Self-Management in the Gita (Syllabus (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU) प्रश्नोत्तरम्-२
Self-Management in the Gita (Syllabus (SEC-2, Unit-I) 4thSem (Sanskrit)(CBPBU) प्रश्नोत्तरम्-२
२. सत्त्व-रजस्तमः इति गुणत्रयस्य स्वरूपम्,
कार्यं च
सत्त्व-रजस्तमः इति भारतीय-दर्शने स्वीकृतं गुणत्रयम्। सर्वदर्शनस्य
समन्वयरूपायां गीतायामपि गुणत्रयस्य स्वरूपं कार्यं च सम्यग् आलोचितम्।
प्रकृतिजातम् इदं गुणत्रयं देहमध्ये अविकारिणम् आत्मानं निबध्नति। उक्तं च
श्रीकृष्णेन गीतायाम्—
ʻसत्त्वं रजस्तम
इति गुणाः प्रकृतिसम्भवाः।
निबध्नन्ति महाबाहो
देहे देहिनमव्ययम्।।ʼ (XIV.5)
जीवात्मा
अविकारी अपि प्रकृतेः गुणसङ्गवशात्
देहात्मभावं प्राप्य सुख-दुःख-मोहादिभिः आच्छन्नः भवति।
सत्त्वगुणस्य
स्वरूपं कार्यं च—
ʻतत्र सत्त्वं
निर्मलत्वात् प्रकाशकमनामयम्।
सुखसङ्गेन बध्नाति
ज्ञानसङ्गेन चानघ।।ʼ (XIV.6)
सत्त्वगुणः निर्मलः, प्रकाशकः,
अनामयश्च। अयं गुणः सुखसङ्गेन ज्ञानसङ्गेन च आत्मानं बध्नाति। सत्त्वगुणस्य द्वौ
धर्मौ—सुखं ज्ञानं चेति। अत्र सुखं ज्ञानं च बन्धनकारणम् इत्युच्यते। इदं सुखं न
आत्मानन्दम्। सुखदुःखादिः देहधर्मः, न तु आत्मधर्मः, अतः अविद्या। इदं ज्ञानमपि न
आत्मज्ञानम्।
सत्त्वगुणः कदा प्रवलः भवति इत्यस्मिन्
विषये गीतायामुक्तम्--
ʻसर्वद्वारेषु देहेऽस्मिन्
प्रकाश उपजायते।
ज्ञानं यदा तदा
विद्याद् विबृद्धं सत्त्वमित्युत।।ʼ (XIV.11)
यदा अस्मिन्
देहे सर्वेषु इन्द्रियद्वारेषु ज्ञानरूपं प्रकाशम् उपजायते तदा एव सत्त्वं प्रबलं
जातम् इति जानीयात्।
रजोगुणस्य
स्वरूपं कार्यं च—
अस्मिन् विषये
अर्जुनं प्रति उपदेशकाले श्रीकृष्णेन उक्तम्--
ʻरजो रागात्मकं बिद्धि
तृष्णासङ्गसमुद्भवम्।
तन्निबध्नाति कौन्तेय
कर्मसङ्गेन देहिनम्।।ʼ (XIV.7)
रजः रागात्मकम्
अनुरागयुक्तम्। इदं तु तृष्णायाः आसक्तेश्च उत्पत्तिस्थानम्। अप्राप्ते वस्तुनि
अभिलाषः तृष्णा, प्राप्ते वस्तुनि प्रीतिः आसक्तिः वा सङ्गः इति। अयं रजोगुणः
कर्मासक्त्या आत्मानं बध्नाति।
रजोगुणस्य
बृद्धौ किं भवेत् इत्यस्मिन् विषये गीतायामुक्तम्--
ʻलोभः प्रवृत्तिरारम्भः
कर्मणामशमः स्पृहा।
रजस्येतानि जायन्ते विबृद्धे
भरतर्षभ।।ʼ (XIV.12)
अर्थात्
रजोगुणे वर्धिते सति लोभः, सर्वदा कर्मकरणेच्छा, कर्मणि उद्यमः, अशान्तिः,
तृप्तेरभावः, विषयस्पृहा च जायन्ते।
तमोगुणस्य
स्वरूपं कार्यं च—
अस्मिन् विषये
श्रीकृष्णेन अर्जुनं प्रति उक्तम्--
ʻतमस्त्वज्ञानजं बिद्धि
मोहनं सर्वदेहिनाम्।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति
भारत।।ʼ (XIV.8)
तमोगुणः
अज्ञानात् जायते। अयं गुणः सर्वेषां जीवानां भ्रान्तिजनकः। अयं च पुनः प्रमादेन,
आलस्येन, निद्रया च आत्मानं बध्नाति।
तमोगुणे
वृद्धिप्राप्ते कीदृशम् अनर्थं भवेत् इत्यस्मिन् विषये गीतायाम् उक्तम्--
ʻअप्रकाशोऽप्रवृत्तिश्च
प्रमादो मोह एव च।
तमस्येतानि जायन्ते
विबृद्धे कुरुनन्दन।।ʼ (XIV.13)
अर्थात्
तमोगुणस्य वृद्धिप्राप्तौ विवेकभ्रंशः, निरुद्यमता, कर्तव्ये विस्मृतिः, तथा
बुद्धिविपर्ययः इत्येतानि लक्षणानि जायन्ते।
सत्त्वं, रजः, तमश्चेति त्रयः गुणाः न
पृथक् पृथक् न तिष्ठन्ति, परन्तु एकत्रमेव तिष्टन्ति। जीवस्य पूर्वकर्मानुरूपात्
अदृष्टवशात् क्वचित् सत्त्वम् अपरं गुणद्वयम् अभिभूय प्रबलं भवति, तेन जीवः सुखादौ
आसक्तः भवति। क्वचिद् वा रजोगुणः प्रबलः भूत्वा कर्मासक्तिं जनयति। क्वचित् पुनः
तमोगुणस्य प्राबल्यात् निद्रा, प्रमादः, आलस्यादयः उत्पद्यन्ते। अस्मादेव कारणात्
भिन्न-भिन्न-जीवस्य भिन्ना भिन्ना प्रकृतिः दृश्यते। सत्त्वगुणप्रधानाः जनाः
स्वर्गादीन् दिव्यान् लोकान् प्राप्नुवन्ति, रजोगुणप्रधानाः जनाः मध्यलोकम्
(भूलोकम्) तिष्ठन्ति, तमोगुणप्रधानाः जनाः अधोलोकं गच्छन्ति। यदा तु द्रष्टा जीवः
एभ्यः त्रिगुणेभ्यः अन्यं कर्तारं न अनुपश्यति, त्रिगुणातीतं परमात्मानं जानाति,
तदा स जन्म-मृत्यु-जरा-दुःखैः विमुक्तः सन् मोक्षं ब्रह्मभावं वा लभते।
-----
Comments
Post a Comment