गणविश्लेषणं कृत्वा छन्दसः नाम संज्ञां च लिखत। (Scan, Name and Define) (2nd sem, c-3, Unit-I, छन्दोमञ्जरी (समवृत्तम्)--CBPBU
गणविश्लेषणं
कृत्वा छन्दसः नाम संज्ञां च लिखत।
(Scan, Name and Define)
(2nd sem, c-3, Unit-I, छन्दोमञ्जरी (समवृत्तम्)--CBPBU
१. पूर्वं त्वयाप्यभिमतं तमेवमासीत् ।
गणविश्लेषणम्—
-- -- ◡ -- ◡ ◡ ◡ -- ◡ ◡ -- ◡ -- --
गणविश्लेषणम्—
-- -- ◡ -- ◡ ◡ ◡ -- ◡ ◡ -- ◡ -- --
पू र्वं त्व
/ या प्य भि / म तं ग / त मे व / मा / सीत् ।
त भ ज ज
ग ग
छन्दसः नाम-- अत्र त भ ज ज ग ग इति गणानां क्रमानुसारेण
विद्यमानत्वात् वसन्ततिलकम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्—
ʻज्ञेयं
वसन्ततिलकं तभजा जगौ गःʼ इति।
२. चित्रे
निवेश्य परिकल्पितसत्त्वयोगा।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- --
◡ -- ◡ ◡ ◡ --
◡ ◡ -- ◡ -- --
चि
त्रे नि / वे श्य प /
रि क ल्पि / त स त्त्व / यो / गा ।
त भ ज ज ग ग
छन्दसः नाम-- अत्र त भ ज ज ग ग इति गणानां क्रमानुसारेण
विद्यमानत्वात् वसन्ततिलकम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य
लक्षणं कृतम्—
ʻज्ञेयं
वसन्ततिलकं तभजा जगौ गःʼ इति ।
वसन्ततिलकछन्दसः केचित् श्लोकांशाः—
१. रम्याणि वीक्ष्य मधुरांश्च
निशम्य शब्दान्।
२. वैखानसं किमनया
व्रतमाप्रदानात्।
३. वाचं न मिश्रयति यद्यपि
मद्वचोभिः।
४. दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे।
५. सायन्तने सवनकर्मणि
संप्रवृत्ते।
६. यात्येकतोऽस्तशिखरं
पतिरोषधीनाम्।
७. अन्तर्हिते शशिनि सैव कुमुद्वती
मे।
८. रम्यान्तरः कमलिनीपरितैः
सरोभिः।
९. शान्तानुकूल-पवनश्च शिवश्च
पन्थाः।
१०.
सङ्कल्पितं प्रथममेव मया तवार्थे।
११.
औत्सुक्यमात्रमवसादयति प्रतिष्ठा।
३. . नैवेदानीं
दुःखिताश्चक्रवाकाः।
गणविश्लेषणम्--
गणविश्लेषणम्--
-- -- -- -- --
◡ -- --
◡ -- --
नै वे दा / नीं दुः खि / ता
श्च क्र / वा/ काः। म त त ग ग
छन्दसः नाम-- अत्र त म त त ग ग इति गणानां क्रमानुसारेण
विद्यमानत्वात् शालिनी इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻमात्तौ गौचेच्छालिनी वेदलोकैःʼ इति
४. सा निन्दन्ती स्वानि
भाग्यानि वाला।
गणविश्लेषणम्--
गणविश्लेषणम्--
--
-- -- --
-- ◡ --
-- ◡ --
--
सा नि न्द / न्ती स्वा नि / भा ग्या नि / वा / ला
।
म त त ग
ग
छन्दसः नाम-- अत्र त म त त ग ग इति गणानां क्रमानुसारेण
विद्यमानत्वात् शालिनी इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻमात्तौ गौचेच्छालिनी वेदलोकैःʼ इति
।
अनुशीलनार्थं प्रदत्तम्—
१. वाहूत्क्षेपं क्रन्दितुं च
प्रवृत्ता।
२. उत्क्षिप्यैनां ज्योतिरेकं
जगाम
५. अर्थो
