C-8, Unit-II, Short Questions
C-8, Unit-II, Short Questions (Scientific and Technical
Literature (Mathematics, Chemistry, Medical Science, Astronomy, Vāstuśāstra,
Dance and Music)
संक्षिप्तम् प्रश्नोत्तरम्—
१.
संस्कृत-वैज्ञानिक-साहित्यस्य मुख्यशाखानां नामानि लिखत।
उत्तरम्-- संस्कृत-वैज्ञानिक-साहित्यस्य मुख्याः शाखाः यथा—
(क)
आयुर्वेदः, (ख) ज्योतिर्विद्या, (ग) गणितविद्या, (घ) किमियाविद्या, (ङ)
धातुविद्या,
(च)
सुरापातनविद्या, (छ) रत्नविद्या, (ज) प्राणिविद्या, (झ) पक्षिविज्ञानम्, (ञ)
कृषिविद्या उद्भिद्विद्या च।
२.
भारतीय-ज्योतिर्विद्यायाः मुख्यविभागानां नाम लिखत।
उत्तरम्-- भारतीय-ज्योतिर्विद्यायाः द्वौ मुख्यौ विभागौ—गणितम्,
फलित-ज्योतिषं चेति।
३. भारतीय-ज्योतिर्विद्यायाः मुख्यानाम् आचार्याणां तथा तेषां
ग्रन्थानां नामानि लिखत।
उत्तरम्--
भारतीय-ज्योतिर्विद्यायाः
मुख्याः आचार्याः-- आर्यभटः (आर्यभट्टः), वराहमिहिरः, ब्रह्मगुप्तः,
भास्कराचार्यः प्रमुखाः। आर्यभट-रचितः ग्रन्थः आर्यभटीयम्, आर्यसिद्धान्तः वा,
वराहमिहिर-रचिता पञ्चसिद्धान्तिका, ब्रह्मगुप्त-रचितः ब्रह्मस्फुटसिद्धान्तः,
भास्कराचार्य-रचितं ग्रन्थद्वयम्-- सिद्धान्तशिरोमणिः,
करणकुतूहलम् च।
अन्ये
च ग्रन्थाः-- भोज-रचितः राजमृगाङ्कः,
शतानन्द-रचिता भास्वती, मकरन्द-रचितं तिथ्यादिपत्रम्, गणेश-रचितं ग्रहलाघवम्,
सिद्धान्तरहस्यम् वा, कमलाकरस्य
सिद्धान्ततत्त्वविवेकः, प्रथमभास्करस्य महाभास्करीयम्, द्वितीयभास्करस्य
लघुभास्करीयम्, मञ्जुलस्य लघुमानसम् इत्यादयः।
४. भारतीय-ज्योतिषस्य
द्वयोः ग्रन्थयोः, तथा तयोः लेखकयोः नाम लिखत।
उत्तरम्--
भारतीय-ज्योतिषस्य
ग्रन्थद्वयं यथा-- वराहमिहिरस्य
बृहत्संहिता, पृथुयशा-रचिता होराशत्पञ्चाशिका इति।
अन्ये
ग्रन्थाः-- वराहमिहिरस्य बृहत्विवाहपटलम्,
पल्लवविवाहपटलम्, बृहज्जातकम्, लघुजातकम्, वशिष्ठ-रचिता वृद्धवशिष्ठसंहिता,
हर्षकीर्ति-रचितः ज्योतिषसारोद्धारः, कालिदासस्य ज्योतिर्विदाभरणम्, भृगु-रचिता भृगुसंहिता,
वल्लालसेन-लक्ष्मणसेनयोः अद्भुतसागरः इत्यादयः।
५.
पञ्चसिद्धान्तिका-ग्रन्थे के तावद् ग्रन्थाः अन्तर्भुक्ताः?
उत्तरम्—वराहमिहिरस्य
पञ्चसिद्धान्तिका-ग्रन्थे बृहत्संहिता, बृहद्विवाहपटलम्, पल्लवविवाहपटलम्,
बृहज्जातकम्, लघुजातकम् चेति ग्रन्थाः अन्तर्भुक्ताः।
अस्मिन्
ग्रन्थे तत्काले प्रचलिताः पञ्च सिद्धान्ताः आलोचिताः यथा—सूर्यसिद्धान्तः,
रोमकसिद्धान्तः, पौलिशसिद्धान्तः, पैतामहतन्त्रम्, वशिष्ठसिद्धान्तः चेति।
६.
