Self-Management in the Gita (Syllabus (SEC-2, Unit-III) 4thSem (Sanskrit)(CBPBU) टिप्पणी लेखनीया।


Self-Management in the Gita  (SEC-2, Unit-III) 4thSem (Sanskrit)(CBPBU) टिप्पणी लेखनीया।

निष्कामकर्म
                 ʻन हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्ʼ । यतः प्रकृतिजैः सत्त्व-रजस्तमोभिः गुणैः अवशः सन् सर्व एव कर्म करोति। अस्माकं संसारबन्धनस्य कारणं कर्म एव। किं तर्हि कर्म न कर्तव्यम्, उत त्याज्यम्? अत्र उक्तं श्रीकृष्णेन—
                      ʻन कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।
                       न च संनस्यनादेव सिद्धिं समधिगच्छति।।ʼ
कर्मणः अकरणाद् अथवा कर्मत्यागात् सिद्धिं न लभ्येत। अत्र प्रश्नः—कर्मणा बन्धनं जायते, कर्मणः अनारम्भः कर्मत्यागः चापि न सम्भवेत्। तर्हि किं करणीयम्? अस्य समाधानरूपेण भगवता श्रीकृष्णेन  निष्काम-कर्मणः उपदेशः प्रदत्तः--
         ʻकर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
       मा कर्मफलहुतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।ʼ (II.47)
कर्मणि एव जीवस्य अधिकारः, न फले। अर्थात् कर्मफलं यथा कर्मप्रवृत्तेः हेतुः न भवेत्, यथा च कर्मत्यागे अपि प्रवृत्तिः न स्यात् तदर्थं फलाकाङ्क्षां वर्जयित्वा कर्म कर्तव्यम्।
निष्कामकर्म अपि न उद्देश्यहीनम्। लोकसंग्रहार्थं निष्कामकर्म क्रियते। भगवतः सृष्टिरक्षा एव अस्य उद्देश्यम्। तत्तु भगवतः कर्म जगद्रक्षार्थं प्रकृतेः प्रेरणया जीव-माध्यमेन साध्यते। तस्मात् निष्कामकर्मी कर्तृत्वाभिमानं  त्यक्त्वा सर्वं कर्मफलं जगद्धिताय कृष्णाय समर्पयति। श्रीकृष्णेन अर्जुनः एवमेव उपदिष्टः—
     ʻयत् करोषि यदश्नाति यज्जुहोषि ददासि यत्।
     यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्।।ʼ (IX.27)
अनेन फलभोगस्य अभावात् प्राक्तनकर्मणां च क्षयात् जीवस्य मोक्षलाभः जायते इति।

------


अहंकारत्यागः/ अहंत्यागः (Surrender of ego)

            अहंकृतः भावः अहङ्कारः, अर्थात् ʻअहमेव कर्ताʼ इत्येवं भाव एव अहङ्कारः इति। आत्मा स्वरूपतः अकर्ता अपि यावत् अहङ्कारः विद्यते तावत् कर्मबन्धनं न दूरीभूयते। यस्य अहङ्कारः नास्ति, यस्य बुद्धिः निर्लिप्ता स कदापि कर्मफलभाक् न भवति। प्रकृतेः गुणैः एव कर्माणि सम्पद्यन्ते। य तु ʻआत्मा प्रकृतेः भिन्नःʼ इति जानाति स एव तत्त्वविद्। यः पुनः ʻप्रकृतिरेव आत्माʼ इति मन्यते स मूढः अज्ञानी। मनः, बुद्धिः, देहेन्द्रियादयः प्रकृतेरेव परिणामभूताः।  विषयेन सह मनसः बुद्धेः, इन्द्रियादेः संयोगादेव कर्म उत्पद्यते। देहेन्द्रियादौ आत्माभिमानमेव अहङ्कारः।
           अहङ्कारं परित्यज्य ईश्वरे सर्वं समर्प्य निष्काम-कर्मयोगम् अबलम्ब्येत। अनेन उपायेन एव मोक्षलाभः सम्भवेत्। कीदृशः जनः भगवन्तं लभते इत्यस्मिन् गीयायां भगवता श्रीकृष्णेन उक्तम्—
                   ʻमत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।
                    निर्वैरः सर्वभूतेषु यः स मामेति पाण्डवः।।ʼ
यः जनः भगवद्भक्तः, सर्वभूतेषु वैरभावशून्यः, ईश्वेरे सर्वं समर्प्य स्पृहाशून्यः सन् कर्म करोति तादृशः जनः भगवन्तं प्राप्नोति।
अहङ्कारशून्यः, द्वेषरहितः, मैत्रीभावापन्नः, सदयः, ममत्वबुद्धिशून्यः, सुखे दुःखे च समचित्तः, क्षमाशीलः भक्तः एव भगवतः प्रियः। उक्तं च गीतायाम्—
              ʻअद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
              निर्ममो निरहङ्कारः समसुखदुःखः क्षमी।।ʼ
अतः कर्मबन्धनात् विमुच्य आत्मज्ञान-लाभार्थं अहङ्कारत्यागः एव प्रथमं कर्तव्य इति शम्।

--------


Comments

Post a Comment

Popular posts from this blog

মনুর বিধান ও কিছু কথা

সংস্কৃতসাহিত্যের ইতিহাস (বাংলায়) ১. ভারতীয় সমাজ, সংস্কৃতি ও সাহিত্যে রামায়ণের প্রভাব

সংস্কৃত নাটকের উৎপত্তি-বিষয়ক মতবাদ (Various theories on the origin of Sanskrit drama.)