हि कन्या परकीय एव।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- -- ◡ --
-- ◡ ◡ --
◡ -- -- (पादान्तगुरुः)।
अ र्थो हि / क न्या प / र की
य / ए / व।
त त ज ग ग
छन्दसः
नाम-- अत्र त त ज
ग ग इति गणानां क्रमानुसारेण विद्यमानत्वात् अत्र इन्द्रवज्रा इति छन्दः
प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्—
ʻस्यादिन्द्रवज्रा यदि तौ जगौ गःʼ इति ।
अनुशीलनार्थं प्रदत्तम्—
१. यूथानि सञ्चार्य रविप्रतप्तः।
२. शीतं गुहास्थनमिव द्विपेन्द्रः।
६. उपेन्द्रवज्रादिमणिच्छटाभिः
◡ -- ◡
-- -- ◡ ◡ -- ◡
-- --
गणविश्लेषणम्—
उ पे न्द्र / व ज्रा दि/ म णि च्छ / टा / भिः।
ज त ज ग ग
छन्दसः
नाम-- अत्र ज त ज
ग ग इति गणानां क्रमानुसारेण विद्यमानत्वात् अत्र उपेन्द्रवज्रा इति छन्दः
प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्—
ʻउपेन्द्रवज्रा प्रथमे लघौ साʼ इति ।
अनुशीलनार्थं प्रदत्तम्—
१. प्रजाःप्रजाःस्वा इव तन्त्रयित्वा।
२. निषेवते श्रान्तमना विविक्तम्।
७. एवमाश्रमविरुद्धवृत्तिना
--
◡ -- ◡ ◡ ◡ -- ◡ --
◡ --
गणविश्लेषणम्—
ए व मा / श्र म वि / रु द्ध वृ / त्ति / ना ।
र न र ल
ग
छन्दसः
नाम-- अत्र र न र
ल ग इति गणानां क्रमानुसारेण विद्यमानत्वात् अत्र रथोद्धता इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्—
ʻरात् परैर्नरलगै रथोद्धताʼ इति ।
८. अभिमुखे
मयि संहृतमीक्षितं
◡ ◡
◡ -- ◡ ◡ -- ◡ ◡
-- ◡ --
गणविश्लेषणम्—
अ भि मु / खे म यि / सं हृ त / मी क्षि तं ।
न भ भ र
छन्दसः नाम-- अत्र न भ भ र इति गणानां क्रमानुसारेण विद्यमानत्वात्
द्रुतविलम्बितम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻद्रुतविलम्बितमाह
नभौ भरौʼ इति ।
अनुशीलनार्थं प्रदत्तम्—
१. यदि यथा वदति क्षितिपस्तथा।
२. पतिकुले तव दास्यमपि वरम्।
३. नवपलाशपलाशवनं पुरः।
९. इदं
किलाव्याजमनोहरं वपु-
◡ -- ◡ --
-- ◡ ◡ --
◡ -- ◡ --
गणविश्लेषणम्—
इ दं कि / ला व्या ज / म नो ह / रं व पुस्
ज त ज र
छन्दसः नाम-- अत्र ज त ज र इति गणानां क्रमानुसारेण विद्यमानत्वात्
अत्र वंशस्थविलम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻवदन्ति
वंशस्थविलं जतौ जरौʼ इति ।
अनुशीलनार्थं प्रदत्त
१. असंशयं क्षत्रपरिग्रहक्षमा।
२. शमीलतां छेत्तुमृषिर्व्यवस्यति।
३. श्रिया दुरापः कथमीप्सितो
भवेत्।
४. भवन्ति नम्रास्तरवः फलागमैः।
५. अनुद्धताः सत्पुरुषाः
समृद्धिभिः।
६. शकुन्तला मूर्तिमती च
सत्क्रिया।
७. त्वमर्हतां प्राग्रहरः स्मृतोऽसि
नः।
८. सतीमपि ज्ञातिकुलैकसंश्रयां।
९. अतः समीपे परिनेतुरिष्यते।
१०.
प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः।
११.
सतां हि सन्देहपदेषु वस्तुषु।
१२.
