3rd sem, C-6, मनुसंहिता (संक्षिप्तम् प्रश्नोत्तरम्)
3rd
sem, C-6, मनुसंहिता
(संक्षिप्तम् प्रश्नोत्तरम्)
१. मनुसंहिता किंजातीयकः
ग्रन्थः? अस्य ग्रन्थस्य द्वयोः टीकयोः टीकाकारयोश्च नाम लिखत।
उत्तरम्—मनुसंहिता स्मृतिशास्त्रजातीयः ग्रन्थः। अयं धर्मशास्त्रोऽपि
उच्यते।
मनुसंहितायाः द्वे टीके यथा—मनुभाष्यम्, मन्वर्थमुक्तावली
च। मनुभाष्यस्य रचयिता मेधातिथिः। मन्वर्थमुक्तावल्याः रचयिता कुल्लूकभट्टः।
अन्याश्च टीकाः—गोविन्दराजस्य मनुटीका, सर्वज्ञनारायणस्य
मन्वर्थविवृतिः, नन्दनस्य मनुव्याखायनम् (नन्दिनी), राघवानन्द-सरस्वत्याः
मन्वर्थचन्द्रिका।
२. कैः सेवितः धर्मः?
उत्तरम्—अद्वेषरागिभिः सद्भिः विद्वद्भिः नित्यं सेवितः धर्मः।
३. किं तावत् कामनानां
मूलम्?
उत्तरम्—सङ्कल्प एव कामनानां मूलम्।
४. के तावद् विषयाः
सङ्कल्पाद् जायन्ते?
उत्तरम्-- सर्वे यज्ञाः, व्रतानि, यमधर्माश्च सङ्कल्पादेव जायन्ते।
५. किं तावद् धर्ममूलम्?
उत्तरम्—अखिलः वेदः, वेदज्ञानां स्मृतिशीले, साधूनाम् आचारः, आत्मनः
तुष्टिश्च धर्मस्य मूलम्।
६. का नाम श्रुतिः, का च
स्मृतिः?
उत्तरम्—श्रुतिस्तु वेदो विज्ञेयः, धर्मशास्त्रं तु वे स्मृतिः।
७. क उच्यते नास्तिकः?
उत्तरम्—यः द्विजः हेतुशास्त्राश्रयात् धर्ममूले श्रुतिस्मृती
अवमन्येत, स वेदनिन्दकः नास्तिकः इत्युच्यते।
८. किं तावद् धर्मस्य
साक्षात् लक्षणम्?
उत्तरम्—वेदः, स्मृतिः, सदाचारः, अन्तरात्मनः प्रियं चेति चतुर्विधं
धर्मस्य साक्षात् लक्षणम्।
९. केषां जनानां
धर्मज्ञानं जायते?
उत्तरम्— ये खलु जनाः धर्मकामेषु असक्ताः तेषां धर्मज्ञानं जायते।
१०. ब्रह्मावर्तदेशं
कुत्रावस्थीयते?
उत्तरम्—सरस्वती दृषद्वती चेति देवनद्योः अन्तरं यः देशः आसीत् स
ब्रह्मावर्तः इति प्रचक्षते।
११. सदाचारः क उच्यते?
उत्तरम्— ब्रह्मावर्तदेशे ब्राह्मणादिवर्णानां सङ्कीर्णजातीनां मध्ये
पारम्पर्यक्रमागतः यः आचारः स सदाचारः उच्यते।
१२. कः खलु ब्रह्मर्षिदेशः?
उत्तरम्—कुरुक्षेत्रं, मत्स्याः, पञ्चालाः, शूरसेनकाः, इति प्रदेशाः
ब्रह्मर्षिदेशः इत्युच्यते।
१३. कः खलु मध्यदेशः?
उत्तरम्—यत् क्षेत्रं हिमवद्-विन्ध्ययोः मध्यं, विनशनात् प्राक्, प्रयागाच्च
प्रत्यक् आसीत्, तत् मध्यदेशः उच्यते।
१४. आर्यावर्तस्य सीमा
लिख्यताम्।
उत्तरम्—आ पूर्वसमुद्रात्, आ पश्चिमसमुद्रात्, हिमवद्-विन्ध्ययोः
पर्वतयोः मध्यवर्ती यः भूभागः स आर्यावर्तः इत्यभिधीयते।
१५. क उच्यते यज्ञियो देशः?
उत्तरम्—कृष्णसारः मृगः यत्र स्वभावतः विचरति स यज्ञियो देशः
इत्युच्यते।
१६. कस्तावत् म्लेच्छदेशः?
