Posts

SEC-2, Short Questions (Self-Management in Gita), 4th Semester, CBPBU

SEC-2, Short Questions (Self-Management in Gita), 4 th Semester, CBPBU १.   इन्द्रियेभ्यः परं किम् अस्ति? उत्तरम्-- इन्द्रियेभ्यः परं मनः अस्ति। २. मनसः परं किम् अस्ति। उत्तरम्-- मनसः परम् बुद्धिः अस्ति। ३. बुद्धेः परतः किम् अस्ति? उत्तरम्-- बुद्धेः परतः आत्मा अस्ति। ४. कः खलु आत्मा? उत्तरम्-- -- बुद्धेः परतः यः अस्ति स एव आत्मा। ५. कामरूपः शत्रुः कथं विनाश्यते? उत्तरम्—आत्मना आत्मानं संस्तभ्य कामरूपः शत्रुः विनास्यते। ६. कस्य कः सनातनः अंशः? उत्तरम्—भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः। ७. जीवलोके कः कम् आकर्षति? उत्तरम्-- भगवतः श्रीकृष्णस्य सनातनः अंशः जीवः मनःषष्ठानि इन्द्रियाणि जीवलोके आकर्षति। ८ . कानि तावत् मनःषष्ठानि इन्द्रियाणि? उत्तरम्—श्रोत्रं, चक्षुः, स्पर्शनं, रसनं, घ्राणं   (चक्षुः, कर्णः, नासिका, जिह्वा, त्वक् ) चेति पञ्च इन्द्रियाणि, तथा मनः इति समवायेन मनःषष्ठानि इन्द्रियाणि। ९. कः कथं विषयान् उपसेवते? उत्तरम्—जीवात्मा हि चक्षुः, कर्णः, नासिका, जिह्वा, त्वक्, मनश्च अधिष्ठाय शब्दादीन् विषयान् उपसेवते। ...

३. वेदे उपसर्गाणां प्रयोगः, C-10, Unit-II, Vedic Grammar

३. वेदे उपसर्गाणां प्रयोगः वैदिक-लौकिक-संस्कृतयोः अन्यतमं वैशिष्ट्यम् उपसर्गाणां प्रयोगः इति। निरुक्तकारः यास्कः उपसर्गस्य पदत्वं स्वीकृत्य आह--   ʻचत्वारि पदजातानि। नामाख्याते चोपसर्गनिपाताश्चेति।ʼ   लोकिक-संस्कृते उपसर्गः क्रियया सह संयुज्यते, तथा धातोः पूर्वं प्रयुज्यते। पाणिनिना सूत्रं कृतम्--   ʻउपसर्गाः क्रियायोगेʼ , तथा ʻते प्राग्धातोःʼ इति। वैदिकभाषायाम् उपसर्गः नियमितक्रमेण धातोः पूर्वं न प्रयुज्यते। उपसर्गयोगेन धातोः अर्थः परिवर्तते। अस्मिन् विषये कारिका यथा— ʻधात्वर्थं बाधते क्वचित् क्वचित्तमर्थमनुवर्तते। विशिनष्टि तमेवार्थमुपसर्ग-गतिस्त्रिधा।।ʼ अर्थात् उपसर्गः क्वचित् धातोः मुख्यम् अर्थं बाधित्वा   अन्यम् अर्थं प्रकाशयति, क्वचित् धातोः अर्थमेव अनुसरति, क्वचिद् वा धातोः अर्थमेव विशिनष्टि। विंशतिः उपसर्गाः। कारिकायामुक्तम्— ʻप्र-पराप-समन्वव-निर्दुरभि-व्यधि-सूदति-नि-प्रतिपर्यनवः। उप आङिति विंशतिरेष सखे उपसर्गविधिः कथितः कविना।।ʼ वैदिकभाषायाम् उपसर्गाणां प्रयोगविधिः— १. साधारण-नियमेन उपसर्गाः धातोः पूर्वं धातुना सह एव प्रयुज्यन्ते, परन्...

C-10, Unit-II, Vedic Grammar (लुङ्, लेट्)

C-10, Unit-II, Vedic Grammar (लुङ्, लेट्) १ . वैदिक-लुङ्पर्याये क्रियारूपनिर्माणं प्रयोगश्च। उत्तरम्— संस्कृतव्याकरणे दशसु लकारेषु लुङ्-लकारः अन्यतमः। ʻलुङ्ʼ इति सूत्रानुसारेण अतीतकाले धातोरुत्तरं लुङ्-लकारः भवति। पाश्चात्त्य-पण्डितैः लुङ्-लकारः ʻ Aorist ʼ इत्युक्तः। वैदिक-संस्कृते साधारणभावेन निकटवर्तिनः अतीतकालस्य अर्थे क्रियायाः इदं रूपविशेषं प्रयुक्तम्। क्रियायाः अतीतकालद्योतकस्य अस्य लुङ्-लकारस्य रूप-निर्माणार्थं प्रथमं कानिचिद् विकरणानि धातुना सह संयुज्यन्ते। ततः लङ्-लकारस्य गौणविभक्तयः द्, ताम्, अन् इत्यादयः प्रयुज्यन्ते। ʻलुङ्लङ्लृङ्क्ष्वडुदात्तःʼ इत्यनेन सूत्रेण   अडागमश्य भवति। परन्तु वैदिकसंस्कृते यथा अट्-युक्तस्य तथा अट्-विहीनस्य लुङः प्रयोगः लभ्यते। लोकिकसंस्कृते अट्-युक्तस्य लुङः प्रयोगः नित्यः। निर्माणगत-वैशिष्ट्यानुसारेण लुङ् ( Aorist ) द्विधा विभज्यते। यथा— १. स्-वर्णयुक्तः लुङ् ( Sigmatic Aorist ), तथा २. स्-वर्णविहीनः लुङ् ( Non-sigmatic Aorist )। १. स्-वर्णयुक्तः लुङ् ( Sigmatic Aorist )— प्रथमप्रकारे स्-वर्णयुक्ते लुङ्-लकारे धातु-प्रत्यययोः...