पूरवपरयोः
एकार-गुणादेशे ʻज्ञानेʼ इति रूपं सिद्धम्)।
३. ज्ञानानि-- ज्ञान-शब्दस्य प्रथमाबहुवचनस्य / द्वितीया-बहुवचनस्य
रूपम्।
ज्ञान जस् /
शस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻ ज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण
क्लीब्लिङ्गे प्रथमा-बहुवचने जस्-विभक्तिः / द्वितीया-बहुवचने शस्-विभक्तिः),
> ज्ञान शि (ʻजश्शसोः शिःʼ इत्यनेन सूत्रेण क्लीब्लिङ्गात् ज्ञानात्
जश्शसोः स्थाने ʻशिʼ इत्यादेशः),
> ज्ञान नुम् शि (ʻशि सर्वनामस्थानम्ʼ इत्यनेन सूत्रेण ʻशिʼ इत्यस्य
सर्वनामस्थानसंज्ञा, सर्वनामस्थाने परे ʻनपुंसकस्य झलचःʼ इत्यनेन सूत्रेण
अजन्ताङ्गस्य ज्ञानस्य नुम्-आगमः, नुमः मकारः इत्, अतः मित्, तस्मात् ʻमिदचोऽन्त्यात्परःʼ
इत्यनया परिभाषया ʻज्ञानʼ-शब्दस्य अन्त्यस्य अकारस्य अन्तावयवः),
> ज्ञान न्
इ (नुमः उकारः उच्चारणार्थः,
अन्त्यः मकारः ʻहलन्त्यम्ʼ अत्यनेन सूत्रेण इत्, ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻशिʼ
इत्यस्य आदिः शकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तयोः लोपः),
> ज्ञानान्
इ (ʻसर्वनामस्थाने
चासमबुद्धौʼ इत्यनेन सूत्रेण सम्बुद्धिभिन्ने सर्वनामस्थाने शौ परे
नकारान्ताङ्गस्य ʻज्ञानन्ʼ इत्यस्य उपधाभूतस्य अकारस्य दीर्घादेशः),
> ज्ञानानि (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण परस्परसंयोगे
ʻज्ञानानिʼ इति रूपं सिद्धम्)।
४. ज्ञानेन-- ʻज्ञानʼ इति प्रातिपदिकस्य तृतीयैकवचनस्य
रूपम्। ज्ञान टा (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञान
ʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे तृतीयैकवचने टा-विभक्तिः),
> ज्ञान इन (ʻटा-ङसि-ङसामिनात्स्याःʼ
इत्यनेन सूत्रेण अकारान्तात् ʻज्ञानʼ इत्यस्मात् टा-स्थाने ʻइनʼ इत्यादेशः),
> ज्ञानेन (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः अकार-इकारयोः
एकार-गुणादेशे ʻज्ञानेनʼ इति रूपं सिद्धम्।
५. ज्ञानाभ्याम्--
ʻज्ञानʼ इति प्रातिपदिकस्य तृतीया-द्विवचनस्य / चतुर्थी-द्विवचनस्य
/ पञ्चमी-द्विवचनस्य रूपम्। ज्ञान
भ्याम् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीलिङ्गे तृतीया-द्विवचने / चतुर्थी-द्विवचने / पञ्चमी-द्विवचने भ्याम्- विभक्तिः), > ज्ञानाभ्याम् (ʻयञादौ सुपि ʻभ्याम्ʼ इति परतः ʻसुपि चʼ इत्यनेन सूत्रेण ज्ञानस्य
मकारोत्तरवर्तिनः अकारस्य स्थाने आकार-दीर्घादेशे ʻ ज्ञानाभ्याम्ʼ इति रूपं सिद्धम्)।
६. ज्ञानैः-- ʻज्ञान ʼ इति प्रातिपदिकस्य तृतीया-बहुवचनस्य रूपम्। ज्ञान
भिस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे
तृतीया-बहुवचने भिस्-विभक्तिः),
> ज्ञान
ऐस् (ʻअतो भिस
ऐस्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इति
अकारान्तात् शब्दात् परम् तृतीयाबहुवचने भिसः स्थाने ऐस् इत्यादेशः),
> ज्ञानैस् (ʻऐस्ʼ इत्यस्य अन्त्यस्य हलः सकारस्य इत्संज्ञाप्राप्तौ ʻन
विभक्तौ तुस्माःʼ इत्यनेन तस्य निषेधे ʻवृद्धिरेचिʼ इत्यनेन सूत्रेण पूर्वपरयोः
ऐकारः वृद्धिरेकादेशः),
> ज्ञानैरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ
इत्यादेशः),
> ज्ञानैर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> ज्ञानैः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻज्ञानैर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻज्ञानैःʼ इति रूपं सिद्धम्)।
