1st Sem, कादम्बरी (शुकनासोपदेशः) संक्षिप्तमुत्तरम्—
1st
Sem, कादम्बरी
(शुकनासोपदेशः)
संक्षिप्तमुत्तरम्—
१. किं नाम काव्यम्? कतिविधं च तत्?
उत्तरम्— ʻकवेः कर्मʼ इति काव्यम्। काव्यं प्रथमतः द्विविधम्—दृश्यं
श्रव्यं चेति। दृश्यम् अभिनेयम्।
श्रव्यकाव्यं
त्रिविधम्—गद्यं, पद्यं, चम्पूश्चेति।
२. किं नाम
गद्यम्? गद्यकाव्यस्य प्रशंसासूचकं वाक्यमेकं लिख्यताम्।
उत्तरम्— ʻअपाद-पदसन्तानो गद्यम्।ʼ अपवा, ʻवृत्तगन्धोज्झितं काव्यं
गद्यम्।ʼ
गद्यकाव्यस्य
प्रशंसासूचकं वाक्यमेकम्-- ʻगद्यं कवीनां निकषं वदन्ति।ʼ
३. संस्कृत-गद्यकाव्यस्य
कति भेदाः?
उत्तरम्— संस्कृत-गद्यकाव्यस्य द्वौ मुख्यौ भेदौ—कथा आख्यायिका
चेति।
एतद्व्यतिरिक्ताः
खण्डकथा, परिकथा, कथानिका चेति त्रयः भेदा अपि सन्ति।
४.
संस्कृत-गद्यकाव्यस्य प्राचीनतमं निदर्शनं कुत्र उपलभ्यते?
उत्तरम्-- संस्कृत-गद्यकाव्यस्य प्राचीनतमं निदर्शनं
कृष्णयजुर्वेदस्य तैत्तिरीयसंहिताम् उपलभ्यते।
५. संस्कृतसाहित्यस्य
कतिपय-प्राचीनगद्यस्य नाम लिखत।
उत्तरम्—पतञ्जलेः महाभाष्ये वासवदत्ता, सुमनोत्तरा, भैमरथी च
इत्येतेषां गद्यकाव्यानां नामानि उलभ्यन्ते। उत्तरकाले वररुचेः चारुमती,
रामिल-सोमिलयोः शूद्रककथा, रुद्र-रचिता त्रैलोक्यसुन्दरी, अज्ञातनाम-कवीनां शातकर्णीहरणम्, मनोवती,
तरङ्गवती इत्यादीनां गद्यकाव्यानां नामानि अपि लभ्यन्ते। बाणभट्टेन आढ्यराजस्य
भट्टार-हरिचन्द्रस्य गद्यकाव्यस्य प्रशंसा कृता।
६. संस्कृतगद्यसाहित्यस्य के तावत् ʻत्रयीʼ इत्युच्यते?
उत्तरम्— संस्कृतगद्यसाहित्यस्य सुबन्धुः, बाणभट्टः, दण्डी चेति
प्रख्याताः त्रयः कवयः ʻत्रयीʼ इत्युच्यते।
७. क आसीद् बाणभट्टः? तस्य काव्याणां नामानि लिखत।
उत्तरम्—संस्कृत-गद्यसाहित्यस्य सर्वश्रेष्ठः कविः बाणभट्टः।
बाणभट्ट-रचितं गद्यकाव्यद्वयं यथा—कादम्बरी, हर्षचरितम् चेति।
८. बाणभट्टस्य
आविर्भावकालः कः?
उत्तरम्— पण्डितानां
मतानुसारेण बाणभट्टस्य आविर्भावकालः षष्ठ-ख्रीष्टाब्दस्य शेषार्धः।
९. बाणभट्टस्य
आदिनिवासः कुत्रासीत्?