विचिन्तयन्ती यमनन्यमानसा।
१०. यमुनातटमच्युतकेलिकला
◡ ◡ -- ◡ ◡ --
◡ ◡ -- ◡ ◡ --
गणविश्लेषणम्— य
मु ना / त ट म / च्यु
त के / लि क ला
स स स स
छन्दसः नाम-- अत्र चतुर्णां स-गणानां क्रमानुसारेण विद्यमानत्वात् अत्र तोटकम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻवद तोटकमब्धिसकारयुतम्ʼ इति ।
११. प्रवर्ततां प्रकृतिहिताय पार्थिवः।
गणविश्लेषणम्—
गणविश्लेषणम्—
◡ -- ◡
-- ◡ ◡ ◡ ◡
-- ◡ -- ◡
--
प्र व र्त / तां प्र कृ / ति हि ता / य पा र्थि / वः
।
ज भ स ज ग
छन्दसः नाम-- अत्र ज भ स ज ग इति गणानां क्रमानुसारेण विद्यमानत्वात्
अत्र रुचिरा इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻजभौ सजौ गिति
रुचिरा चतुर्ग्रहैःʼ इति ।
१२. एष
त्वामभिनवकण्ठशोणितार्थी।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- --
-- ◡ ◡
◡ ◡ --
◡ ◡ --
◡ --
ए ष त्वा / म भि न / व क ण्ठ / शो णि
ता / र्थी
म न ज र ग
छन्दसः नाम-- अत्र म न ज र ग इति गणानां क्रमानुसारेण विद्यमानत्वात्
अत्र प्रहर्षिणी इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻत्र्याशाभिर्मनजरगा प्रहर्षिणीयम् ʼ
इति ।
१३. सरसिजमनुविद्धं
शैवलेनापि रम्यं।
गणविश्लेषणम्—
गणविश्लेषणम्—
◡ ◡
◡ ◡ ◡ ◡ -- --
-- ◡ -- --
◡ -- --
स र सि / ज म नु / वि द्धं शै
/ व ले ना / पि र म्यं ।
न न म य य
छन्दसः नाम-- अत्र न न म य य इति गणानां क्रमानुसारेण विद्यमानत्वात्
अत्र मालिनी इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻन न म य य युतेयं
मालिनी भोगिलोकैःʼ इति ।
अनुशीलनार्थं प्रदत्तम्—
१.
गिरिचर इव नागः प्राणसारं विभर्त्ति।
२.
न खलु न खलु वाणः सन्निपात्योऽयमस्मिन्।
३.
अध्याक्रान्ता वसतिरमुनाप्यश्रमे सर्वभोग्ये।
४.
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम्।
५.
स्वसुखनिरभिलाषः स्विद्यसे लोकहेतोः।
६.
नियमयसि विमार्गप्रस्थातानात्तदण्डः।
१४. महाभागः
कामं नरपतिरभिन्नस्थितिरसौ।
गणविश्लेषणम्—
◡ -- -- -- -- -- ◡ ◡◡ ◡ ◡ -- -- ◡ ◡
गणविश्लेषणम्—
◡ -- -- -- -- -- ◡ ◡◡ ◡ ◡ -- -- ◡ ◡
म
हा भा / गः का मं / न
र प / ति र भि / न्न स्थि ति /
◡ --
र / सौ ।
◡ --
र / सौ ।
य म न स भ ल
ग
छन्दसः नाम-- अत्र य म न स भ ल ग इति गणानां क्रमानुसारेण
क्रमानुसारेण विद्यमानत्वात् अत्र शिखरिणी
इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻरसै
रुद्रैश्छिन्ना यमनसभलागः शिखरिणीʼ इति
।
अनुशीलनार्थं प्रदत्तम्—
१.
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं।
२.
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः।
३.