किमुच्यते गणितशास्त्रम्? तु
उत्तरम्-- संख्यागणनया अङ्कगणनया वा यस्याः पद्धतेः
प्रयोगः क्रियते तद् गणितम् इति।
७.
गणितस्य मुख्यं विभागद्वयं किम्?
उत्तरम्--
गणितस्य
मुख्यं विभागद्वयं—संख्यागणितम् (पाटीगणितम्, वीजगणितम्) आकृतिगणितम् (ज्यामितिः)
च।
८.
प्राचीनभारतीय-गणितसास्त्रस्य कस्यचिद् ग्रन्थस्य तथा तस्य लेखकस्य नाम लिखत।
उत्तरम्--
प्राचीनभारतीय-गणितसास्त्रस्य
विख्यातः ग्रन्थः सिद्धान्तशिरोमणिः। अस्य रचयिता भास्कराचार्यः।
अन्ये
ग्रन्थाः-- आर्यभटस्य आर्यभटीयम्,
ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्तः, महावीराचार्यस्य गणितसारसंग्रहः, श्रीधराचार्यस्य त्रिशती,
श्रीनिवासस्य गणितचूडामणिः,
वृद्धर्षि-रचिता गणितावली, नारायण-पण्डित-रचिता गणितकौमुदी इत्यादयः।
९. किमुच्यते
वास्तुशास्त्रम्?
उत्तरम्-- गृह-अट्टालिका-प्रासाद-सेतु-दुर्गादि-निर्माणविषयकं
शास्त्रम् वास्तुशास्त्रम् इत्युच्यते।
१०.
कः आसीत् आर्याणां मुख्यः स्थपतिः ? तस्य ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्--
आर्याणां
मुख्यः स्थपतिः आसीत् विश्वकर्मा। तद्रचितः ग्रन्थः विश्वकर्मावास्तुशास्त्रम्
इति।
११.
. कः आसीत् अनार्याणां मुख्यः स्थपतिः ? तस्य ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्--
अनार्याणां
मुख्यः स्थपतिः आसीत् मयदानवः। तद्रचितः
ग्रन्थः मयमतस् इति।
१२.
वास्तुशास्त्रस्य अन्येषां कतिपय-ग्रन्थानां नामानि लिखत।
उत्तरम्—वास्तुशास्त्रस्य अन्ये प्रचलिताः ग्रन्थाः
यथा-- भोजराजस्य समराङ्गनसूत्रधारः, टि.
गणपतिशास्त्रीमहोदयेन आविष्कृतः ग्रन्थः मानसारः, शिल्परत्नम्,
मनुष्यालयचन्द्रिका, ईश्वरचन्द्र-शास्त्रीमहोदयेन प्रकाशितः युक्तिकल्पतरुः,
रघुनन्दन भट्टाचार्यस्य वास्तुयोगतत्त्वम्, चालुक्य-सोमेश्वरस्य मानसोल्लासः,
श्रीनाथस्य वास्तुमञ्जरी, काश्यपस्य काश्यपसंहिता, काश्यपशिल्पशास्त्रम् च,
मण्डनस्य प्रासादमण्डनम्, नारदस्य नारदशिल्पशास्त्रम् इत्यादयः।
१३.
प्राटीनभारतीय-रसायनशास्त्रस्य उल्लेखयोग्य-ग्रन्थानां नामानि लिखत।
उत्तरम्—वौद्धदार्शनिक-नागार्जुनस्य रसरत्नाकरः,
शार्ङ्गधर-रचिता शार्ङ्गधरसंहिता, शैवसम्प्रदायस्य तन्त्रग्रन्थः देवीशास्त्रम्,
वाग्भट-रचितम् अष्टाङ्गहृदयम्, भगवद्-गोविन्दपाद-रचितं रसहृदयम्, सोमदेव-रचितः
रसेन्द्रचूडामणिः, यशोधर-रचितः रसप्रकाशसुधाकरः, गोविन्दाचार्यस्य रससारः,
विष्णुदेवस्य रसराजलक्ष्मीः, माधव-रचिता रसकौमुदी इत्यादयः।
१४.
