C-10, Unit-I, 4th Sem, CBPBU


C-10, Unit-I, 4th Sem, CBPBU

१. अग्निसूक्तमवलम्ब्य अग्निदेवस्य चारित्रिक-वैशिष्ट्यम् आलोच्यताम्।

उत्तरम्—
उपक्रमः--  वैदिक-देवतागणः एकैकस्याः प्राकृतिकशक्तेः प्रकाशः। अग्निरपि न व्यतिक्रमः। वैदिकयुगे प्रात्यहिक-कार्यनिर्वाहे अग्नेरेव मुख्या भूमिका आसीत्। अग्निः सर्वापेक्षया निकटतमः देवः। अतः उक्तम्—अग्निर्वै देवानामवमः। अग्निः पृथिवीस्थानस्य देवता अपि द्युलोके अन्तरीक्षलोके चापि विराजते। स द्युलोके जातोऽपि मातरिश्वा तं मर्त्यलोकम् आनयति स्म। वेदे वर्णितस्य अग्नेः प्रमन्थ इति नाम्ना सह ग्रीकभाषायाः ʻप्रमिथिउस्ʼ इत्यस्य सादृश्यमस्ति। ल्याटिनभाषायाः ʻignisʼ (इग्निस्) इत्यनेन तथा श्लाभनिक-भाषायाः  ʻogniʼ (ओग्नि) इत्यनेन सह वैदिकयुगस्य अग्नेः सादृश्यमस्ति।

अग्नेः चारित्रिक-वैशिष्ट्यम्—
अग्नेः उत्पत्तिः--  ऋग्वेदस्य विविधेषु मन्त्रेषु अग्नेः उत्पत्तेः विवरणं प्रदत्तम्। द्यौः अग्नेः पिता, पृथिवी तस्य माता।। क्वचित् स आपजः (जलात् उत्पन्नः) । त्वष्टा तस्य पिता इत्युक्तम्-- ʻयं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान।ʼ (ऋग्वेदः-- १०.२.७)।  अरणिकाष्ठ-मन्थनदण्डाभ्याम् अग्नेः उद्भवात् स वनस्पतिजः इत्युक्तम्। अरणि-मन्थनदण्डौ तस्य जनक-जनन्यौ इत्युक्तम्। स सहसः सूनुः, स इलापुत्रः अपि उक्तम्। ऋग्वेदस्य १०.४५.१ संख्यके मन्त्रे त्रिभ्यः स्थानेभ्यः अग्नेः उत्पत्तिः वर्णिता--
ʻदिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परिजातवेदाः।
तृतीयमप्सु नृम्ना अजस्रमिन्धान एनं जरते स्वाधः।।ʼ
भूलोक-द्युलोकान्तरीक्षलोकेषु अग्नेः नित्यम् आविर्भावः-- ʻविद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धामʼ (ऋग्वेदः-- १०.४५.२)।

अग्नेः आकृतिः--  अग्निः युवा इव तेजस्वी। स गृहपतिः सुदर्शनः अतिथिश्चेति अभिहितः। अग्निः  उज्ज्वलः केशधारी (शोचिष्केशः)। तस्य दन्तसमूहः उज्ज्वलः शुभ्रश्च (शुचिदन्)। तस्य श्मश्रुः स्वर्णवर्णः (हिरण्यश्मश्रुः)। तस्य त्रीणि मस्तकानि, चत्वारि चक्षूंषि च। क्वचित् क्वचित् अग्निः सहस्रचक्षुः सहस्रशृङ्गः इत्यपि अभिहितः। अग्निः वृषेण अश्वेन च सह उपमितः। अग्निः श्येन इव उज्ज्वलरूपेण आकाशे विराजते। काष्ठोपरि फणाधर-सर्प इव धावति। अग्नेः चिबुकम् उन्नतं दृढं च। स जलमध्ये वडवानलरूपेण तथा वनमध्ये दावानलरूपेण विराजते।