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव।
१५. कश्चित्
कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः।
गणविश्लेषणम्—
गणविश्लेषणम्—
-- --
-- -- ◡ ◡ ◡ ◡ ◡
-- -- ◡
-- -- ◡
-- --
क
श्चित् का / न्ता वि र
/ ह गु रु / णा / स्वा
/ धि का र / प्र
म त्तः । म भ न ग
ग य य
छन्दसः नाम-- अत्र म भ न ग ग य य इति गणानां क्रमानुसारेण
विद्यमानत्वात् अत्र मन्दाक्रान्ता इति
छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻमन्दाक्रान्ताम्बुधिरसनगैर्मो
भनौ गौ ययुग्मम्ʼ इति ।
अनुशीलनार्थं प्रदत्तम्—
१. धर्मारण्यं प्रविशति गजः
स्यन्दनालोकभीतः।
१६. पातुं
न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या।
गणविश्लेषणम्— -- -- -- ◡ ◡ -- ◡ -- ◡ ◡ ◡ -- -- -- ◡ -- -- ◡ --
गणविश्लेषणम्— -- -- -- ◡ ◡ -- ◡ -- ◡ ◡ ◡ -- -- -- ◡ -- -- ◡ --
पा
तुं न / प्र थ मं / व्य
व स्य / ति ज लं / यु ष्मा स्व / पी ते षु / या ।
म स ज स त त ग
छन्दसः नाम-- अत्र म स ज स त
त ग इति गणानां क्रमानुसारेण विद्यमानत्वात् अत्र शार्दूलविक्रीडितम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻसूर्याश्वैर्मसजसस्तताः सगुरवः
शार्दूलविक्रीडितम्ʼ इति ।
अनुशीलनार्थं प्रदत्तम्—
१. क्षौमं केनचिदिन्दुपाण्डुतरुणा
माङ्गल्यमाविष्कृतं।
२. यास्यत्यद्य शकुन्तलेति हृदयं
संस्पृष्टमुत्कण्ठया।
३. अस्मान् साधु विचिन्त्य
संयमधनानुच्चैःकुलञ्चात्मनः।
४. शुश्रूषस्व गुरून् कुरु
प्रियसखीवृत्तिं सपत्नीजने।
५. किं तावद् व्रतिनामुपोढतपसां विघ्नैस्तपो
दूषितं।
१७. या
सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
गणविश्लेषणम्—
-- -- -- -- ◡ -- -- ◡ ◡ ◡ ◡
◡ ◡ -- --
◡ -- -- ◡
-- --
या सृ ष्टिः / स्र ष्टु रा / द्या व ह / ति
वि धि / हु तं या / ह वि र्या / च होत्री ।
म र भ न य य य
छन्दसः नाम-- अत्र म र भ न य य य इति गणानां
क्रमानुसारेण विद्यमानत्वात् अत्र स्रग्धरा इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻम्रभ्नैर्याणां
त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्ʼ
इति ।
१८. सदारात्मजज्ञातिभृत्यो
विहाय।
गणविश्लेषणम्—
◡ -- -- ◡ -- -- ◡ -- -- ◡ -- --
गणविश्लेषणम्—
◡ -- -- ◡ -- -- ◡ -- -- ◡ -- --
स
दा रा / त्म ज ज्ञा /
ति भृ त्यो / वि हा य ।
य य य य
छन्दसः नाम-- अत्र चत्वारः
य-गणानां क्रमानुसारेण विद्यन्ते । अतः
अत्र भुजङ्गप्रयातम् इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻभुजङ्गप्रयातं
चतुर्भिर्यकारैःʼ इति ।
१९. वासोवल्ली
विद्युन्माला।
गणविश्लेषणम्—
-- -- -- -- -- -- -- --
गणविश्लेषणम्—
-- -- -- -- -- -- -- --
वा
सो व / ल्ली वि द्यु
/ न्मा / ला ।
म म ग
ग
छन्दसः नाम-- अत्र म म ग ग इति गणानां क्रमानुसारेण
विद्यमानत्वात् विद्युन्माला इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻमो मो गो गो विद्युन्मालाʼ इति ।
२०. इन्द्रनीलोपलेनेव
या निर्मिता
-- ◡
-- -- ◡ --
-- ◡ -- -- ◡
--
गणविश्लेषणम्— इ
न्द्र नी / लो प ले /
ने व या / नि र्मि ता
र र र र
छन्दसः नाम-- अत्र चत्वारः र-गणाः क्रमानुसारेण
विद्यन्ते। अतः अत्र स्रग्विनी इति छन्दः प्रसज्यते।
संज्ञा-- आचार्येण
गङ्गादासेन ʻछन्दोमञ्जरीʼ इति ग्रन्थे अस्य लक्षणं कृतम्— ʻकीर्त्तितैषा
चतुरेफिका स्रग्विनीʼ इति ।
---------

Comments
Post a Comment