आयुर्वेदस्य अष्टानाम् अङ्गानां नामानि लिखत।
उत्तरम्-- आयुर्वेदस्य अष्ट अङ्गानि यथा-- शल्यतन्त्रम्, शालाक्यतन्त्रम्, कायचिकित्सा,
भूतविद्या, कौमारभृत्यः, अगदतन्त्रम्, रसायनम्, वाजीकरणम् चेति।
१५.
भारतीयायुर्वेदस्य प्राचीनाचार्याणां तथा तेषां ग्रन्थानां नामानि लिखत।
उत्तरम्--
भारतीयायुर्वेदस्य उल्लेखयोग्याः आचार्याः धन्वन्तरिः, दिवोदासः,
नकुलः, काशीराजः प्रमुखाः।
धन्वन्तरि-रचितं
चिकित्सातत्त्वविज्ञानम्, दिवोदास-रचितं चिकित्सादर्शनम्, नकुल-प्रणीतं
वैद्यकसर्वस्वम्, काशीराज-रचिता चिकित्साकौमुदी।
१६.
क आसीत् चरकः?
उत्तरम्-- भारतीयायुर्वेदस्य विख्यातः आचार्यः चरकः। स चरकसंहिता इति
ग्रन्थस्य संकलयिता। अयं ग्रन्थः कायचिकित्साविषयकः।
१७.
क आसीत् सुश्रुतः?
उत्तरम्-- भारतीयायुर्वेदस्य अन्यतमः विख्यातः आचार्यः सुश्रुतः। स
सुश्रुतसंहिता इति ग्रन्थस्य संकलयिता। सुश्रुतसंहिता
धन्वन्तरि-सम्प्रदाय-प्रवर्तितायाः शल्यचिकितसायाः श्रेष्ठः ग्रन्थः।
१८.
चरकसंहितायाः भागानां नामानि लिखत।
उत्तरम्—चरकसंहितायाः अष्ट भागाः सन्ति। यथा-- सूत्रस्थानम्, निदानस्थानम्, विमानस्थानम्,
शारीरस्थानम्, इन्द्रियस्थानम्, चिकित्सास्थानम्, कल्पस्थानम्, सिद्धिस्थानम्
चेति।
१९.
सुश्रुतसंहितायाः भागानां नामानि लिखत।
उत्तरम्—सुश्रुतसंहितायाः षट् भागाः सन्ति। यथा-- सूत्रस्थानम्, निदानस्थानम्, शारीरस्थानम्, चिकित्सास्थानम्, कल्पस्थानम्, उत्तरतन्त्रम् चेति।
२०.
क आसीत् भास्कराचार्यः?
उत्तरम्—प्राचीनभारतीयः अन्यतमः विख्यातः ज्योतिर्विद्
गणिताचार्यश्च आसीत् भास्कराचार्यः।
२१.
भास्कराचार्यस्य ग्रन्थस्य नाम किम्? तत्र कति अध्यायाः सन्ति? तेषां नामानि लिखत।
उत्तरम्—भास्कराचार्य-रचितः ग्रन्थः सिद्धान्तशिरोमणिः।
तत्र चत्वारः अध्यायाः सन्ति। यथा--
लीलावती, वीजगणितम्, ग्रहगणिताध्यायः, गोलाध्यायः चेति।
२२.
का आसीत् लीलावती?
उत्तरम्—भास्कराचार्यस्य अपूर्वसुन्दरी विदुषी कन्या
आसीत् लीलावती। भास्कराचार्यः तस्य सिद्धान्तशिरोमणि-ग्रन्थस्य प्रथमाध्यायस्य
नामकरणं कन्यायाः नामानुसारेण कृतवान्।
२३.
मयमतम् किंजातीयकः ग्रन्थः। अस्य रचयिता कः?
उत्तरम्--
मयमतम्
वास्तुशास्त्रस्य ग्रन्थः। अस्य रचयिता मयदानवः।
२५.
क आसीत् ब्रह्मगुप्तः? तस्य ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्—प्राचीनभारतस्य विख्यातः ज्योतिर्विद् तथा
गणितविद् आसीत् ब्रह्मगुप्तः। तस्य ग्रन्थस्य नाम ब्रह्मस्फुटसिद्धान्तः।
२६.
सङ्गीतशास्त्रस्य अपरं नाम किम्?
उत्तरम्-- सङ्गीतशास्त्रस्य अपरं नाम गान्धर्वविद्या इति।
२७.