उत्तरम्—आर्यावर्तादिदेशेभ्यः भिन्नः अनार्यैः अध्युषितः देशः
म्लेच्छदेशः इत्युच्यते।
१७. क उच्यते स्वाध्यायः?
उत्तरम्—सुष्ठु आवृत्य अध्यायः वेदाध्ययनमिति स्वाध्यायः।
आवृत्तिपूर्वकं वेदाध्ययनं हि स्वाध्यायः।
शब्दरत्नावल्यामुक्तम्-- ʻस्वाध्यायः जप इत्युक्तो
वेदाध्ययनकर्मणि।ʼ
१८. जातकर्म कदा क्रियते?
उत्तरम्—शिशोः जन्मनः परं नाभिच्छेदनात् प्राक् जातकर्म विधीयते।
तदा ततस्य स्वगृह्योक्तमन्त्रैः स्वर्णमधुधृतानां प्राशनं क्रियते।
१९. नामकरणं कदा क्रियते?
उत्तरम्—जन्मनः प्रभृति दशमे द्वादशे वा अहनि शिशोः नामकरणं
करणीयम्। तदसम्भवे पुण्ये तिथौ, प्रशस्ते मुहूर्ते, नक्षत्रे च शिशोः नामकरणं
करणीयम्।
२०. स्त्रीणां नामकरणं
कीदृक् भवेत्?
उत्तरम्-- स्त्रीणां नामकरणं सुखोच्चार्यम्, अक्रूरम्, विस्पष्टार्थम्,
मनोहरम्, मङ्गलवाचकम्, दीर्घवर्णान्तम्, आशीर्वादवाचकम् च भवेत्।
२१. के उच्यन्ते ब्रात्याः?
उत्तरम्—ब्राह्मणस्य षोडशवर्षपर्यन्तं, क्षत्रियस्य द्वाविंशतिवर्षपर्यन्तं,
वैश्यस्य च चतुर्विंशतिवर्षपर्यन्तम् इति उपनयनकाले अतिक्रान्ते सति ते सर्वे
सावित्रीपतिताः ब्रात्याः भवन्ति।
२२. अतिभोजनस्य दोषः
कीदृशः?
उत्तरम्—अतिभोजनम् अनारोग्यम्, अनायुष्यम्, अस्वर्ग्यं
लोकविद्विष्टं च।
२३. अतिभोजनं कथं
वर्जनीयम्?
उत्तरम्-- अतिभोजनम् अनारोग्यम्, अनायुष्यम्, अस्वर्ग्यं
लोकविद्विष्टं च। तस्मात् तत् वर्जनीयम्।
२४. क उच्यते
ब्रह्माञ्जलिः?
उत्तरम्—वेदाध्ययनस्य आरम्भे समाप्तौ च गुरोः पादौ ग्राह्यौ, हस्तौ
संहत्य अध्येतव्यम्, स एव ब्रह्माञ्जलिः इत्युच्यते।
२५. ʻऔम्ʼ इति शब्दस्य के
तावद् अवयवाः?
उत्तरम्-- ʻऔम्ʼ इति शब्दस्य त्रयः अवयवाः। यथा—अ उ म्।
२६. किं तावद्
व्याहृतित्रयम्?
उत्तरम्—भूः, भुवः,स्वः इति व्याहृतित्रयम्।
२७. के खलु पाकयज्ञाः?
उत्तरम्—पाकयज्ञाः चत्वारः। यथा—वैश्वदेवहोमः, वलिकर्म,
नित्यश्राद्धः, अतिथिभोजनं च।
२८. कानि तावद् एकादश
इन्द्रियाणि?
उत्तरम्—श्रोत्रं, त्वक्, चक्षुषी, जिह्वा, नासिका चेति पञ्च; पायु,
उपस्थः, हस्तः, पादः, वाक् चेति पञ्च; एषां सम्मिलितम् रूपं दश। एकादश इन्द्रियं
तु मनः।
२९. ज्ञानेन्द्रियाणि
कतिविधानि?
उत्तरम्—ज्ञानेन्द्रियाणि पञ्च। यथा-- श्रोत्रं, त्वक्, चक्षुषी,
जिह्वा, नासिका चेति।
३०. कर्मेन्द्रियाणि
कतिविधानि?
उत्तरम्—कर्मेन्द्रियाणि पञ्च। यथा-- पायु, उपस्थः, हस्तः, पादः,
वाक् चेति।
३१. किं खलु उभयात्मकम्
इन्द्रियम्? कथं तद् एवमुच्यते?
