Self-Management in the Gita (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU), प्रश्नोत्तरम्
Self-Management in the Gita (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU), प्रश्नोत्तरम्
१. इन्द्रिय-मनोबुद्धि-आत्मनां स्वरूपम्, तथा
आत्मनः श्रेष्ठत्वम्
विषयवासनारूपः कामः अस्माकं सर्वबन्धनस्य मूलम्। रूप-रसादीन् विषयान् प्रति
इन्द्रियाणां यत् स्वाभाविकम् आकर्षणं तदेव कामः इति। इन्द्रियाणि मनः
बुद्धिश्चेति एतत्त्रयं कामस्य अधिष्ठानम्। अयं कामः इन्द्रियमनोबुद्धिभिः
ज्ञानमावृत्य जीवं विमोहयति।
चक्षुः, कर्णः, नासिका, जिह्वा त्वक् चेति पञ्च ज्ञानेन्द्रियानि, तथा
वाक्, पाणि, पादः, पायुः उपस्थश्चेति पञ्च कर्मेन्द्रियाणि। जीवः इन्द्रियाणि
मनश्च आश्रित्य शब्दादीन् विषयान् उपसेवते। उक्तं च गीतायां श्रीकृष्णेन—
ʻश्रोत्रं चक्षुः
स्पर्शनञ्च रसनं घ्राणमेव च।
अधिष्ठाय मनश्चायं
विषयानुपसेवते।।ʼ
अत्र ʻघ्राणमेव
चʼ, ʻमनश्चʼ इति पदद्वयस्य चकारेण इदं बोद्धव्यं यत् अत्र शव्दः, स्पर्शः, रूपं,
रसः, गन्धश्चेति पञ्च तन्मात्रम्, पञ्च ज्ञानेन्द्रियाणि, बुद्धिः अहङ्कारश्च
समाविश्यन्ते।
ʻमनो नाम सङ्कल्प-विकल्पात्मिका अन्तःकरणवृत्तिः, बुद्धिर्नाम निश्चयात्मिका
अन्तःकरणवृत्तिःʼ इति वेदान्तसारः। साधारणभावेन बुद्धि-शब्दस्य
अर्थः बोधः, ज्ञानम् इति। दार्शनिक-परिभाषया ʻबुद्धिःʼ इत्यनेन व्यवसायात्मिका
निश्चयात्मिका वा मनोवृत्तिः इत्युच्यते। विषयेन सह इन्द्रियसंयोगात् मनसि
नानाविधं ज्ञानं संस्कारं वा जायते। तेषु किं साधु किं वा असाधु, किं ग्रहणीयम्
किं वा वर्जनीयम् इत्येवं सङ्कल्पं विकल्पं च मनसि उपजायते। तदा बुद्धिः विचार्य
किं खलु ग्राह्यम् कर्तव्यं वा इति निर्णयति। तस्मात् मनः सङ्कल्प-विकल्पात्मकम्
इन्द्रियम्, बुद्धिश्च व्यवसायात्मिका अन्तःकरणवृत्तिः इत्युच्यते। बुद्ध्या
निर्णीतं विषयं प्रति मनः धावति, तस्मिन् कार्ये एव तद् आसक्तं भवति।
इन्द्रिय-मनोबुद्ध्यात्मनां सम्पर्क-विषये श्रीकृष्णेन
उक्तम्--
ʻममैवांशः जीवलोके
जीवभूतः सनातनः।
मनःषष्ठानीन्द्रियाणि
प्रकृतिस्थानि कर्षति।।ʼ
ब्रह्मणः (श्रीकृष्णस्य) एव सनातनः अंशः जीवः भूत्वा प्रकृतिस्थानि
मनःषष्ठानि इन्द्रियाणि, अर्थात् चक्षुः, कर्णः, नासिका, जिह्वा त्वक् चेति पञ्च
इन्द्रियाणि, मनश्च संसारे आकर्षति। एवं जीवः बद्धः भवति।
इन्द्रिय-मनोबुद्ध्यात्मनां कः श्रेष्ठः
इत्यस्मिन् विषये गीतायाम् उक्तम्--
ʻइन्द्रियाणि
पराण्याहुरिन्द्रियेभ्यः परं मनः।
मनसस्तु परा
बुद्धिर्योबुद्धेः परतस्तु सः।।ʼ (III.42)
पण्डिताः आहुः यत्, इन्द्रियाणि
पराणि, अर्थात् इन्द्रियगणः श्रेष्ठः। कस्मात् श्रेष्ठः? स्थूलभूतेभ्यः श्रेष्ठः इति। यतः इन्द्रियगणः
सूक्ष्मभूतः, प्रकाशकः, देहादेः परिचालकश्च इति। तस्मात् तस्य श्रेष्ठत्वम्।
इन्द्रियेभ्यः परं मनः, अर्थात् श्रेष्ठम्। मनः अन्तरिन्द्रियम् इत्युच्यते, तद्
बहिरिन्द्रियापेक्षया श्रेष्ठम् इति। मनसः तु परा बुद्धिः, अर्थात् मनसः बुद्धिः
श्रेष्ठा। बुद्धिः मनः परिचालयति, अतः मनसः बुद्धेः श्रेष्ठत्वम् उक्तम्। यः तु
बुद्धेः परतः, अर्थात् बुद्धेः उपरि विराजते स एव आत्मा। एवम् आत्मनः श्रेष्ठत्वं
प्रतिपादिकम्।
आत्मा देहोपाधिवशात् बद्धः इति
प्रतीयते। अस्मिन् देहादिष्टित-काले स जीवात्मा इत्युच्यते। आत्मा स्वरूपतः
शुद्धः, बुद्धः, मुक्तः, नित्यस्वभावः। विषय-वासनोपभोगात् स संसारे बद्धः जायते।
इन्द्रियसंयमनेन विषयवासनारूपं कामं विनश्य निष्कामकर्मयोगेन मुक्त्यर्थं यत्ने
कृते आत्मज्ञानं लभ्येत। अतः भगवता श्रीकृष्णेन उक्तम्—
ʻएवं बुद्धेः परं
बुद्ध्वा संस्तभ्यात्मानमात्मना।
जहि शत्रुं
महाबाहो कामरूपं दूरासदम्।।ʼ (III.43)
बुद्धेरपि उपरि विराजते परमात्मा।
बुद्धिद्वारा परमात्माविषये अवगम्य आरत्मशक्त्या एव आत्मानं निश्चलं कृत्वा
कामरूपं दुर्जयं शत्रुं विनाशयेत्। आत्मना आत्मानं स्थिरीकरणमेव
आत्मस्वातन्त्र्यम् इत्युच्यते।
ज्ञानमार्गे
आत्मतत्त्वस्य स्मरण-मनन-निदिध्यासनैः आत्मस्वातन्त्र्यं लभ्यते। योगमार्गे
प्रत्याहार-ध्यानधारणादिभिः मनसि निश्चले कृते आत्मस्वरूपं प्रकाश्यते।
भक्तिमार्गे अनन्यभक्तियोगेन ईश्वरे सर्वसमर्पिते प्रकृतेः बन्धनं दूरीभूयते,
इन्द्रिय-विषये रागद्वेषयोः लोपः जायते, कामः अपि दूरीभूयते। एवं जीवः आत्मस्वरूपं लब्ध्वा मुक्तः भवति इति
शम्।
-----
Comments
Post a Comment