भारतीय-सङ्गीतस्य उत्सः कः?
उत्तरम्--
भारतीय-सङ्गीतस्य
उत्सः सामवेदस्य सामगानम् इति।
२८.
वैदिकोत्तर-साहित्ये उल्लिखितानां
मुख्यानां प्राचीन-सङ्गीतार्याणां
नामानि लिखत।
उत्तरम्-- वैदिकोत्तर-साहित्ये उल्लिखिताः मुख्याः प्राचीन-सङ्गीतार्याः यथा—सदाशिवः, ब्रह्मा, भरतः, काश्यपः, मातङ्गः, कोहलः,
याष्टिकः, दत्तिलः, तुम्बुरुः, नारदः, नन्दिकेश्वरः प्रमुखाः।
२९.
भरत-रचितस्य सङ्गीतशास्त्रविषयक-ग्रन्थस्य नाम लिख्यताम्।
उत्तरम्--
भरत-रचितः
सङ्गीतशास्त्रविषयकः ग्रन्थः गान्धर्ववेदः इति। अयं ग्रन्थः अधुना दुष्प्राप्यः।
३०.
दत्तिलकृत-कृत-ग्रन्थस्य नाम लिख्यताम्?
उत्तरम्-- दत्तिलकृत-कृतः सङ्गीतशास्त्रविषयकः ग्रन्थः दत्तिलम् इति।
३१.
मतङ्गमुनि-रचितस्य ग्रन्थस्य नाम किम्?
उत्तरम्--
मतङ्गमुनि-रचितः
सङ्गीतशास्त्रविषयकः ग्रन्थः बृहद्देशी इति।
३२.
नारदकृत-ग्रन्थस्य नाम किम्?
उत्तरम्—नारदकृतः सङ्गीतशास्त्रविषयकः ग्रन्थः
सङ्गीतमकरन्दम्, सङ्गीतसुदर्शनम् चेति।
३३.
सङ्गीतरत्नाकरः इति ग्रन्थस्य रचयिता कः?
उत्तरम्-- शार्ङ्गदेवः सङ्गीतरत्नाकरः इति ग्रन्थस्य रचयिता।
सङ्गीतशास्त्रस्य
अन्ये ग्रन्थाः—
सोमभूपाल-रचिता
सङ्गीतरत्नावली, अहोल-रचितं सङ्गीतपारिजातम्, भोज-रुचिपति-रङ्गनाथ-रचितः पृथक्
पृथक् ग्रन्थः सङ्गीतकल्पतरुः, दामोदर-रचितं सङ्गीतदर्पणः, जयन-रचिता
सङ्गीतरत्नावली इत्यादयः।
३४.
प्राचीनभारतस्य कतिपय-नृत्याचार्याणां नामानि लिखत।
उत्तरम्-- प्राचीनभारतस्य
उल्लेखयोग्याः नृत्याचार्याः यथा--
कामदेवः, वासुकिः, धेनुकः, द्रोहिणिः, स्वाती, काश्यपः, शिविः, नारदः,
शार्दूलः प्रमुखाः।
३५.
प्राचीनभारतीय-नृत्यस्य आदिगुरुः कः?
उत्तरम्-- मार्कण्डेय-पुराणानुसारेण
प्राचीनभारतीय-नृत्यस्य आदिगुरुः मार्कण्डेयः।
३६.
भारतीय-नृत्यस्य कतिपय-ग्रन्थानां नामानि लिखत।
उत्तरम्-- भारतीय-नृत्यस्य उल्लेखयोग्याः ग्रन्थाः यथा-- नन्दिकेश्वर-रचितः भरतार्णवः, अभिनयदर्पणः,
कोहलस्य तालाध्यायः, अशोकमल्ल-रचितः नृत्याध्यायः, राणाकुम्भ-रचितः नृत्यरत्नकोषः,
जयसेन-रचिता नृत्यरत्नावली, सोमल-रचितः नाट्यचूडामणिः, गोपेन्द्र-तिप्पभूपालस्य तालदीपिका,
अच्युतरायस्य तालकवोधः, शुभङ्करस्य हस्तमुक्तावली, सङ्गीतदामोदरः, पुण्डरीक-विठ्ठल-रचितः
नर्तननिर्णयः, तुलाराज-रचितः नाट्यवेदागमः इत्यादयः।
------
Comments
Post a Comment