उत्तरम्-- उभयात्मकम् इन्द्रियं खलु मनः। मनः ज्ञानेन्द्रिय-करमेन्द्रिययोः
उभयोः वैशिष्ट्ययुक्तम्। अतः तद् उभयात्मकम् इन्द्रियम् इत्यच्यते।
३२. कः खलु जितेन्द्रियः?
उत्तरम्—यः स्तुतिवाक्यं निन्दाव्क्यं श्रुत्वा, सुखस्पर्शं
दुःखस्पर्शं च विषयं स्पृष्ट्वा, सुरूपं कुरूपं च दृष्ट्वा, स्वादु अस्वादु च
भुक्त्वा, सुरभिम् असुरभिं च ध्रात्वा न हृष्यति, न च ग्लायति, स जितेन्द्रियः
इत्युच्यते।
३३. के तावद् जनाः
अध्याप्याः? के च न अध्याप्याः?
उत्तरम्—आचार्यपुत्रः, शुश्रूषुः, ज्ञानदः, धार्मिकः, शुचिः,
बान्धवः, ग्रहणधारणसमर्थः, अर्थदः, साधुः (अद्रोही), ज्ञातिश्चेति दश धर्मतः
अध्याप्याः।
यस्मिन् शिष्ये अध्यापिते
धर्मार्थौ न भवतः, अध्ययनानुरूपा शुश्रूषा वा न स्यात्, स शिष्यः न
अध्याप्यः।
घोरायाम् आपद्यपि अपात्रे विद्या न दातव्या।
३४. कुत्र विद्या न
वक्तव्या?
उत्तरम्-- यत्र धर्मार्थौ न भवतः, अध्ययनानुरूपा शुश्रूषा वा न
स्यात्, तत्र विद्या न वक्तव्या।
३५. कस्मै विद्या दातव्या?
उत्तरम्—शुचये संयताय ब्रह्मचारिणे विप्राय विद्या दातव्या।
३६. कानि तावत्
मान्यस्थानानि?
उत्तरम्—वित्तं, पितृव्यादिबन्धुः, वयः, कर्म्, विद्या चेति पञ्च
मान्यस्थानानि। एतेषां यद् यदुत्तरं तत् तद् गरीयः।
३७. क उच्यते आचार्यः?
उत्तरम्—यो ब्राह्मणः शिष्यमुपनीय सकल्पं सरहस्यं च वेदम् अध्यापयति,
स आचार्यः इत्युच्यते।
३८. क उच्यते उपाध्यायः?
उत्तरम्-- यो ब्राह्मणः वृत्त्यर्थम् वेदस्य एकदेशं, वेदाङ्गानि वा
अध्यापयति, स उपाध्यायः इत्युच्यते।
३९. क उच्यते गुरुः?
उत्तरम्—यो ब्राह्मणः यथाविधि निषेकादीनि कर्माणि करोति, अन्नेन च
संवर्धयति, स गुरुः उच्यते।
४०. क उच्यते ऋत्विक्?
उत्तरम्—यथाशास्त्रं वृतः सन् यो ब्राह्मणः यस्य अग्न्याधेयं,
पाकयज्ञान्, अग्निष्टोमादीन् यज्ञान् करोति, स तस्य ऋत्विक् उच्यते।
४१. मनोः मते कानि तावत्
श्रेयांसि?
उत्तरम्-- मनोः मते धर्मः, अर्थः, कामश्चेति त्रयोऽपि अविरुद्धाः
श्रेयांसि।
४२. के न अवमन्तव्याः?
उत्तरम्—आचार्यः, पिता, माता, ज्येष्ठः भ्राता च न अवमाननीयाः।
४३. मातापितरौ प्रति
सन्तानस्य व्यवहारः कीदृशः भवेत्?
उत्तरम्—सन्तानः सर्वदा मातापित्र्योः प्रियं कुर्यात्।
४४. मनोः मते कस्तावत् श्रेष्ठः धर्मः?
उत्तरम्-- मनोः मते आचार्यस्य, मातुः, पितुश्च शुश्रूषा एव श्रेष्ठः
धर्मः।
४५. कानि तावत् सर्वस्मात्
समादेयानि?
उत्तरम्—स्त्रियः, रत्नानि, विद्या, धर्मः, शुचिता, सुभाषितम्,
अदुष्टानि शिल्पानि च सर्वतः एव
समादेयानि।
Comments
Post a Comment