> ज्ञानैः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻज्ञानैर्ʼ इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻज्ञानैःʼ इति रूपं सिद्धम्)।
७. ज्ञानाय-- ʻज्ञानʼ इति प्रातिपदिकस्य चतुर्थ्येकवचनस्य रूपम्। ज्ञान ङे (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञान
ʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे चतुर्थ्येकवचने ङे-विभक्तिः),
> ज्ञान य (ʻङेर्यःʼ इत्यनेन सूत्रेण अकारान्तात् अङ्गात् ज्ञानात्
परस्य ङेः स्थाने ʻयʼ इत्यादेशः),
> ज्ञानाय (ʻयञादौ सुपि ʻयʼ इति परतः ʻसुपि चʼ इत्यनेन सूत्रेण ज्ञानस्य
नकारोत्तरवर्तिनः अकारस्य स्थाने
आकार-दीर्घादेशे ʻ ज्ञानायʼ इति रूपं सिद्धम्)।
८. ज्ञानेभ्यः-- ʻज्ञानʼ इति
प्रातिपदिकस्य चतुर्थी-बहुवचनस्य / पञ्चमी-बहुवचनस्य रूपम्। ज्ञान भ्यस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे
चतुर्थी-बहुवचने / पञ्चमी-बहुवचने भ्यस्-विभक्तिः),
> ज्ञानेभ्यस् (बहुवचने झलादौ सुपि ʻभ्यस्ʼ इत्यस्मिन् परे ʻबहुवचने झल्येत्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य अन्त्यस्य अकारस्य स्थाने एकारादेशः),
> ज्ञानेभ्यरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ
इत्यादेशः),
> ज्ञानेभ्यर् (ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य
उकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेनइत्य लोपः) > ज्ञानेभ्यः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻज्ञानेभ्यर्ʼ
इत्यस्य रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻज्ञानेभ्यःʼ
इति रूपं सिद्धम्)।
९. ज्ञानात्-- ʻ ज्ञानʼ इति प्रातिपदिकस्य पञ्चम्येकवचनस्य रूपम्। ज्ञान ङसि (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे पञ्चम्येकवचने ङसि-विभक्तिः),
> ज्ञान
आत् (ʻटा-ङसि-ङसामिनात्स्याःʼ इत्यनेन सूत्रेण अकारान्तात् अङ्गात् ज्ञानात्
ङसि-स्थाने ʻआत्ʼ इत्यादेशः), > ज्ञानात् (ʻअकः सवर्णे
दीर्घःʼ इत्यनेन सूत्रेण पूर्वपरयोः सवर्णदीर्घः आकारः एकादेशः),
> ज्ञानाद् (ʻझलां जशोऽन्तेʼ
इत्यनेन सूत्रेण पदान्त-झलः तकारस्य स्थाने जश्-दकारादेशः),
> ज्ञानात् (ʻवाऽवसानेʼ
इत्यनेन सूत्रेण अवसानसंज्ञक-दकार-स्थाने विकल्पेन चर्-तकारादेशे ʻज्ञानात्ʼ
इति रूपं सिद्धम्)।
१०. ज्ञानस्य-- ʻज्ञान ʼ इति प्रातिपदिकस्य षष्ठ्येकवचनस्य रूपम्।
ज्ञान ङस् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञान
ʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे षष्ठ्येकवचने ङस्-विभक्तिः),
> ज्ञानस्य (ʻटा-ङसि-ङसामिनात्स्याःʼ
इत्यनेन सूत्रेण अकारान्तात् अङ्गात् ज्ञानात् ङस्-स्थाने ʻस्यʼ इत्यादेशे ʻ ज्ञानस्यʼ
इति रूपं सिद्धम्)।
११. ज्ञानयोः-- ʻ ज्ञानʼ इति प्रातिपदिकस्य षष्ठी-द्विवचनस्य /
सप्तमी-द्विवचनस्य रूपम्। ज्ञान
ओस् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद्
उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे षष्ठी-द्विवचने / सप्तमी-द्विवचने ओस्-विभक्तिः),
> ज्ञाने ओस् (ओसि परतः ʻओसि चʼ
इत्यनेन सूत्रेण अकारान्ताङ्गस्य ज्ञानस्य मकारोत्तरवर्तिनः अकारस्य स्थाने एकारादेशः,
> ज्ञानय्
ओस् (ʻएचोऽयवायावःʼ इत्यनेन सूत्रेण अचि ओकारे परे ʻज्ञानेʼ
इत्यस्य एचः एकारस्य स्थाने अय्, अव्, आय्, आव् इति आदेश-चतुष्टये प्राप्ते, ʻयथासंख्यमनुदेशः
समानाम्ʼ इत्यनया परिभाषया केवलम् अयादेशः),