उत्तरम्— कान्यकुब्ज-देशस्य शोण-नद्याः पश्चिमे तटे प्रीतिकूट इति
ग्रामे बाणभट्टस्य आदिनिवासः आसीत्।
१०. बाणभट्टस्य मातापित्रोः नामनी लिखत।
उत्तरम्—बाणभट्टस्य पिता चित्रभानुः, माता च राजदेवी इति।
११. बाणभट्टस्य
प्रशंसासूचकं वाक्यमेकं लिख्यताम्।
उत्तरम्-- बाणभट्टस्य प्रशंसासूचकं वाक्यं यथा-- ʻबाणी बाणो बभूवʼ
इति। ʻबाणस्तु पञ्चाननःʼ।
१२. बाणभट्टस्य
पुत्रस्य नाम किम्?
उत्तरम्-- बाणभट्टस्य पुत्रस्य नाम भूषणभट्टः। भूषणबाणः, पुलिन्दः,
पुलिनः इति तस्य नामान्तराणि।
१३.
कादम्बरी-काव्यस्य प्रशंसासूचकं वाक्यमेकं लिख्यताम्।
उत्तरम्-- ʻकादम्बरीरसज्ञानामाहारोऽपि न रोचते।ʼ
१४. कादम्बरी-काव्यस्य नायक-नायिकयोः नामनी लिखत।
उत्तरम्-- कादम्बरीकाव्यस्य नायकः चन्द्रापीडः, नायिका च कादम्बरी।
१५. का उच्यते अतिद्वयीकथा?
उत्तरम्—पण्डितानां मतानुसारेण बाणभट्टस्य कादम्बरी
काव्यगुणोत्कर्षेण गुणाढ्य-रचितां बृहत्कथाम्, तथा सुबन्धु-रचितां वासवदत्ताम्
अतिक्रामति। अस्मात् कारणात् कादम्बरी ʻअतिद्वयीकथाʼ इत्युच्यते।
१६. क आसीत् तारापीडः? का आसीत् तस्य महिषी?
उत्तरम्— तारापीडः उज्जयिन्याः नगर्याः राजा आसीत्। तस्य महिषी आसीत् विलासवती।
१७. क आसीत् चन्द्रापीडः?
१७. क आसीत् चन्द्रापीडः?
उत्तरम्-- उज्जयिन्याः नगर्याः राज्ञः तारापीडस्य पुत्रः आसीत्
चन्द्रापीडः। स कादम्बरी-काव्यस्य नायकः।
१८. क आसीत्
शुकनासः? का आसीत् तस्य महिषी?
उत्तरम्— उज्जयिन्याः नगर्याः राज्ञः तारापीडस्य मन्त्री आसीत्
शुकनासः। तस्य महिषी आसीत् मनोरमा।
१९. क आसीत्
वैशम्पायनः?
उत्तरम्—वैशम्पायनः उज्जयिन्याः नगर्याः राज्ञः तारापीडस्य
मन्त्रिणः शुकनासस्य पुत्रः आसीत्।
स
चन्द्रापीडस्य प्रियसखा।
२०. ʻशुकनासोपदेशःʻ
इति पाठ्यांशे कः कम् उपदिष्टवान्?
उत्तरम्-- ʻशुकनासोपदेशःʻ
इति पाठ्यांशे शुकनासः चन्द्रापीडम्म् उपदिष्टवान्।
२१. कदा
बुद्धिः कालुष्यमुपयाति?
उत्तरम्—यौवनारम्भे बुद्धिः प्रायः कालुष्यमुपयाति।
२२. ʻभवादृशा
एव भवन्ति भाजनान्युपदेशानाम्।ʼ
--केन कं
प्रति इदमुक्तम्?
उत्तरम्-- ʻशुकनासोपदेशःʻ इति पाठ्यांशे शुकनासेन चन्द्रापीडं प्रति
इदमुक्तम्।
२३. केषाम्
उपदेष्टारः विरलाः?
उत्तरम्—राज्ञाम् उपदेष्टारः विरलाः।
२४. गुरूपदेशस्य गुणद्वयं लिख्यताम्।
उत्तरम्—गुरूपदेशं नाम पुरुषाणाम् अखिल-मल-प्रक्षालनम् अजलं स्नानम्
च।
२५. राजलक्ष्म्याः दोषद्वयम् उल्लिख्यताम्।
उत्तरम्—राजलक्ष्मीः न परिचयं
रक्षति, न शीलं पश्यति।
२६. राजलक्ष्मीः कस्य प्रतीकम्?