अग्नेः महिमा—
ऋक्संहितायाः प्रथममण्डलस्य प्रथमसूक्ते अग्नेः महिमा प्रतिपादितः। ऋषिः वैश्वामित्रो मधुच्छन्दाः अग्निं स्तौति—
ʻअग्निमीले पुरोहितं
यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम्।।ʼ
--अग्निः यज्ञस्य पुरोहितः दीप्तिमान् च। स यज्ञे देवानाम् आह्वानकारी ऋत्विक्, प्रभूतानां रत्नानां धारयिता दाता वा। अग्निः यज्ञे देवान् आह्वयति। देवाः अग्नेः मुखेन यज्ञाहुतिम् आस्वादयति। अतः उक्तम्--  ʻअग्निर्मुखं देवानाम्।ʼ
अग्निः उदारहस्तेन दानं करोति। अतः ऋषिणा उक्तम्—
ʻअग्निना रयिमश्ववत्
पोषमेव दिवे दिवे।
यशसं वीरवत्तमम्।।ʼ
होत्रा स्तुतः अग्निः यजमानाय धनं ददाति। तद् धनं अहनि अहनि वृद्धिं प्राप्नोति। तेन धनेन यशः, वीरपुत्रः भृत्यादयश्च लभ्यन्ते।
अग्निः स्वयं होतारूपेण देवान् यज्ञे आह्वयति। स क्रान्तदर्शी, सत्यस्वरूपः, उज्ज्वलकीर्तेः अधिकारीरूपेण श्रेष्ठः—
ʻअग्निर्होता कविक्रतुः
सत्यश्चित्रश्रवस्तमः।ʼ
ऋषिः भूय आह—अयम् अग्निः दीप्तिमान्, सर्वेषां यज्ञानां रक्षकः, अवश्यम्भावि-कर्मफलस्य द्योतकः, तथा स्वस्थाने (यज्ञशालायां) सततं वर्धमानः।
अग्निना सह ऋषिः पितापुत्रयोः सम्पर्कस्थापनपूर्वकमाह—
ʻस नः पितेव सूनवेऽग्ने सूपायनो भव।
सचस्वा नः स्वस्तये।।ʼ

उपसंहारः--  वैदिकजनानां सर्वापेक्षया निकटवर्ती उपकारी च आसीत् अग्निः। तस्मात् कृतज्ञतावोधात् श्रद्धया तैः अग्निः देवतारूपेण स्तुतः। ऋषयः कविदृष्ट्या अग्निं पश्यन्ति स्म। तस्मात् उपमा रूपकं चेति अलङ्कारद्वयेन सहजवोध्यभावेन तस्य वर्णना कृता। अग्निदेवस्य मन्त्रेषु ऋषीणां अकृत्रिमः मानविक-भावः एव प्रकाशितः इति शम्।
------



२. अक्षसूक्ते वर्णितस्य कितवस्य (द्यूतकारस्य) शोचनीयाम् अवस्थां वर्णयित्वा सूक्तस्य गुरुत्वमालोचयत।
उत्तरम्--  ऋग्वेदे धर्मनिरपेक्षसूक्तेषु अक्षसूक्तम् अन्यतमम्। ऋग्वेदस्य युगे अक्षक्रीडा चित्तविनोदनस्य अवकाश-यापनस्य च अन्यतमः उपायः आसीत्। अक्षक्रीडायाम् आसक्तानां जनानां जीवने सुखं नासीत्। अक्षसूक्ते अक्षक्रीडायाम् आसक्तस्य कस्यचित् कितवस्य आत्मकथनमूलकं करुणं वृत्तान्तं वर्णितम्।  
अक्षक्रीडायाः आकर्षण-विषये कितवः आह—
वातप्रवणे देशे जाताः आस्फारे प्रवर्तमानाः कस्पनशीलाः बृहतः अक्षाः कितवं हर्षयन्ति। मूजवति पर्वते जातस्य सोमरसस्य पानमिव विभीदकवृक्षजाताः चेतनकराः अक्षाः कितवम् आनन्दयन्ति—
ʻसोमस्येव मौजवतस्य भक्षो
विभीदको जागृविर्मह्यमच्छान्।ʼ

अक्षक्रीडया तस्य कीदृशी दुर्दशा जाता तेन प्रसङ्गेन दूतकार आह—तस्य रूपवती पत्नी तं प्रति कदापि न क्रोधपरायणा जाता, सा कदापि न लज्जिता जाता, सा तं बान्धवान् च प्रति सेवापरायणा आसीत्। परन्तु केवलं अक्षक्रीडाहेतोः तस्य पत्नी तं परित्यक्तवती-- ʻअक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम्।ʼ

अक्षक्रीडाजातात् पश्चात्तापात् द्यूतकार आह—
ʻद्वेष्टि श्वश्रूरप जाया रुणद्धि
न नाथितो विन्दते मर्डितारम्।
अश्वस्येव जरतो वस्न्यस्य
नाहं विन्दामि कितवस्य भोगम्।।ʼ
श्वश्रूमाता द्यूतकारं निन्दति, तस्य स्त्री तं परित्यजति, स याचमानोऽपि कस्मादपि किञ्चित् न प्राप्नोति। विक्रीतः जराग्रस्तः अश्व इव स द्यूतकारस्य जीवनं नेच्छति।
अक्षक्रीडायाः आकर्षणम् अतीव भयङ्करम्। अस्याम् आसक्तस्य जनस्य पत्नीम् अन्ये वस्त्रकेशाद्याकर्षणेन संस्पृशन्ति। तस्य पिता, माता, भ्रातरश्च वदन्ति--  ʻन जानीमो नयता बद्धमेतत्।ʼ