> ज्ञानयोस् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण
परस्परसंयोगः),
> ज्ञानयोरु (ʼससजुषो रुःʼ इत्यनेन सूत्रेण पदान्त-सकारस्थाने ʻरुʼ इत्यादेशः),
> ज्ञानयोर्
(ʻउपदेशेऽजनुनासिक इत्ʼ इत्यनेन सूत्रेण ʻरुʼ इत्यस्य उकारः इत्, तथा ʻतस्य लोपःʼ
इत्यनेन तस्य लोपः), > ज्ञानयोः (ʻविरामोऽवसानम्ʼ इत्यनेन सूत्रेण ʻज्ञानयोर्ʼ इत्यस्य
रकारस्य अवसानसंज्ञा, तथा ʻखरवसानयोर्विसर्जनीयःʼ
इत्यनेन सूत्रेण रकार-स्थाने विसर्गादेशे ʻज्ञानयोःʼ इति रूपं
सिद्धम्)।
१२. ज्ञानानाम्-- ʻज्ञान ʼ इति प्रातिपदिकस्य षष्ठी-बहुवचनस्य
रूपम्। ज्ञान आम् (ʻअर्थवदधातुरप्रत्ययः
प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ,
ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां
सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे
षष्ठी-बहुवचने आम्-विभक्तिः),
> ज्ञान नुट्
आम् (ʻह्रस्वनद्यापो नुट्ʼ इत्यनेन सूत्रेण
ह्रस्वान्तात् अङ्गात् ʻज्ञानʼ इत्यस्मात्
आमः नुट्-आगमः, नुटः टकार इत्, अतः टित्, तस्मात् ʻआद्यन्तौ टकितौʼ इत्यनया
परिभाषया आमः आद्यवयवः),
> ज्ञान न्
आम् (ʻनुट्ʼ इत्यस्य उकारः उच्चारणार्थः, अन्त्यः
टकारः ʻहलन्त्यम्ʼ इत्यनेन सूत्रेण इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण तस्य
लोपः),
> ज्ञान
नाम् (ʻअज्झीनं परेण संयोज्यम्ʼ इति न्यायानुसारेण
परस्परसंयोगः),
> ज्ञानानाम् (ʻनाम्ʼ इति परे ʻनामिʼ
इत्यनेन सूत्रेण अजन्तस्य अङ्गस्य ʻज्ञानʼ इत्यस्य अन्त्यस्य अचः अकारस्य
दीर्घादेशे ʻ ज्ञानानाम्ʼ इति रूपं सिद्धम्)।
१३. ज्ञाने-- ʻज्ञानʼ
इति प्रातिपदिकस्य सप्तम्येकवचनस्य
रूपम्। ज्ञान ङि (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ
इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ, ʻप्रत्ययःʼ,
ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ
इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻद्वेकयोर्द्विवचनैकवचनेʼ इत्यनेन
सूत्रेण क्लीब्लिङ्गे सप्तम्येकवचने ङि-विभक्तिः),
> ज्ञान इ (ʻलशक्वतद्धितेʼ इत्यनेन सूत्रेण ʻङिʼ इत्यस्य ङकारः इत्,
तथा ʻतस्य लोपःʼ इत्यनेन तस्य लोपः),
> ज्ञाने (ʻआद्गुणःʼ इत्यनेन सूत्रेण पूर्वपरयोः अकार-इकारयोः
एकार-गुणादेशे ʻ ज्ञानेʼ रूपं सिद्धम्)।
१४. ज्ञानेषु-- ʻज्ञानʼ इति प्रातिपदिकस्य सप्तमी-बहुवचनस्य रूपम्। ज्ञान
सुप् (ʻअर्थवदधातुरप्रत्ययः प्रातिपदिकम्ʼ इत्यनेन
सूत्रेण ʻज्ञान ʼ इत्यस्य प्रातिपदिकसंज्ञा, ततः ʻङ्याप्प्रातिपदिकात्ʼ, ʻस्वौजसमौट्--ʼ,
ʻप्रत्ययःʼ, ʻपरश्चʼ इत्येतैः सूत्रैः प्रातिपदिकभूताद् ज्ञानाद् उत्तरं
सुप्, ʻसुपःʼ, ʻविभक्तिश्चʼ इत्येताभ्यां सूत्राभ्यां सुपः विभक्तिसंज्ञा, ʻतान्येकवचन-द्विवचन-बहुवचनान्येकशःʼ इत्यनेन सूत्रेण सुपः त्रीणि त्रीणि वचनानि
क्रमशः एकवचन-द्विवचन-बहुवचनसंज्ञानि, तथा ʻबहुषु बहुवचनम्ʼ इत्यनेन सूत्रेण क्लीब्लिङ्गे
सप्तमी-बहुवचने सुप्-विभक्तिः),
> ज्ञान सु (ʻहलन्त्यम्ʼ
इत्यनेन सूत्रेण सुपः अन्त्यस्य हलः पकारः इत्, तथा ʻतस्य लोपःʼ इत्यनेन सूत्रेण
तस्य लोपः), >
ज्ञाने सु (बहुवचने झलादौ सुपि परे ʻबहुवचने झल्येत्ʼ इत्यनेन सूत्रेण ʻज्ञानʼ
इत्यस्य अन्त्यस्य अकारस्य स्थाने एकारादेशः),
> ज्ञानेषु (ʻआदेशप्रत्यययोःʼ
इत्यनेन सूत्रेण इण्-प्रत्याहारस्य एकारात् प्रत्ययस्य ʻसुʼ इत्यस्य सकार-स्थाने
षकारादेशे ʻज्ञानेषुʼ इति रूपं
सिद्धम्)।
Comments
Post a Comment