उत्तरम्-- राजलक्ष्मीः धनसम्पदः प्रतीकम्।
२७. कादम्बरी कीदृशं काव्यम्?
उत्तरम्—कादम्बरी कथाजातीयं गद्यकाव्यम्।
२८. कादम्बर्याः वृत्तान्तं कस्माद् गृहीतम्?
उत्तरम्-- कादम्बर्याः वृत्तान्तं गुणाढ्यस्य बृहत्कथायाः गृहीतम्।
कथासरित्सागरस्य उनषष्टितमे तरङ्गे वर्णितम् राज्ञः सुमनसेनस्य वृत्तान्तम्
अवलम्ब्य कादम्बर्याः आख्यानभागः विन्यस्तः।
२९. कादम्बर्याः कति भागाः?
उत्तरम्—कादम्बर्याः भागद्वयमस्ति—पूर्वार्धः उत्तरार्धश्चेति।
पूर्वार्धस्य रचयिता बाणभट्टः, उत्तरार्धस्य च रचयिता तस्य पुत्रः भूषणभट्टः।
३०. ʻप्रीतिहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम।ʼ
-- कः
स्वभवनमाजगाम?
उत्तरम्—चन्द्रापीडः स्वभवनमाजगाम।
३१. जनः राजवचनं कथम् अनुगच्छति?
उत्तरम्—जनः भयात् राजवचनम् अनुगच्छति।
३२. राजप्रकृतिः कीदृशी?
उत्तरम्—अहङ्कार-दाहज्वर-मूर्छान्धकारिता विह्वला हि राजप्रकृतिः।
३३. सन्धिविच्छेदः क्रियताम्—
एवाभानुभेद्यमरत्नालोकच्छेद्यमप्रदीपप्रभापनेयमतिगहनम्।
—एव +
अभानुभेद्यम् + अरत्नालोक + छेद्यम्
+ अप्रदीपप्रभापनेयम् + अतिगहनम्।
+ अप्रदीपप्रभापनेयम् + अतिगहनम्।
कष्टमनञ्जवर्तिसाध्यमपरमैश्वर्यतिमिरान्धत्वम्।
उत्तरम्—कष्टम्
+ अनञ्जनवर्तिसाध्यम् + अपरम्
+ ऐश्वर्यतिमिरान्धत्वम्।
+ ऐश्वर्यतिमिरान्धत्वम्।
विस्तराणाभिधीयसे। -- विस्तरेण + अभिधीयसे।
गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिरूपत्वममानुषशक्तित्वं
चेति।
-- गर्भेश्वरत्वम्
+ अभिनवयौवनत्वम् + अप्रतिरूपत्वम्
+ अमानुषशक्तित्वम् + च ऋ इति।
+ अमानुषशक्तित्वम् + च ऋ इति।
सततमतिदूरन्तेयमुपभोगमृगतृष्णिका।
-- सततम् अतिदूरन्ता
+ इयम् + उपभोगमृगतृष्णिका।
सलिलानीव। --सलिलानि + इव।
तान्येव।– तानि + एव।
विषस्वरूपाण्यास्वाद्यमानानि।
--विषस्वरूपाणि + आस्वाद्यमानानि।
मधुरतराण्यापतन्ति।–मधुरतराणि + आपतन्ति।
पुरुषमत्यासङ्गो विषयेषु।
– पुरुषम् + अत्यासङ्गः + विषयेषु।
भाजनान्युपदेशानाम्।– भाजनानि + उपदेशानाम्।
सकलमतिमलिनमप्यन्धकारमिव।
– सकलम् +
अतिमलिनम् + अपि + अन्धकारम् + इव।
चामरपवनैरिवापह्रियते।– चामरपवनैः + इव + अपह्रियते।
नाभिजनमीक्षते।– न + अभिजनम् + ईक्षते।
रूपमालोकयते। -- रूपम् + आलोकयते।
कुलक्रममनुवर्तते।–कुलक्रमम् + अनुवर्तते।
गन्धर्वनगरलेखेव।–गन्धर्वनगरलेखा + इव।
वसुजनन्यपि।– वसुजननी + अपि।
Comments
Post a Comment