द्यूतकारः अक्षक्रीडां त्यक्तुकामोऽपि कितवैः अवक्षिप्ताः बभ्रुवर्णाः अक्षाः यदा शब्दं कुर्वन्ति, तदा स संकल्पं परित्यज्य अक्षव्यसनेन अभिभूयमानः अक्षसमीपं याति। जेतुमिच्छया सर्वे अक्षक्रीडासभाम् आगच्छन्ति। परन्तु पराजये अक्षाः अङ्कुशयुक्ताः घनाः (नितोदिनः) इव कितवान् कर्तन्ति। अक्षाः यथा कितवस्य तथा कुटुम्बस्यापि सन्पापनशीलाः भवन्ति। अक्षाः जयशीलं कितवमपि मधुसम्पृक्तेन विद्वेषेण पुनः निहन्ति। अक्षाः आस्पारे शीतस्पर्शाः अपि कितवानां हृदयं निर्दहन्ति।

द्यूतकारस्य दुर्दशां वर्णयित्वा पुनराह—
ʻजाया तप्यते कितवस्य हीना
माता पुत्रस्य चरतः क्व स्वित्।
ऋणावा बिभ्यद्धनमिच्छमानो-
ऽन्येषामस्तमुप नक्तमेति।ʼ
--कितवस्य पत्नी परित्यक्ता सती सन्तप्ता भवति, तस्य माता अपि पुत्रशोकेन सन्तप्ता भवति, अक्षपराजयात् ऋणवान् कितवः ऋणपरिशोधार्थम् रात्रौ अन्येषां गृहं चौर्यार्थं गच्छति।

स्वपत्न्याः दुर्दशां दृष्ट्वा द्यूतकारस्य हृदयं विदीर्णं भवति, अन्येषां सुसंस्कृतां स्त्रियं सुरम्याम् अट्टालिकां च दृष्ट्वा स परितप्तः भवति। शीतार्तः कितवः रात्रौ अग्नेः समीपे शेते। द्यूतक्रीडायाः भयङ्करां परिणतिम् उपलभ्य द्यूतकारः अन्यान् प्रति आवेदयति—
ʻअक्षैर्मा दीव्यः कृषिमित् कृषस्व
वित्ते रमस्व बहु मन्यमानः।ʼ

अन्ते च द्यूतकारः अक्षसमीपं प्रार्थयति-- 
ʻमित्रं कृणुध्वं खलु मृलता नो
मा नो घोरेण चरताभि धृष्णु।ʼ
--हे अक्षाः, यूयं अस्मासु मैत्रीं कुरुत, अस्मान् सुखयत च, बलपूर्वकं मा अभिचारत।

अक्षसूक्तस्य गुरुत्वम्-- 
समाजतत्त्वदिशा अक्षसूक्तस्य प्रभूतं गुरुत्वस्ति। अस्मात् सूक्तात् ज्ञायते यत्—

प्रथमतः, वैदिकयुगे द्यूतक्रीडा चित्तविनोदनस्य अन्यतमः उपायः आसीत्।
द्वितीयतः, द्यूतक्रीडया सह किञ्चित् अर्थनैतिकं कर्म युक्तमासीत्।
तृतीयतः, समाजे द्यूतक्रीडा स्वीकृता अपि शिष्टजनैः  निन्दनीया आसीत्।  
चतुर्थतः, समाजे द्यूतकारस्य अतीव अमर्यादाकरं स्थानमासीत्।
पञ्चमतः,  द्यूकारस्य चौर्यकर्मणः अनुमीयते यत्, समाजे अपराधप्रवणता अपि आसीत्।
षष्ठतः,  तत्काले कृषिकर्म एव जीविकानिर्बाहस्य मुख्यः सम्मानजनकश्च उपायः आसीत्।
-----

Comments

Post a Comment

Popular posts from this blog

মনুর বিধান ও কিছু কথা

সংস্কৃতসাহিত্যের ইতিহাস (বাংলায়) ১. ভারতীয় সমাজ, সংস্কৃতি ও সাহিত্যে রামায়ণের প্রভাব

সংস্কৃত নাটকের উৎপত্তি-বিষয়ক মতবাদ (Various theories on the origin of Sanskrit drama.)